सामग्री पर जाएँ

पञ्चमहालमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(पञ्चमहलमण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)
पञ्चमहालमण्डलम्
मण्डलम्
गुजरातराज्ये पञ्चमहालमण्डलम्
गुजरातराज्ये पञ्चमहालमण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters गोधरा
Area
  Total ५,१०० km
Population
 (२०११)
  Total २३,८८,२६७
Languages
  Official गुजराती, हिन्दी
Website panchmahal.gujarat.gov.in
मध्यगुजरात

पञ्चमहालमण्डलम् (गुजराती: પંચમહાલ જિલ્લો, आङ्ग्ल: Panchmahal district) इत्येतत् गुजरातराज्यस्य किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति गोधरा इति नगरम् ।

भौगोलिकम्

[सम्पादयतु]

पञ्चमहालमण्डलस्य विस्तारः ५,१०० चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य मध्यभागे इदं जनपदम् अस्ति । अस्य मण्डलस्य पूर्वे दाहोदमण्डलं, पश्चिमे खेडामण्डलम्, उत्तरे राजस्थानराज्यं, दक्षिणे वडोदरामण्डलम् अस्ति । अस्मिन् मण्डले १,०४७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले अष्ट नद्यः प्रवहन्ति । ताः यथा- पानम् ,महीसागरः, गोमा, मेसरी, कोकण, दादरा, वेरी, सुखी ।

जनसङ्ख्या

[सम्पादयतु]

२०११ जनगणनानुगुणं पञ्चमहालमण्डलस्य जनसङ्ख्या २३,८८,२६७ अस्ति । अत्र १२,२७,८०५ पुरुषाः ११,६०,४६२ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४५८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४५८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.९२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४५ अस्ति । अत्र साक्षरता ७२.३२% अस्ति ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले एकादश उपमण्डलानि सन्ति । तानि- १ घोघम्बा २ गोधरा ३ हालोल ४ जाम्बुघोडा ५ कडाणा ६ कालोल ७ खानपुरं ८ लुनावाडा ९ मोरवा (हडफ) १० सन्तरामपुरं ११ शहेरा

कृषिः वाणिज्यं च

[सम्पादयतु]

गोधूमः, 'मेइज्' च अस्मिन् मण्डले उत्पाद्यमाने प्रमुखे सस्ये स्तः । आम्रफलं, कदलीफलं, पपितफलं, बृहज्जम्बीरं, 'ग्वावा' च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि फलानि सन्ति । वृन्ताकं, कपिशाकं ('क्याबिज्'), कूष्माण्डः, 'कोलीफ्लवर्', पलाण्डुः, लसुनं, आर्द्रकं ('जिञ्जर्') च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि शाकानि सन्ति । कृषिः, 'मिनरल्स्', क्षीरोत्पादनं, 'एञ्जिनियरिङ्ग् एण्ड् आटोमोबायिल्स्', प्रवासोद्यमः च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति । गुजरातराज्यस्य मण्डलेषु 'क्वार्ट्ज्'-उत्पादने अस्य मण्डलस्य प्रथमं स्थानम् अस्ति ।

वीक्षणीयस्थलानि

[सम्पादयतु]

चाम्पानेर-पावागढ-पुरातत्वशास्त्रोद्यानं विश्वपारम्परिकस्थानेषु अन्यतमम् अस्ति । इदं प्रमुखं वीक्षणीयस्थलम् । अत्र प्रतिवर्षं २० लक्षाधिकपर्यटकाः गच्छन्ति । अस्मिन् मण्डले विद्यमानं जम्बूघोडा-वन्यजीविधाम, रतनमहल-भल्लूकधाम च प्रसिद्धं वीक्षणीयस्थलम् अस्ति । लुणेश्वरमहादेवमन्दिरं, मन्देश्वरमहादेवमन्दिरम् अपि अस्य मण्डलस्य वीक्षणीयस्थलं वर्तते ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=पञ्चमहालमण्डलम्&oldid=478324" इत्यस्माद् प्रतिप्राप्तम्