प्राकृतिकी आपद्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
चक्रवात्

प्राकृतिकी आपद्  ( शृणु)

/ˈprɑːkrtɪk ɑːpəd/) (हिन्दी: प्राकृतिक आपदा, आङ्ग्ल: Natural Disaster ) सर्वप्राणिभ्यः क्लेशकारिणी भवति । किन्तु इयम् आपद् प्राकृतिका भवति । तेन कारणेन वैज्ञानिकाः अपि आपदः रक्षणार्थं संशोधनं कुर्वन्तः सन्ति । “परिवर्तनम् एव संसारस्य नियमः” इति उक्त्या प्रकृतिं जेतुम् अशक्यम् । अतः वैज्ञानिकाः प्राकृतिकीः आपदः प्राग् एव ज्ञातुं शक्नुवन्ति, किन्तु आपदः अवरोद्धुं न शक्याः कैरपि । साम्प्रतम् अपि आपद्भिः रक्षणार्थं संशोधनानि प्रचलन्ति । संशोधने विभिन्नानाम् उपकरणानां, यन्त्राणाम् आवश्यकता भवति । वैज्ञानिकैः तानि उपकरणानि, यन्त्राणि च निर्मापितानि । तेषाम् उपकरणानां यन्त्राणां साहाय्येन आपदां स्थितिः ज्ञातुं शक्यते ।[१]

अन्तर्विषयाः

आपदां स्थितिः[सम्पादयतु]

आपदः प्रायः एका अनपेक्षिता घटना वर्तते । मानवाः तस्याः आपदः नियन्त्रणं कर्तुम् असमर्थाः सन्ति । प्राकृतिकशक्त्याः समक्षं मानवानां शक्तिः न्यूना वर्तते । आपदः स्वल्पे समये पूर्वसूचनया विना एव भवन्ति । ताभिः मानवजीवनस्य कार्याणि अवरूद्धानि भवन्ति । सांसारिकजनानां सम्पत्तेः हानिः भवति ।

परिवर्तनस्य प्रक्रिया गतिशीला वर्तते । इयं परिवर्तनस्य प्रक्रिया लघुगुरुतत्त्वेषु, पदार्थापदार्थेषु च प्रचलति । तया प्रक्रियया अस्माकं प्राकृतिकं, सामाजिकं, सांस्कृतिकं पर्यावरणं प्रभावितं भवति । मन्दगत्या अपि परिवर्तनानि भवन्ति । यथा – स्थलाकृतिषु, जीवेषु च । तीव्रगत्या परिवर्तनानि अपि भवन्ति । यथा – ज्वालामुखिविस्फोटः, सुनामी, भूकम्पः, चण्डवातः (तूफान) च ।[२]

कानिचित् परिवर्तनानि समीचीनानि अपि भवन्ति । यथा – ऋतूनां परिवर्तनं, फलानां पक्वता च । किन्तु अनिष्टैः परिवर्तनैः मानवाः भयभीताः सन्ति । काश्चित् आपदः प्राकृतिक्यः न सन्ति । मनुष्यः अपि आपदां कारकः अस्ति । आपदाम् उत्पत्तेः सम्बन्धः मानवीयक्रियाकलापैः सह अपि अस्ति । भोपाल गैस काण्डः, चेरनोबिल् नाभिकीय आपदा, सी. एफ्. सी. (क्लोरोफलोरो कार्बन्) वायोः वायुमण्डले निकासः, ध्वनिप्रदूषणं, वायुप्रदुषणं, जलप्रदूषणम् इत्यादीनि मानवनिर्मितानि पर्यावरणप्रदूषणानि आपदां कारकाणि सन्ति । केचन मानवीयगतिविधयः अपि आपदः आह्वयन्ति । आपदां प्रबन्धनाय "भारतीय राष्ट्रिय आपदा प्रबन्धन संस्थान" इत्यस्याः संस्थायाः स्थापना कृता अस्ति भारतसर्वकारेण । ततः परं १९९३ तमे वर्षे रियो डि जेनेरो, ब्राजील इत्यत्र भूशिखरसम्मेलनं, १९९४ तमस्य वर्षस्य मई-मासे यॉकोहामा, जापान् इत्यत्र आपदां प्रबन्धनविषये सङ्गोष्ठी इत्यादीनि कार्याणि विभिन्नेषु स्तरेषु चलन्ति ।[३]

आपद्, प्राकृतिकं सङ्कटम् इत्येतयोः भिन्नता[सम्पादयतु]

बहवः विद्वांसः अपि आपद्, प्राकृतिकसङ्कटम् इत्येतयोः भिन्नतां न जानन्ति । यद्यपि इमे द्वे परस्परं सम्बन्धिते स्तः । तथापि भिन्नता अस्ति । अतः एतयोः भिन्नतायाः ज्ञानम् आवश्यकम् । प्राकृतिकसङ्कटैः जनानां धनानां च हानिः भवति । यथा – महासागरीयधाराः, हिमालयपर्वतस्य हिमपातः, मरुस्थलेषु, हिमाच्छादितक्षेत्रेषु च विषमजलवायोः दशाः इत्यादीनि प्राकृतिकसङ्कटानि सन्ति । प्राकृतिकसङ्कटानां तुलनया प्राकृतिक्यः आपदः तीव्रगतिभिः भवन्ति । जनानां, धनानां च हानिः अपि अधिका भवति । तेषां सङ्कटानाम् उपरि मनुष्याणां नियन्त्रणम् अपि नास्ति ।

