सामग्री पर जाएँ

बीकानेर

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(बिकानेर इत्यस्मात् पुनर्निर्दिष्टम्)
बीकानेर

बिकाणो
नगरम्
लक्ष्मीनिवासराजगृहम्, बीकानेर
लक्ष्मीनिवासराजगृहम्, बीकानेर
देशः भारतम्
राज्यम् राजस्थानम्
मण्डलम् बीकानेर
Founded by Rao Bikaji
Area
  Total २७० km
Elevation
२४२ m
Population
 (2008)
  Total ७,२३,९८२
  Density १,९६०/km
Languages
  Official हिन्दी
Time zone UTC+5:30 (IST)
PIN
3340XX
Telephone code +91 151
Vehicle registration RJ-07
Website http://bikaner.nic.in

बीकानेर (हिन्दी: बीकानेर, आङ्ग्ल: Bundi) राजस्थानराज्ये स्थितस्य बीकानेरमण्डलस्य केन्द्रम् अस्ति ।

राजस्थानराज्ये उत्तरभागे मरुभूमिप्रदेशे स्थितम् एतत् नगरम् राजगृहैः दुर्गैः शिल्पैः च प्रसिद्धम् अस्ति रावबिकाजी महोदयः क्रिस्ताब्दे १४८८ तमे वर्षे एतत् नगरं निर्मितवान् । नगरं परितः उन्नताः भित्तयः सन्ति । नगरस्य मुख्यम् आकर्षणं जुनागडदुर्गमस्ति । राजा रायसिङ्गः क्रिस्ताब्दे १५८८ तः १५९३ तमवर्षावधौ एतत् दुर्गं निर्मितवान् । दुर्गं ९८६ मीटरदीर्घं, ३७ वीक्षकस्थानैः युक्तं च अस्ति । द्वारद्वयमस्ति । एक सूरजपोल् इति प्रसिद्धम् अस्ति । दुर्गे चन्द्रमहल्, फूलमहल्, कर्णमहल्, रङ्गमहल् विजयमहल् इत्यादीनि सन्ति । राजगृहाणि सुन्दराणि सन्ति । एतेषु आयुधसङ्ग्रहः सभाङ्गणं राज्ञाम् आस्थानम् इत्यादिकानि सन्ति । दुर्गानिवास, गङ्गानिवास इति द्वे सभाङ्गणे विशिष्टौ स्तः । एतेषां पुरतः रक्तवालुकमये प्रदेशे शिल्पानि सन्ति । रक्तदुर्गे राजानः सपरिवारं वसन्ति स्म । रक्तवालुकाशिलाभिः निर्मिते रक्तदुर्गे छायाचित्राणां प्रदर्शनालयः आयोजितः अस्ति ।

वाहनमार्गः

[सम्पादयतु]

जयपुर-तः ३७९ कि.मी दूरे तिष्ठति इदं नगरम् । बिकानेरसमीपे ३३. कि.मी दूरे देशनोकनामकं मूषकाणां मन्दिरम् अस्ति । एतत् कारनीदेवीमन्दिरमिति प्रसिद्धम् अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=बीकानेर&oldid=454854" इत्यस्माद् प्रतिप्राप्तम्