बीकानेर

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बीकानेर

बिकाणो
नगरम्
लक्ष्मीनिवासराजगृहम्, बीकानेर
लक्ष्मीनिवासराजगृहम्, बीकानेर
देशः भारतम्
राज्यम् राजस्थानम्
मण्डलम् बीकानेर
Founded by Rao Bikaji
Area
 • Total २७० km
Elevation
२४२ m
Population
 (2008)
 • Total ७,२३,९८२
 • Density १,९६०/km
Languages
 • Official हिन्दी
Time zone UTC+5:30 (IST)
PIN
3340XX
Telephone code +91 151
Vehicle registration RJ-07
Website http://bikaner.nic.in

बीकानेर (हिन्दी: बीकानेर, आङ्ग्ल: Bundi) राजस्थानराज्ये स्थितस्य बीकानेरमण्डलस्य केन्द्रम् अस्ति ।

राजस्थानराज्ये उत्तरभागे मरुभूमिप्रदेशे स्थितम् एतत् नगरम् राजगृहैः दुर्गैः शिल्पैः च प्रसिद्धम् अस्ति रावबिकाजी महोदयः क्रिस्ताब्दे १४८८ तमे वर्षे एतत् नगरं निर्मितवान् । नगरं परितः उन्नताः भित्तयः सन्ति । नगरस्य मुख्यम् आकर्षणं जुनागडदुर्गमस्ति । राजा रायसिङ्गः क्रिस्ताब्दे १५८८ तः १५९३ तमवर्षावधौ एतत् दुर्गं निर्मितवान् । दुर्गं ९८६ मीटरदीर्घं, ३७ वीक्षकस्थानैः युक्तं च अस्ति । द्वारद्वयमस्ति । एक सूरजपोल् इति प्रसिद्धम् अस्ति । दुर्गे चन्द्रमहल्, फूलमहल्, कर्णमहल्, रङ्गमहल् विजयमहल् इत्यादीनि सन्ति । राजगृहाणि सुन्दराणि सन्ति । एतेषु आयुधसङ्ग्रहः सभाङ्गणं राज्ञाम् आस्थानम् इत्यादिकानि सन्ति । दुर्गानिवास, गङ्गानिवास इति द्वे सभाङ्गणे विशिष्टौ स्तः । एतेषां पुरतः रक्तवालुकमये प्रदेशे शिल्पानि सन्ति । रक्तदुर्गे राजानः सपरिवारं वसन्ति स्म । रक्तवालुकाशिलाभिः निर्मिते रक्तदुर्गे छायाचित्राणां प्रदर्शनालयः आयोजितः अस्ति ।

गैलरी[सम्पादयतु]

वाहनमार्गः[सम्पादयतु]

जयपुर-तः ३७९ कि.मी दूरे तिष्ठति इदं नगरम् । बिकानेरसमीपे ३३. कि.मी दूरे देशनोकनामकं मूषकाणां मन्दिरम् अस्ति । एतत् कारनीदेवीमन्दिरमिति प्रसिद्धम् अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=बीकानेर&oldid=454854" इत्यस्माद् प्रतिप्राप्तम्