प्राकृतिकीनाम् आपदाम् अवगमनेन परिवर्तनानि अभवन् । पुरा प्राकृतिक्यः आपदः, सङ्कटानि च परस्परम् अन्तस्सम्बन्धिपरिघटनाः सन्ति इति जानन्ति । तस्मिन् काले मानवाः प्रकृत्याः स्थितौ हस्तक्षेपं न कुर्वन्ति स्म । अतः आपद्भिः हानिः न्यूना भवति स्म । तकनीकीविकासैः मानवेभ्यः बहुक्षमता प्रदत्ता अस्ति । तेन कारणेन पर्यावरणं प्रभावितं भवति । मनुष्यैः आपद्कारकक्षेत्रेषु गहनानि क्रियाकलापानि आरब्धानि । तेन प्राकृतिक्यः आपदः वर्धिताः ।[४]

प्राकृतिकिभिः आपदाभिः हानिः[सम्पादयतु]

  • १९४८ तमे वर्षे सोवियत् सङ्घ (रूस्)-देशे भूकम्पेन १,१०,००० जनानां मृत्युः जातः ।[५]
  • १९४९ तमे वर्षे चीन-देशे अतिवृष्ट्या ५७,००० जनानां मृत्युः जातः ।
  • १९५४ तमे वर्षे चीन-देशे अतिवृष्ट्या ३०,००० जनानां मृत्युः जातः ।
  • १९६५ तमे वर्षे पूर्वी पाकिस्तान-देशे (बाङ्ग्लादेश) उष्णकटिबन्धीयचक्रवातेन ३६,००० जनानां मृत्युः जातः ।
  • १९६८ तमे वर्षे ईरान्-देशे भूकम्पेन ३०,००० जनानां मृत्युः जातः ।
  • १९७० तमे वर्षे पेरू-देशे भूकम्पेन ६६,७९४ जनानां मृत्युः जातः ।
  • १९७० तमे वर्षे पूर्वी पाकिस्तान-देशे (बाङ्ग्लादेश) उष्णकटिबन्धीयचक्रवातेन ५,००,००० जनानां मृत्युः जातः ।
  • १९७१ तमे वर्षे भारत-देशे उष्णकटिबन्धीयचक्रवातेन ३०,००० जनानां मृत्युः जातः ।
  • १९७६ तमे वर्षे चीन-देशे भूकम्पेन ७,००,००० जनानां मृत्युः जातः ।
  • १९९० तमे वर्षे ईरान्-देशे भूकम्पेन ५०,००० जनानां मृत्युः जातः ।
  • २००४ तमे वर्षे इण्डोनेशिया-देशे, श्रीलङ्का-देशे, भारत-देशे च सुनामी इत्यनया ५,००,००० जनानां मृत्युः जातः ।
  • २००५ तमे वर्षे पाकिस्तान्-देशे, भारत-देशेभूकम्पेन ७०,००० जनानां मृत्युः जातः ।
  • २०११ तमे वर्षे जापान्-देशे सुनामी इत्यनया १५,८४२ जनानां मृत्युः जातः ।

आपदां विशालरूपेण जनानां, धनस्य च हानिः अभवत् । एकाकिने राष्ट्रे आपद्भ्यः रक्षणार्थं शक्तिः नास्ति । अतः १९८९ तमे वर्षे संयुक्त राष्ट्र सामान्य असेम्बली इत्यस्मिन् अस्य विषयस्य प्रस्तावः प्रस्थापितः । १९९४ तमे वर्षस्य मई-मासे जापान्-देशस्य यॉकोहामा-नगरे आपत्प्रबन्धनस्य विश्वसम्मेलने अस्य विषयस्य योजना कृता । तदा इयं योजना "यॉकोहामा रणनीति तथा सुरक्षित संसार के लिए कार्य योजना” इति कथ्यते स्म [६]

यॉकोहामा सम्मेलनं, तस्य प्रस्तावाः च[सम्पादयतु]

१९९४ तमे वर्षे मई-मासे २३ तः २७ दिनाङ्कपर्यन्तं जापान्-देशस्य यॉकोहामा-नगरे संयुक्तराष्ट्रस्य सदस्यदेशानाम्, अन्यदेशानां च “प्राकृतिक आपदा न्यूनीकरण” इत्यस्मिन् विषये विश्वसम्मेलनम् अभवत् । ’पूर्वं केषुचिद् वर्षेषु प्राकृतिकीभिः आपद्भिः मानवीयजीवने, आर्थिकस्थितौ च क्षतिः अभवत्’ इति प्रस्तावः स्वीकृतः । तेन अस्यां गोष्ठ्यां भविष्यत्कालं विचार्य आपद्भ्यः रक्षणार्थं, क्षतीनां न्यूनीकरणार्थं च नीतयः रचिताः ।’यॉकोहामा रणनीति’ इति तस्याः नाम प्रदत्तम् ।[७]

विश्वसम्मेलने प्राकृतिकीनाम् आपदां न्यूनीकरणार्थं प्रस्तावाः -

  1. एकैकस्य देशस्य कर्तव्यम् अस्ति यत्, सः प्राकृतिकीभ्यः आपद्भ्यः देशवासिनां रक्षणं कुर्यात् ।
  2. इयं योजना विकासशीलदेशानां, अल्पविकसितानां देशानां साहाय्येन अग्रणीः भविष्यति ।
  3. यत्र कुत्रापि साहाय्यार्थम् आवश्यकता भविष्यति, तत्र जनेभ्यः नियमाः भविष्यन्ति । अस्मिन् कार्ये स्वैच्छिकसङघटनानां, सामुदायिकसङ्घटनानां च एकीकरणं भवितव्यम् इति ।
  4. प्राकृतिकीभिः आपद्भिः रक्षणार्थं, न्यूनीकरणार्थं च उपक्षेत्रीयाणां, क्षेत्रीयाणाम् अन्ताराष्ट्रियसहयोगेन तेषां कार्याणां प्रोत्साहनं भवितव्यम् ।

