सामग्री पर जाएँ

झारखण्डराज्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(झारखण्ड इत्यस्मात् पुनर्निर्दिष्टम्)
झारखण्डराज्यम्
झारखण्डराज्यस्य स्थाननिर्देशः भारते
झारखण्डराज्यस्य स्थाननिर्देशः भारते
झारखण्डराज्यस्य मानचित्रम्
झारखण्डराज्यस्य मानचित्रम्
देशं  भारतम्
वलयाः अङ्गिका, भोजपुरम्, मैथिली, खोरठा
विभागः सन्थाल परगना विभागः, दक्षिणी छोटानागपुर विभागः, उत्तरी छोटानागपुर विभागः, पलामू विभागः
स्थापना १५ नवम्बर २०००
राजधानी राँची
उपराजधानी दुमका
Government
सरकार
 • राज्यपाल द्रौपदी मुर्मू
 • मुख्यमंत्री रघुबर दास (भाजपा)
 • विधानसभा एक सदनात्मक (८१)
 • लोकसभा १४
 • विधान सभा अध्यक्ष सी पी सिंह
Area
७९७१४ वर्ग कि.मी.
 • Total ७९७१४ वर्ग कि.मी. km
Area rank = १५
Population
 (२०११)३२९६६२३८
 • Total ३२९६६२३८
 • Rank १३
 • Density ४१४/km
Time zone UTC+०५:३० (IST)
ISO 3166 code IN-JH
मानव विकास सूचकांक increase 0.513 (medium)
मानव विकास सूचकांक स्थान 24th (2005)
साक्षरता प्रतिशत (स्थान) ६७.६३% (२७)
आधिकारिक भाषा हिन्दी
Website [१]

झारखण्डराज्यं (Jharkhand)(हिन्दी - झारखण्ड; बङ्गला - ঝাড়খন্ড; उर्दु - جھاڑکھنڈ) भारतस्‍य मध्‍यपूर्वभागे विद्यमानं किञ्चन राज्यम् । बिहारस्य दक्षिणभागतः इदं राज्यं २०००तम वर्षस्य नवेम्बर्मासस्य १५ दिनाङ्के निर्मितम् अस्ति । अस्य राज्यस्य उत्तरदिशि बिहारराज्यं, पश्चिमदिशि उत्तरप्रदेशः छत्तीसगढराज्यं , दक्षिणदिशि ओरिस्साराज्यं, पूर्वदिशि पश्चिमबङ्गालराज्यं च वर्तते । अस्य राज्यस्य विस्तारः ७९, ७१४ च कि मी मितः । औद्योगिकनगरं राँची अस्य राजधानी । जमशेदपुर अस्य राज्यस्य बृहत्तमम् औद्योगिकं नगरम् । अन्यानि प्रमुखानि औद्योगिकनगराणि नाम धनबाद , बोकारो, हजारीबाग च । झारखण्डः नाम अरण्यानां प्रदेशः इत्यर्थः । अत्र अधिकतया आदिवासिजनाः निवसन्ति । राज्ये पर्वताः, प्रपाताः, जलपाताः, नद्यः, वनानि च अतीवाकर्षकाणि सन्ति । एतत् राज्यं Pure Pristine , Pictureque इति उक्तवन्तः सन्ति। बेट्ला, हजारीबाग, पलामु राष्ट्रियोद्यानानि सन्ति । नेतर् हाट् पर्वतधाम अतीवं सुन्दरं प्रेक्षणीयम् स्थानमस्ति । एतत् स्थानं छोटानागपूरस्य राज्ञी इति निर्दिशन्ति । टोप चाञ्ची , दुमका इत्यादीनि अत्रत्यविहारस्थानानि सन्ति ।

झारखण्डराज्यस्य प्रेक्षणीयस्थानानि

[सम्पादयतु]

राञ्ची झारखण्डराज्यस्य राजधानी अस्ति । एतत् उन्नते प्रदेशे अस्ति इत्यतः गिरिधाम इव अस्ति । राञ्चीनगरस्य पर्वतस्य अधोभागे विशालं सरोवरम् अस्ति । राञ्चीनगरे जैनमन्दिरं, हुण्ड्रुजलपातः (२३ कि.मी), ट्यागोर् हिल् राञ्चीजलबन्धः इत्यादीनि दर्शनीयानि सन्ति ।

