उत्तरायणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

पीठिका –[सम्पादयतु]

उत्तरायणम् इति पदम् ‘उत्तरम्’ तथा ‘अयनम्’ इति द्वाभ्याम् पद्भ्यां निष्पन्नम् । उत्तरं प्रति अयनम् (गमनम्) इति फलितः अर्थः । आकाशे विद्यमानस्य सूर्यस्य गमनं यदा उत्तरदिशं प्रति सरति तदा ‘उत्तरायणम्’ इति व्यवहारः ।

उत्तरायणस्य दशायां पृथ्व्याः उत्तरगोलार्धे अहः (दिवा) दीर्घः भवति निशा च (रात्रिः) ह्रस्वी । दक्षिणायने पुनः तद्विपरीतम् (अर्थात् अहः ह्रस्वः रात्रिश्च दीर्घः) ।

उत्तरायणस्य आरम्भः २२ दिसंबर तमे दिनाङ्के भवति । सेयं दशा २१ जून पर्यन्तं भवति । तत्पश्चात् दक्षिणायनस्य आरम्भः ।

विविधशास्त्रग्रन्थेषु उत्तरायणम् –[सम्पादयतु]

१. सूर्यसिद्धान्ते-[सम्पादयतु]

दिवौ सूर्यस्य उच्चतमबिन्दोः परिगणना प्रतिदिनं क्रियते चेत् इदमस्माभिः द्रष्टुं शक्यते यत् एकस्मिन् वर्षे सूर्यस्य उच्च्तमबिन्दुः, मकरसंक्रमणाद् आरभ्य कर्काटकसंक्रमणपर्यन्तं षण्ण्मासं यावत् उत्तरदिशं प्रति गच्छति पुनश्च कर्काटकसंक्रमणाद् आरभ्य मकरसंक्रमणपर्यन्तं षण्ण्मासान्तरं दक्षिणदिशं प्रति । एतदैवाश्रित्य अनयोः कालयोः क्रमेण ‘उत्तरायणम्’ ‘दक्षिणायनम्’ इति व्यवहारः । तदुक्तम् –

भानोर्मकरसंक्रन्तेः षण्ण्मासा उत्तरायणम् । कर्कादेस्तु तथैवस्यात् षण्ण्मासाः दक्षिणायनम् ॥

२. पुराणेषु-[सम्पादयतु]

पुराणेष्वपि एतस्य उत्तरायणस्य तत्र तत्र उल्लेखः दृश्यते एव । उत्तरायणस्य षण्ण्मासात्मकः कालः देवानां अहः दक्षिणायनस्य षण्ण्मासात्मकः कालश्च देवानां रात्रिः, एवं एकः संवत्सरः (वर्षम्) देवानाम् एकं दिनम् इति वर्णितो दृश्यते । इदमपि श्रूयते यत् दक्षिणायने स्वर्गस्य द्वारं पिहितं भवति, उत्तरायणे च उद्घाटितं भवति इति । अतः जनाः उत्तरायणे मरणं श्रेयस्करमिति आमनन्ति ।

३. महाभारते-[सम्पादयतु]

श्रीमहाभारते कुरुकुलपितामहस्य भीष्मस्य निर्याणसन्दर्भे अस्य उत्तरायणस्य महन्महत्त्वम् अस्ति । पित्रा शान्तनुना इच्छामरणस्य वरं प्राप्य देवव्रतः (भीष्मः) कुरुवंशस्य स्थिरभविश्यं निर्माणाययैव स्वजीवितम् अर्पयामास । कुरुक्षेत्रमहायुद्धे अर्जुनेन शरशय्यायां बद्धः सन् भीष्मः पाण्डवानां विजयं दृष्ट्वापि स्वप्राणान् न त्यजति । तत्र कारणं काल एव । उत्तरायणे मरणं श्रेयस्करः इति उत्तरायणं यदा आरभते तदा स्वप्राणान् त्यजामि इति विनिश्चित्य तदनुसारेण उत्तरायणस्य पर्वकाले सुमुहूर्ते महामहिमभीष्मः दिवं गच्छति ।

उत्तरायण-मकरसंक्रान्त्योर्मध्ये भेदः -[सम्पादयतु]

सांप्रतिके काले उत्तरायणमिदं मकरसंक्रान्तेः भिन्नम् ।

मकरसंक्रान्तिः वर्तमानशताब्द्यां प्रर्तिवर्षं प्रायेण १४ जनवरी तमे दिनाङ्के भवति । उत्तरायणस्य आरम्भस्तु ततः पूर्वमेव (प्रायेण २१ डिसेम्बर् तमे दिनाङ्के) । किमर्थमिदं वैलक्षण्यम् इति चेत् तत्र कारणं भूमेः ध्रुवचलनम् अथवा वक्रायनम् इति विदुषाम् अभिप्रायः । पुरा उत्तरायणस्य आरम्भः मकरसंक्रान्तिश्च एकस्मिन्नेव दिने सम्भवति स्म । परं गच्छता कालेन अयनांशस्य कारणाद् इदं वैलक्षण्यं समजनि ।

श्रूयते यत् क्रिस्तपूर्वं २७२ तमे वर्षे मकरसंक्रन्तिः २१ डिसेम्बर् तमे दिनाङ्के, क्रिस्तीये १००० शताब्दे ३१ डिसेम्बर् तमे दिनाङ्के च आसीदिति । एवमेव इदमपि ऊह्यते यत् क्रीस्तीये ९००० शताब्दे सोयं मकरसंक्रन्तिपर्वः जून् मासे सम्भविष्यति इति । अत्र सर्वत्रापि देवाः प्रमाणम् ।

"https://sa.wikipedia.org/w/index.php?title=उत्तरायणम्&oldid=456785" इत्यस्माद् प्रतिप्राप्तम्