१९९९-२००० वर्षम् आपन्न्यूनीकरणस्य अन्ताराष्ट्रियदशकत्वेन उद्घोषितम् ।

भारतस्य प्राकृतिक्यः आपदः[सम्पादयतु]

भारतदेशे प्राकृतिकी, सामाजिकी, सांस्कृतिकी च विविधता वर्तते । भारतस्य बृहत् भौगोलिकः आकारः, पर्यावरणीयाः विविधताः, सांस्कृतिक्यः बहुलताः च इत्येतैः कारणैः भारतम् उपमहाद्वीपः कथ्यते । भारतदेशे विविधाः आपदः सन्ति । ताः आपदः अधः वर्णिताः सन्ति ।

भूकम्पः[सम्पादयतु]

भूकम्पः एका अपूर्वसूचनीया विध्वंसिकी प्राकृतिकी आपद् वर्तते । भूकम्पेन विस्तृतक्षेत्राणि प्रभावितानि भवन्ति । विवर्तनिकगतिविधिभिः उत्पन्नाभिः ऊर्जाभिः भूकम्पः भवति । भू-स्खलनं, भूमेः अवतलनम् इत्यादिभिः निर्मितेन भूकम्पेन अल्पप्रभावः भवति । हानिः अपि अल्पा भवति ।

इण्डियन् प्लेट् इति इदं प्रतिवर्षम् उत्तरे, उत्तर-पूर्व दिशि १ से. मी. सर्पति । उत्तरस्यां दिशि स्थितं यूरेशियन् प्लेट् इति इदम् इण्डियन् प्लेट् इति इदम् अवरोधयति । तेन द्वयोः प्लेट् इत्येतयोः कोणाः उपरुन्धन्ति (lock) । अतः बहूषु स्थानेषु ऊर्जासङ्ग्रहणं भवति । अधिकमात्रायाम् ऊर्जासङ्ग्रणेन द्वयोः उद्वेगः वर्धते । उद्वेगः प्लेट् इत्येतयोः कोणान् उद्घाटयति । तेन कारणेन सहसा कम्पनं भवति । इदं कम्पनम् एव भूकम्पः इति कथ्यते । यत्र कम्पनस्य आरम्भः भवति । तत्स्थानम् उद्गमकेन्द्रं कथ्यते । उद्गमकेन्द्रस्य उपरि भूस्तरे निकटतमं स्थानम् अधिकेन्द्रं कथ्यते । कम्पनम् अधिकेन्द्रात् बहिः तरङ्गरूपेण गच्छति । अधिकेन्द्रस्य निकटतमस्थानेषु सर्वाधिका हानिः जायते । अधिकेन्द्रात् दूरवर्तिषु भागेषु कम्पनस्य तीव्रता न्यूना भवति ।

भूकम्पेन प्रभावितेषु भारतदेशस्य राज्येषु जम्मू-काश्मीरराज्यं, हिमाचलप्रदेश-राज्यं, उत्तराखण्डराज्यं, सिक्किम-राज्यं, पश्चिमबङ्गाल-राज्यस्य दार्जिलिङ्ग-उपमण्डलम्, उत्तरपूर्वदिशि सप्त राज्यानि च सन्ति । मध्यपश्चिमक्षेत्रेषु अपि भूकम्पस्य प्रभावः भवति । गुजरात-राज्यं (१८१९, १९५६, २००१), महाराष्ट्रराज्यं (१९६७, १९९३) च मध्यपश्चिमराज्ये स्तः ।[८]

पुरातनस्य स्थिरशैलप्रस्थस्य भूकम्पानां व्याख्यायां भूवैज्ञानिकाः कष्टम् अनुभवन्ति । "राष्ट्रिय भूभौतिकी प्रयोगशाला, भारतीय भूगर्भीय सर्वेक्षण, मौसम विज्ञान विभाग, भारत सरकार, राष्ट्रीय आपदा प्रबन्धन संस्थान" इत्येताभिः संस्थाभिः भारतस्य १२०० भूकम्पानां गहनतापूर्वकं विश्लेषणं कृतम् । ततः परं ताभिः संस्थाभिः पञ्चभूकम्पीयक्षेत्रेषु भारतं विभक्तम् ।

  1. अत्यधिकविनष्टसन्दिग्धक्षेत्रम्
  2. अधिकविनष्टसन्दिग्धक्षेत्रम्
  3. मध्यमविनष्टसन्दिग्धक्षेत्रम्
  4. निम्नविनष्टसन्दिग्धक्षेत्रम्
  5. अतिनिम्नविनष्टसन्दिग्धक्षेत्रम्[९]

भूकम्पस्य सामाजिकाः पर्यावरणीयाः च परिणामाः[सम्पादयतु]

भूकम्पस्य अपरं नाम भयम् । यतः भूकम्पेन पृथिव्यां बहुतीव्रतया विनाशः भवति । यत्र जनसङ्ख्या अधिका वर्तते तत्र तु भूकम्पेन बहुहानिः भवति । यदि जनसङ्ख्या अधिका वर्तते, तर्हि निवासाय भवनानि अपि अधिकानि भवन्ति । तेन कारणेन हानिः अधिका । भूकम्पेन परिवहनस्य व्यवस्था, सञ्चारस्य व्यवस्था, उद्योगस्य विकासशीलप्रक्रिया च नश्यति । अनेन जनाः गृहहीनाः भवन्ति । विकासशीलदेशानाम् अर्थव्यवस्था अपि प्रभाविता भवति ।[१०]

भूकम्पस्य प्रभावाः[सम्पादयतु]

