अयनम्
पठन सेटिंग्स
अयनम् | |
---|---|
अयनम् |
अयनं भारतीयकालगणनस्य कश्चन बिन्दुः । एकस्मिन् वर्षे द्वे अयने उत्तरायणम् दक्षिणायनम् चेति भवतः । एकस्मिन् अयने त्रयः ऋतवः सम्भवन्ति ।
- एकः पक्षः = १५ तिथयः ।
- एकः मासः = २ पक्षौ ( पूर्णिमातः अमावस्यापर्यन्तः कालः कृष्णपक्षः; अमावस्यातः पुनः पूर्णिमापर्यन्तः कालः शुक्लपक्षः।
- एकः ऋतुः = २ मासौ ।
- एकम् अयनम् = ३ ॠतवः ।
- एकं वर्षम् = २ अयने ।