अमरेलीमण्डलम्
अमरेलीमण्डलम् | |
---|---|
मण्डलम् | |
गुजरातराज्ये अमरेलीमण्डलम् | |
Country | भारतम् |
States and territories of India | गुजरातराज्यम् |
Headquarters | अमरेली |
Area | |
• Total | ७,३९७ km२ |
Population (२०११) | |
• Total | १५,१३,६१४ |
Languages | |
• Official | गुजराती, हिन्दी |
Website | amreli.gujarat.gov.in |
अमरेलीमण्डलम् (गुजराती: અમરેલી જિલ્લો, आङ्ग्ल: Amreli district) इत्येतत् गुजरातराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति अमरेली इति नगरम् । संस्कृतभाषायाम् अस्य नगरस्य पुरातनं नाम अमरवल्ली इति आसीत् ।
भौगोलिकम्
[सम्पादयतु]अमरेलीमण्डलस्य विस्तारः ७,३९७ चतुरस्रकिलोमीटर्मितः अस्ति । इदं मण्डलं गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे विद्यते । अरब्बीसमुद्रे विद्यमानस्य 'गल्फ् आफ् खम्भात्' इत्यस्य समीपे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे भावनगरमण्डलं, पश्चिमे जुनागढमण्डलम्, उत्तरे राजकोटमण्डलं, दक्षिणे अरब्बीसमुद्रः अस्ति । अस्मिन् मण्डले ५५० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले सप्त नद्यः प्रवहन्ति । ताः यथा- शेत्रुञ्जी, थेबी, धातरवाडी, गागडियो, शान्तिः, वडी, रायडी ।
जनसङ्ख्या
[सम्पादयतु]२०११ जनगणनानुगुणम् अमरेलीमण्डलस्य जनसङ्ख्या १५,१३,६१४ अस्ति । अत्र ७,७०,६५१ पुरुषाः ७,४२,९६३ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २०५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २०५ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ८.५९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९६४ अस्ति । अत्र साक्षरता ७४.४९% अस्ति ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले एकादश उपमण्डलानि सन्ति । तानि- १ अमरेली २ बाबरा ३ बगसरा ४ धारी ५ जाफराबाद् ६ खाम्भा ७ लाठी ८ लिलिया ९ राजुला १० सावरकुण्डला ११ वडिया
कृषिः वाणिज्यं च
[सम्पादयतु]कलायः, कार्पासः, तिलः, 'जवार', 'बाजरा' च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । गुजरातराज्यस्य मण्डलेषु कृष्युत्पादने इदं जनपदम् अन्यतमम् अस्ति । गुजरातराज्यस्य मण्डलेषु कलायस्य उत्पादने अस्य मण्डलस्य पञ्चमं स्थानम् अस्ति । गुजरातराज्यस्य सर्वकारेण वाणिज्यकेन्द्रत्वेन अस्य मण्डलस्य विकासः क्रियमाणः अस्ति ।
वीक्षणीयस्थलानि
[सम्पादयतु]पिपावाव-सागरतीरम् एकं प्रमुखं वीक्षणीयस्थलम् अस्ति । अस्मिन् मण्डले ३०,८९८ 'हेक्टेर्' अरण्यप्रदेशः अस्ति यस्मिन् विविधप्राणिसस्यविशेषाः दृश्यन्ते । अस्य मण्डलस्य ३७९.९ चतुरस्रकिलोमीटर्मितः भूप्रदेशः गिर्-अभयारण्ये अन्तर्भवति । श्रीगिरिधरभाई वस्तुसङ्ग्रहालयः प्रसिद्धं वीक्षणीयस्थलम् अस्ति यस्मिन् कला, पुरातत्त्वशास्त्रं, खगोलशास्त्रम्, इतिहासः इत्यादिविषयिकी प्रदर्शिनी अस्ति । पनियाला-वन्यजीविधाम, मितियाला-वन्यजीविधाम च प्रसिद्धं पर्यटकस्थलम् अस्ति । भुरखिया-हनुमानमन्दिरं, खोडियार-मन्दिरम् इति मन्दिरद्वयम् अपि अस्य मण्डलस्य प्रसिद्धं वीक्षणीयस्थलम् अस्ति ।
बाह्यानुबन्धाः
[सम्पादयतु]- For Unofficial Amreli Information [नष्टसम्पर्कः]
- List of places in Amreli
- Amreli district collector website Archived २००७-०८-१६ at the Wayback Machine
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]राजकोटमण्डलम् | ||||
जुनागढमण्डलम् | भावनगरमण्डलम् | |||
अमरेलीमण्डलम् | ||||
अरब्बीसमुद्रः |