भूकम्पेन पृथिव्याः जलमण्डलं, स्थलमण्डलं च प्रभावितं भवति । भूकम्पेन स्थलमण्डले भूमौ अन्तरं (gap), भूस्खलनं, द्रवीकरणं, भू-प्रबलता च भवति । मानवनिर्मितेषु भवनेषु अन्तरं (gap), आकुञ्चनं, निपातः च भवति । जलमण्डले अपि तरङ्गाः, जलस्य गतिशीलप्रबलता, सुनामी च भवति ।

भूकम्पेन भू-पर्पट्याम् अन्तरं भवति । तेन कारणेन भूम्याः जलं, अन्यः ज्वलनशीलपदार्थः च बहिः आगच्छति । जलेन समीपस्थस्य स्थलस्य नाशः भवति ।[११]

भूकम्पात् न्यूनीकरणं संरक्षणम् च[सम्पादयतु]

अन्यासाम् आपदां तुलनया भूकम्पः अधिकः विध्वंसकारी वर्तते । कारणं भूकम्पेन परिवहनव्यवस्था, सञ्चारव्यवस्था च नष्टा भवति । अतः जनेभ्यः सुरक्षाव्यवस्थायां काठिन्यं भवति । भूकम्पात् संरक्षणं कर्तुं शक्यते, किन्तु तस्य अवरोधनम् अशक्यं भवति । अतः तस्मात् संरक्षणं करणीयम् एव । जनाः पूर्वजागरूकाः भवेयुः । भूकम्पस्य पूर्वसूचना प्राप्तुं शक्यते । यथा -

  1. भूकम्पनियन्त्रणकेन्द्रस्य स्थापना करणीया । तेन कारणेन भूकम्पसम्भावितक्षेत्रेषु सूचना प्रसारणीया । जी. पी. एस्. (Geographical Positioning System) अनेन उपकरणेन प्लेट् इत्यस्य परिवर्तनस्य ज्ञानं प्राप्यते ।
  2. भूकम्पेन प्रभावितक्षेत्राणां मानचित्रस्य निर्माणं करणीयम् । जनेभ्यः भूकम्पस्य प्रभावन्यूनीकरणार्थं शिक्षणं दातव्यम् ।
  3. भूकम्पेन प्रभावितक्षेत्रेषु भवनानाम् आकृतिः परिवर्तनीया । तत्र उच्चभवनानां निर्माणं न करणीयम् ।
  4. भूकम्पेन प्रभावितक्षेत्रेषु भूकम्पप्रतिरोधिभवनानां निर्माणं करणीयम् ।[१२]

त्सुनामी[सम्पादयतु]

भूकम्पेन ज्वालामुखिना महासागरीये भूतले सहसा चापल्यं भवति । तेन महासागरीयजलस्य विस्थापनं भवति । तेन परिणामेन ऊर्ध्वाधः उच्चतरङ्गाः उत्पन्नाः भवन्ति । ते तरङ्गाः सुनामी इति कथ्यन्ते । सामान्यतः प्रारम्भे एक एव ऊर्ध्वाधः तरङ्गः जायते । समयान्तरे तरङ्गाणां शृङ्खला भवति ।

महासागरे जलतरङ्गस्य गतिः जलस्य गहनतायाः उपरि निर्भरा । अस्य तरङ्गस्य गतिः सामान्यसागरे अधिका, गहनसागरे न्यूना च भवति । तेन कारणेन महासागरस्य आन्तरिकभागे तरङ्गैः न्यूनः प्रभावः भवति । तटीयक्षेत्रेषु तरङ्गाः अधिकाः प्रभाविनः भवन्ति । तेन कारणेन अधिका क्षतिः भवति । सुनामी इति इदं सामान्यतः प्रशान्तमहासागरे, हिन्दमहासागरे च भवति । अलास्का, जापान्-देशः, फिलिपाइन-देशः, दक्षिण-पूर्व एशिया, इण्डोनेशिया, मलेशिया च प्रशान्तमहासागरस्य तटवर्तीनि क्षेत्राणि सन्ति । म्यांमार-देशः, श्रीलङ्का-देशः, भारतदेशःहिन्दमहासागरस्य तटवर्तीनि क्षेत्राणि सन्ति । तरङ्गाः तटं प्राप्य बह्व्यः उर्जाः उत्पादयन्ति । तेन कारणेन जलं तटीयनगरेषु स्थलेषु च शीघ्रं प्रविशति । अतः तरङ्गाः भवनानि नाशयन्ति । विश्वस्मिन् तटीयक्षेत्रेषु जनसङ्ख्यायाः प्रमाणम् अधिकं भवति । तानि क्षेत्राणि मानवगतिविधीनां केन्द्राणि भवन्ति । सुनामी इत्यस्य प्रमाणम् अन्याभिः आपद्भिः अधिकं भवति । अतः सुनामी इत्यस्य प्रभावस्य न्यूनीकरणे काठिन्यं भवति ।

सुनामी इत्यस्मात् संरक्षणार्थम् अन्ताराष्ट्रियस्तरीयाः प्रयासाः आवश्यकताः आसन् । अतः २००४ तमस्य वर्षस्य दिसम्बर-मासस्य २६ तमे दिनाङ्के चैन्नै-महानगरे सुनामी इत्यस्य काले अन्ताराष्ट्रियप्रयासाः अभुवन् । यद्यपि पूर्वसूचनानुसारं सतर्कता आसीत्, तथापि तस्मिन् सुनामी इत्यस्मिन् ३ लक्षं जनाः मृताः । ततः भारतदेशः "अन्ताराष्ट्रिय सुनामी चेतावनी तन्त्र" इत्यनेन सह संयुक्तः जातः ।[१३]

उष्णकटिबन्धीयः चक्रवत्[सम्पादयतु]