अस्मिन् नगरे (हजारीबागतः ११८ कि.मी) अयसः उद्यमः टाटामहोदयेन स्थापितः अस्ति। एतत् नगरं भारतस्य पिट्सबर्गनाम्ना निर्दिश्यते । राञ्चीप्रदेशे देवगढ् , रावणेश्वरशिवस्य मन्दिरं, राजरप्पदेवालयः, परासनाथपर्वते विद्यामानाः २४ तीर्थङ्कराणां देवालयाः, वैद्यनाथधाम, बोरामदेवालयः च दर्शनीयाः सन्ति । राञ्चीसमीपे जगन्नाथपुरीनामकं क्षेत्रम् अस्ति । पुरी इव अत्रापि रथयात्रा भवति । झारखण्डराज्यं प्रकृतिप्रियाणां साहसिकानां च अतीव प्रियं भवति । अत्र यात्रिकाणां शान्तिः सौन्दर्यम् आनन्दः च अवश्यं लभ्यते इति जनाः वदन्ति । राञ्ची नगरे वसति भोजनादिव्यवस्था कर्तु शक्यते । झारखण्डप्रवासोद्यमनिगमः प्रवासव्यवस्थां करोति ।

वाहनमार्गः

[सम्पादयतु]

राक्साल्, पाटना, गया इत्यादिनगरेभ्यः वाहनव्यवस्था अस्ति ।

इतिहासः

[सम्पादयतु]

गौतमकुमारबेरा, अन्ये च केचन इतिहासकाराः उल्लिखन्ति यत् मगधसाम्राज्यात् पूर्वमपि झारखण्डनामकः कश्चन भूराजनैतिकः सांस्कृतिकः समूहः आसीत् इति । तस्य पुस्तके (पृष्ठम्-३३) भविष्यपुराणस्य उल्लेखः अपि क्रियते । मुण्डराजाः इति कथ्यमानाः केचन वनवासिराजाः महत्याः कृषिभूसम्पदः स्वामिनः आसन् । मुघलसाम्राज्यावसरे झारखण्डप्रदेशः कुकरप्रदेशः इति प्रसिद्धः आसीत् ।

झारखण्डः - पृथक् राज्यम्

[सम्पादयतु]

झारखण्डराज्यं २००० तमे वर्षे नवम्बर्मासस्य १५ दिनाङ्के सक्रियं जातम् । ततः पूर्वं पञ्चाशदधिकवर्षाणि एतन्निमित्तं जनानाम् आन्दोलनं सञ्जातम् । इदं भारतस्य २८ तमं राज्यम् । सर्वकारः तस्मिन् प्रदेशे विद्यमानानाम् आदिवासिनाम् अन्येषां च सामाजिक-आर्थिकस्थितीनां समानरीत्या संवर्धयितुम् अशक्तः जातः इत्यतः एव वनवासिनाम् एव पृथक्प्रदेशः करणीयः अभवत् । १९९१ तमस्य वर्षस्य जनगणतेः अनुसारम् अस्य राज्यस्य जनसङ्ख्या २,००,००,००० । एषु २८% वनवासिनः, १२% अनुसूचितजातिजनाः च विद्यन्ते । झारखण्डराज्ये २४ मण्डलानि, २१२ विभागाः, ३२,६२० ग्रामाः च विद्यन्ते । एतेषु ४५% ग्रामेषु विद्युद्व्यवस्था विद्यते । ८,४८४ ग्रामाणां मार्गसम्पर्कः विद्यते । देशे धातुसम्पदः उत्पादकेषु राज्येषु झारखण्डराज्यं द्वितीयस्थाने विद्यते (छत्तीसगढराज्यं प्रथमम्) । अयः(Iron), अङ्गारः, ताम्रम्(copper), अभ्रकम्(mica), स्फोदिजः(bauxite), कौकिलेयः(graphite), कर्करः(limestone), युरेनियम् इत्यादयः धातवः अत्र उपलभ्यन्ते । झारखण्डराज्यं स्वस्य अरण्यसम्पदः निमित्तमपि प्रसिद्धं वर्तते ।