उष्णकटिबन्धीयः चक्रवत् ३०º उत्तरे, ३०º दक्षिणे अक्षांशयोः मध्ये प्राप्यते । अयं प्रायः ५०० कि. मी. तः १००० कि. मी. पर्यन्तं विस्तृतः वर्तते । अस्य औन्नत्यं १२ कि. मी. तः १४ कि. मी. पर्यन्तं भवति इति अनुमानम् । उष्णकटिबन्धीयचक्रवत् उष्मायन्त्ररूपेण विद्यते । समुद्रतलात् प्राप्य जलबाष्पस्य सङ्घननप्रक्रियया अयम् उष्मां प्राप्नोति ।

उष्णकटिबन्धीयचक्रवतः उत्पत्तिविषये वैज्ञानिकानां मतभेदाः सन्ति । अस्य उत्पत्तौ निम्नलिखिताः परिस्थितयः आवश्यक्यः वर्तन्ते ।

  1. पर्याप्तमात्रायाम् उष्णार्द्रवायोः निरन्तरं प्राप्तिः भवेत् , येन अधिकमात्रायां गुप्तोष्मा मुक्ता भवेत् ।
  2. क्षोभमण्डलस्य स्थिरता, यया स्थानीयस्तरे निम्नवायुप्रबलताक्षेत्रं निर्माति । इमं क्षेत्रं परितः अपि चक्रवत् भवितुं शक्नोति ।
  3. प्रबलशम्यायाः अनुपस्थितिः, यया गुप्तार्द्र-उष्मवायोः उष्मा अवरुध्यते ।[१४]

उष्णकटिबन्धीयचक्रवतः संरचना[सम्पादयतु]

उष्णकटिबन्धीयचक्रवति वायुप्रबलतायाः प्रवणता अत्यधिका वर्तते । चक्रवतः केन्द्रे उष्णवायोः निम्नवायुप्रबलतायाः मेघरहितः क्रोड इति विद्यते । अयं ’चण्डवातस्य चक्षुः’ इति कथ्यते । सामान्यतः समप्रबलतायाः रेखाः परस्परं समीपाः भवन्ति । ताः उच्चवायुप्रबलताप्रवणतायाः प्रतीकं वर्तन्ते । वायुप्रबलता प्रवणता १४ तः १७ मिलिबार् वा १०० कि. मी. पर्यन्तं भवितुं शक्नोति । कस्मिंश्चित् समये ६० मिलिबार वा १०० कि. मी. पर्यन्तं भवितुं शक्नोति ।[१५]

भारत-देशे चक्रवतां क्षेत्रियः समयानुसारं च वितरणम्[सम्पादयतु]

भारतस्य आकृतिः प्रायद्वीपीया अस्ति । अस्य पूर्वदिशि बङ्गाल प्रदेशस्य गर्तः , पश्चिमदिशि अरब-सागरः वर्तते । अतः अनयोः स्थलयोः एव चक्रवतः उत्पद्यते । वर्षर्तौ १०º तः १५º उत्तराक्षांशेषु चक्रवत् उत्पद्यते । बङ्गाल राज्यस्य गर्ते अधिकतमः अक्टुबर्-नवम्बरमासयोः चक्रवत् उत्पद्यते । तत्र १६º तः २१º उत्तरे, ९२º पूर्वदेशान्तरतः पश्चिमदिशि उत्पद्यते । किन्तु जुलाई-मासे अयं चक्रवत् सुन्दरवन-डेल्टा इत्यस्य समीपं १८º उत्तरे, ९०º पूर्वदेशान्तरतः पश्चिमदिशि उत्पद्यते ।[१६]

उष्णकटिबन्धीयचक्रवतां परिणामाः[सम्पादयतु]

उष्णकटिबन्धीयः चक्रवत् समुद्रस्य गुप्तोर्जया उत्पद्यते । अतः समुद्रात् दूरं चक्रवतः प्रभावः न्यूनः भवति । भारत-देशे अपि चक्रवत् यदा अरब-सागरात् दूरं गच्छति, तदा तस्य प्रभावः न्यूनः भवति । तटीयक्षेत्रेषु प्रायः उष्णकटिबन्धीयचक्रवत् १८० कि. मी. प्रतिघण्टा इति गत्या आविध्यति । तेन कारणेन चण्डवातीयक्षेत्रेषु समुद्रतले परिवर्तनं भवति । तत् परिवर्तनं “तूफान महोर्मि” इति कथ्यते । तेन तटीयक्षेत्राणि जलमग्नानि भवन्ति । सस्यानां, मानवीयरचनायाः अपि नाशः भवति ।[१७]

अतिवृष्टिः[सम्पादयतु]

वर्षर्तौ नदीनां जलस्य स्तरः वर्धते । स्तरसीमायाः परं जलं बहिरागच्छति । तेन कारणेन नदीनां जलं मानवीयप्रदेशं प्रविशति । निरन्तरं वर्षायाः कारणेन जलस्य स्तरः बहु वर्धते । तेन कारणेन अतिवृष्ट्याः स्थितिः निर्मीयते । अतिवृष्टिः सहसा न भवति । केषुचित् क्षेत्रेषु एव भवति । अन्याभ्यः आपद्भ्यः अतिवृष्ट्याः कारणानि मिलन्ति । यदा नदीषु जलवाहिकासु क्षमतायाः अधिकः जलप्रवाहः भवति, तदा अतिवृष्टिः कथ्यते । अतिवृष्ट्याः अन्यानि बहूनि कारणानि अपि सन्ति । यथा –

  1. तटीयक्षेत्रेषु ’तूफान महोर्मि’ इति ।
  2. दीर्घकालं यावत् वर्षा भवेत् ।
  3. हिमद्रवः भवेत् ।
  4. भूमेः अन्तःस्पन्दनमाने अल्पता ।
  5. मृत्तिकायाः अपरदने वृद्धिः भवेत्, तर्हि नदीनां जलस्तरे वृद्धिः ।[१८]

अतिवृष्टिः विशेषतः विस्तृतक्षेत्रेषु आगच्छति । तदा विनाशः अपि अधिकः भवति । अस्याः आपदः मानवः स्वयम् एव कारणम् अस्ति । वनच्छेदनेन, अवैज्ञानिककृषिपद्धत्या च अतिवृष्टौ तीव्रता आगच्छति । अतिवृष्ट्याः विध्वंसतायां वृद्धिः भवति

भारतस्य विभिन्नराज्येषु पौनःपुन्येन अतिवृष्ट्या बहुविधा हानिः भवति । "राष्ट्रिय बाढ आयोग" इत्यनेन देशस्य ४ कोटि हैक्टेयर् मिती भूमिः अतिवृष्ट्याः प्रभावितक्षेत्ररूपेण उद्घोषिता अस्ति । तेषु असम-राज्यं, पश्चिमबङ्गाल-राज्यं, बिहार-राज्यम् अस्ति । अनन्तरम् उत्तरभारतस्य अधिकतमाभिः नदीभिः पञ्जाब-राज्ये, उत्तरप्रदेश-राज्ये च अतिवृष्टिः भवति ।[१९]

अतिवृष्टेः परिणामाः नियन्त्रणं च[सम्पादयतु]

असम-राज्ये, पश्चिमबङ्गाल-राज्ये, बिहार-राज्ये, उत्तरप्रदेश-राज्ये, ओडिशा-राज्ये, आन्ध्रप्रदेश-राज्ये, तमिळनाडु-राज्ये, गुजरात-राज्ये, हरियाणा-राज्ये इत्यादिषु राज्येषु अतिवृष्टेः प्रभावः अधिकः वर्तते । तेन कारणेन भारतस्य अर्थव्यवस्था शिथिला जाता । अतिवृष्ट्या केवलं सस्यानि न नश्यन्ति, अपि तु मानवीयसंरचनायाः अपि नाशं भवति । यथा – परिवहनतन्त्रम्, जनानाम् आवासः इति । अतिवृष्ट्या ग्रसितक्षेत्रेषु बहवः रोगाः उत्पद्यन्ते । यथा – हैजा, आन्त्रशोथ, हेपेटाईटिस् इत्यादयः रोगाः भवन्ति । किन्तु अतिवृष्ट्या लाभः अपि अस्ति । अतिवृष्टिः क्षेत्रेषु उर्वरमृत्तिकाः आनयति । तेन सुसस्यानि भवन्ति । ब्रह्मपुत्रनद्यां स्थितः मजौली-नामकः एकः नदीयद्वीपः अस्ति । सः सदा अतिवृष्ट्या ग्रसितः भवति, परन्तु तत्र तण्डुलानां कृषिः समीचीना भवति । तथापि अयं लाभः गौणः गण्यते ।

भारतसर्वकारः, राज्यसर्वकारः च अस्याः आपदः अवगतः अस्ति । अस्याः आपदः निवारणार्थं सर्वकारेण निम्नलिखितानि महत्वपूर्णानि आयोजनानि कृतानि ।

  1. अतिवृष्ट्याः प्रभावितक्षेत्रेषु तटबन्धनिर्माणम् ।
  2. नदीषु जलबन्धनिर्माणम् ।
  3. नद्याः समीपवर्तिनां जनानाम् अन्यत्र आवासव्यवस्था करणीया ।[२०]

अनावृष्टिः[सम्पादयतु]

दीर्घकालं यावत् वर्षायाः अभावेन, अधिकबाष्पीकरणेन, जलाशयानां भूमिगतजलस्य अत्यधिकप्रयोगेण च पृथिव्यां जलस्य अभावः भवेत् । सा अनावृष्टिः कथ्यते ।

इयम् आपद् एका जटिला परिघटना वर्तते । अस्याः परिघटनायाः बहवः प्रकाराः सन्ति । यथा – वृष्टिः, बाष्पीकरणं, बाष्पोत्सर्जनं, कृषिपद्धतिः इत्यादयः ।[२१]

अनावृष्टेः प्रकाराः[सम्पादयतु]

ऋतुविज्ञानसम्बद्धा अनावृष्टिः[सम्पादयतु]

अस्यां स्थितौ दीर्घकालं यावत् अपर्याप्तवर्षा भवति । अस्याः सामयिकं स्थानिकं च वितरणम् अपि असन्तुलितं भवति ।

कृषिसम्बद्धा अनावृष्टिः[सम्पादयतु]

इयं भूमि-आर्द्रता अनावृष्टिः अपि कथ्यते । मृत्तिकायाम् आर्द्रतायाः अभावेन सस्यानि नश्यन्ति ।

जलविज्ञानसम्बद्धा अनावृष्टिः[सम्पादयतु]

यदा जलाशयानां, नदीनां, तडागानाम् च स्तरे न्यूनता भवेत्, तदा इयं स्थितिः उत्पद्यते ।

पारिस्थितिकी अनावृष्टिः[सम्पादयतु]

यदा प्राकृतिकपारिस्थितिकतन्त्रे जलस्याभावे उत्पादकतायां न्यूनता भवेत्, तदा पारिस्थितिकी अनावृष्टिः कथ्यते । तेन कारणेन तत्क्षेत्रं शुष्कं भवति ।[२२]

भारतदेशस्य अनावृष्ट्या प्रभावितानि क्षेत्राणि[सम्पादयतु]

भारतीया कृषिः वर्षायां निर्भरा वर्तते । भारतीयजलवायोः तन्त्रे अनावृष्टिः, अतिवृष्टिः च महत्वपूर्णं तत्त्वम् अस्ति । वैज्ञानिकानाम् अनुमानानुसारेण भारत-देशे भौगोलिकक्षेत्रस्य १९% भागः, जनसङ्ख्यायाः ३०% भागः च अनावृष्ट्या प्रभावितः भवितुं शक्नोति । अतः भारतस्य ५ कोटिः जनाः अनावृष्ट्या प्रभाविताः सन्ति । प्रायः एतावत् अपि दृष्टम् अस्ति यत्, केषुचित् भागेषु अतिवृष्टिः भवति, अन्यत्र केचित् भागाः अनावृष्ट्या प्रभाविताः भवन्ति । एतादृशी स्थितिः वर्षर्तौ परिवर्तनशीलतायाः कारणेन भवति । तेन कारणेन भारतस्य विभिन्नक्षेत्राणां त्रिषु भागेषु विभाजनं कृतम् अस्ति ।[२३]

अत्यधिक-अनावृष्टिप्रभावितक्षेत्रम्[सम्पादयतु]

राजस्थान-राज्यस्य अधिकतमः भागः, गुजरात-राज्यस्य कच्छक्षेत्रं च अत्यधिक-अनावृष्टिप्रभावितक्षेत्रं वर्तते । तेषु राजस्थान-राज्यस्य जैसलमेर-मण्डलं, बाडमेर-मण्डलं च अपि प्रभावितम् अस्ति । तत्र ९० मि. मी. इत्यस्मात् अपि न्यूना वर्षा भवति ।

अधिक-अनावृष्टिप्रभावितक्षेत्रम्[सम्पादयतु]

राजस्थान-राज्यस्य पूर्वीभागः, मध्यप्रदेश-राज्यस्य अधिकतमः भागः, महाराष्ट्र-राज्यस्य पूर्वीभागः, आन्ध्रप्रदेश-राज्यस्य आन्तरिकभागः, कर्नाटक-राज्यस्य शैलप्रस्थः, तमिळनाडु-राज्यस्य औत्तरीयभागः, झारखण्ड-राज्यस्य दक्षिणभागः, ओडिशा-राज्यस्य आन्तरिकभागः च अधिक-अनावृष्टिप्रभावितक्षेत्रम् अस्ति ।

मध्यम-अनावृष्टिप्रभावितक्षेत्रम्[सम्पादयतु]

राजस्थान-राज्यस्य औत्तरीयभागः, हरियाणा-राज्यं, उत्तरप्रदेश-राज्यस्य कानिचित् मण्डलानि, गुजरात-राज्यस्य अन्यानि शेषमण्डलानि, महाराष्ट्र-राज्यं, झारखण्ड-राज्यं, तमिळनाडु-राज्यस्य कोयम्बटुर-शैलप्रस्थः, कर्नाटक-राज्यस्य आन्तरिकभागः मध्यम-अनावृष्टिप्रभावितक्षेत्रं वर्तते ।

भारतस्य शेषाः भागाः अल्पप्रभाविताः सन्ति ।

अनावृष्ट्याः परिणामाः[सम्पादयतु]

अनावृष्ट्याः समाजे प्रभावः भवति । सस्यानां नाशात् अन्नस्य अल्पता भवति | तादृशी स्थितिः अकालः कथ्यते । तृणानाम् अभावे जन्या स्थितिः तृण-अकालः कथ्यते । जलस्याभावे जन्या स्थितिः जल-अकालः कथ्यते । एताः तिस्रः स्थितयः मिलित्वा त्रि-अकालः कथ्यन्ते । इयं स्थितिः विध्वंसिका भवति । अनावृष्ट्या पशूनां, पशुपालकानां मृत्युः भवति । जलस्य अभावेन जनाः दूषितजलं पिबन्ति । दूषितजलस्य पानेन आन्त्रशोथ, हैजा, हेपेटाईटिस् च इत्यस्मात् रोगैः जनाः पीडिताः भवन्ति । सामाजिकं, प्राकृतिकं च पर्यावरणम् अनावृष्ट्या तात्कालिकम् एव प्रभावितं भवति । अस्य प्रभावः दीर्घकालिकः भवति ।[२४]

भूस्खलनम्[सम्पादयतु]

पृथिव्याः सर्पणप्रक्रिया भूस्खलनं कथ्यते । भूस्खलनेन समीपस्थं स्थलं प्रभावितं भवति । अन्याभ्यः आपद्भ्यः भूस्खलनं सामान्यं वर्तते । किन्तु प्राकृतिकपर्यावरणे, राष्ट्रियार्थव्यवस्थायां च अस्य प्रभावः अधिकः भवति । भूस्खलनं मुख्यत्वेन स्थानीयकारणैः उत्पद्यते । अस्याः आपदः अनुमानं कर्तुं कठिनं भवति । भारतस्य विभिन्नक्षेत्राणां चतुर्षु क्षेत्रेषु विभाजनं कृतम् अस्ति ।[२५]

अत्यधिकभूस्खलनसुभेद्यताक्षेत्रम्[सम्पादयतु]

हिमालयपर्वतस्य अस्थिरपर्वतशृङ्खलाः, अण्डमान-निकोबारद्वीपसमूहः, पश्चिमीघट्टः, उत्तर-पूर्वीक्षेत्रम् च अत्यधिकभूस्खलनसुभेद्यताक्षेत्रे सम्मिलितम् अस्ति । मानवीयसंसाधनम् अपि अस्मिन् क्षेत्रे सम्मिलितं वर्तते । यथा – मार्गनिर्माणं, जलबन्धनिर्माणम् इत्यादीनि कार्याणि सन्ति ।

अधिकभूस्खलनसुभेद्यताक्षेत्रम्[सम्पादयतु]

अस्य क्षेत्रस्य परिस्थितिः अत्यधिकभूस्खलनसुभेद्यताक्षेत्रस्य स्थित्या सह किञ्चित् समाना दृश्यते । हिमालयक्षेत्रस्य सर्वाणि राज्यानि, भारतस्य उत्तरपूर्वीभागः (असम-राज्यं विहाय) च अस्य क्षेत्रे सम्मिलितानि सन्ति ।

मध्यमन्यूनभूस्खलनसुभेद्यताक्षेत्रम्[सम्पादयतु]

भारत-देशस्य झारखण्ड-राज्यम्, ओडिशा-राज्यं, छत्तीसगढ-राज्यं, मध्यप्रदेश-राज्यं, महाराष्ट्र-राज्यम्, आन्ध्रप्रदेश-राज्यं, कर्नाटक-राज्यं, तमिलनाडु-राज्यं, गोवा-राज्यं, केरल-राज्यं च मध्यमन्यूनभूस्खलनसुभेद्यताक्षेत्रम् अस्ति ।[२६]

अन्यक्षेत्रम्[सम्पादयतु]

भारत-देशस्य अन्यानि क्षेत्राणि भूस्खलनात् पीडितानि सन्ति । यथा – राजस्थान-राज्यं, हरियाणा-राज्यम्, उत्तरप्रदेश-राज्यं, बिहार-राज्यं, पश्चिमबङ्गाल-राज्यं (दार्जिलिङ्ग-मण्डलं विहाय), असम-राज्यं च ।

भूस्खलनस्य परिणामाः[सम्पादयतु]

भूस्खलनस्य प्रभावः लघुक्षेत्रेषु दृश्यते । मार्गेषु अवरोधेन, रेलमार्गे अवरोधेन, जलवाहिकासु शैलानां पतनेन च गम्भीरपरिणामाः भवन्ति । भूस्खलनेन नदीनां मार्गे अवरोधः भवति । तेन कारणेन नदीनां जलं नगरं प्रविशति । अतः जनानां, मानवीयसम्पत्तेः च नाशः भवति । नाशात् परम् आवागमने अवरोधः भवति । अवरोधेन विकासकार्याणां गतिः न्यूना भवति ।[२७]

निवारणम्[सम्पादयतु]

भूस्खलन्यात् रक्षणार्थं विभिन्नक्षेत्रेषु विभिन्नाः उपायाः चिन्तनीयाः । अधिकभूस्खलनसम्भावितक्षेत्रेषु मार्गाणां जलबन्धानां च निर्माणे प्रतिबन्धः करणीयः । बृहद्विकासपरियोजनासु नियन्त्रणं भवितव्यम् ।[२८]

निष्कर्षः[सम्पादयतु]

  • आपदः मानवीयाः प्राकृतिक्यश्च सन्ति । आपदां नियन्त्रणं कठिनं भवति । तेषु अपि प्राकृतिकीनाम् आपदां नियन्त्रणम् असम्भवम् एव । किन्तु आपद्भ्यः रक्षणार्थं मानवैः प्रयासः करणीयः । अतः तेषां निवारणार्थं तिस्रः अवस्थाः कृताः । आपदां पूर्वं, आपत्समये, आपदः परं च ।
  • आपदः पूर्वम् आपद्विषयिकीः सूचनाः एकीकृत्य आपत्सम्भावितक्षेत्राणां मानचित्राणि निर्मापणीयानि । जनेभ्यः अस्याः आपदः सूचना दातव्या । आपदः पूर्वम् आपद्योजना निर्मापणीया । आपदः रक्षणार्थम् उपायाः करणीयाः ।
  • आपत्समये अर्थसाहाय्यार्थं कार्याणि करणीयानि । आपद्ग्रस्तजनानाम् आश्रयस्य , जलस्य, भोजनस्य, औषधीनां च व्यवस्था करणीया ।
  • आपदः परम् आपदः प्रभावितजनानां रक्षणं, पुनर्वासं च विधेयः ।
  • भारत-देशस्य ६६% जनाः आपदाभ्यः प्रभाविताः सन्ति । अतः एते उपायाः महत्वपूर्णाः सन्ति ।[२९]

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यानुबन्धः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 81. ISBN 8174505598. 
  2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 82. ISBN 8174505598. 
  3. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 82. ISBN 8174505598. 
  4. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 83. ISBN 8174505598. 
  5. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 83. ISBN 8174505598. 
  6. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 83. ISBN 8174505598. 
  7. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 84. ISBN 8174505598. 
  8. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 85. ISBN 8174505598. 
  9. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 85. ISBN 8174505598. 
  10. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 85. ISBN 8174505598. 
  11. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 87. ISBN 8174505598. 
  12. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 87. ISBN 8174505598. 
  13. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 87-88. ISBN 8174505598. 
  14. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 88. ISBN 8174505598. 
  15. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 88-89. ISBN 8174505598. 
  16. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 89. ISBN 8174505598. 
  17. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 89. ISBN 8174505598. 
  18. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 89. ISBN 8174505598. 
  19. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 91. ISBN 8174505598. 
  20. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 91. ISBN 8174505598. 
  21. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 91. ISBN 8174505598. 
  22. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 93. ISBN 8174505598. 
  23. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 93. ISBN 8174505598. 
  24. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 95. ISBN 8174505598. 
  25. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 95. ISBN 8174505598. 
  26. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 96. ISBN 8174505598. 
  27. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 96. ISBN 8174505598. 
  28. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 96. ISBN 8174505598. 
  29. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 97. ISBN 8174505598. 
"https://sa.wikipedia.org/w/index.php?title=प्राकृतिकी_आपद्&oldid=410033" इत्यस्माद् पुनः प्राप्तिः