एवं विद्यते चेदपि राज्यस्य सामान्यजनानां जीवने बहु परिवर्तनं न दृश्यते । जनाः राज्यस्य अभिवृद्धै प्रयतमानाः सन्ति, सक्रियाः दृश्यन्ते । तेषां सांस्कृतिकसम्पत्तिः समृद्धा विद्यते - विभिन्नाः भाषाः, विविधाः उत्सवाः, जनपदसङ्गीतं, नृत्यम् अन्याः साम्प्रदायिक्यः कलाः ।

मण्डलानि

[सम्पादयतु]

झारखण्डराज्ये २४ मण्डलानि सन्ति ।

सङ्केतः मण्डलम् केन्द्रम् जनसङ्ख्या (२००१) विस्तीर्णता(किमी²) सान्द्रता (प्रती किमी²)
BO बोकारो बोकारो १७,७५,९६१ २,८६१ ६२१
CH चतरा चतरा ७,९०,६८० ३,७०० २१४
DE देवघर देवघर ११,६१,३७० २,४७९ ४६८
DH धनबाद धनबाद २३,९४,४३४ २,०७५ १,१५४
DU दुमका दुमका १७,५४,५७१ ५,५१८ ३१८
ES पूर्व सिंहभूम जमशेदपुर १९,७८,६७१ ३,५३३ ५६०
GA गढवा गढवा १०,३४,१५१ ४,०६४ २५४
GI गिरिडीह गिरिडीह १९,०१,५६४ ४,८८७ ३८९
GO गोड्डा गोड्डा १०,४७,२६४ २,११० ४९६
GU गुमला गुमला १३,४५,५२० ९,०९१ १४८
HA हजारीबाग हजारीबाग २२,७७,१०८ ६,१५४ ३७०
KO कोडरमा कोडरमा ४,९८,६८३ १,३१२ ३८०
LO लोहरदगा लोहरदग्गा ३,६४,४०५ १,४९४ २४४
PK पाकुड़ पाकुड़ ७,०१,६१६ १,८०५ ३८९
PL पलामु डाल्टनगञ्जनगरम् २०,९२,००४ ८,७१७ २४०
RA राँची राँची २७,८३,५७७ ७,९७४ ३४९
SA साहिबगञ्ज साहिबगञ्ज ९,२७,५८४ १,५९९ ५८०
WS पश्चिम सिंहभूम चाईबासा २०,८०,२६५ ९,९०६ २१०
RM रामगढ रामगढ ८,३९,४८२ १,२१२ ६९२

वातावरणम्

[सम्पादयतु]

राज्यस्य महान् भागः छोटा-नागपुर-शैलप्रस्थभूमौ विद्यते यः कोयल्, दामोदर्, ब्राह्मणि, खार्कै, सुबर्नरेखा इत्येतासां नदीनां स्रोतः वर्तते । बहु भागः अरण्यप्रदेशः इत्यतः व्याघ्राः गजाश्च अधिकसङ्ख्याकाः सन्ति ।
झार्खण्डराज्यस्य मृत्तिकासु महान् भागः महाशिला-शिलाखण्डानां विघटनेन उत्पन्नः अस्ति । मृत्तिकाः एवं विभक्ताः सन्ति -

मृत्तिका प्रदेशः
रक्तमृत्तिका दामोदर-उपत्यका, राजमहलप्रदेशः
अभ्रकयुक्तमृत्तिका कोडेर्मा, झुमेरितिलैय, बार्कगान्, मन्दार्पर्वतः
सैकतमृत्तिका हजारिबाग्, धनबाद्
कृष्णमृत्तिका राजमहलप्रदेशः
अयोपेतरक्तमृत्तिका पश्चिमराञ्ची, पलमु, सन्ताल्परगण, सिङ्घभुम्

सस्य-प्राणिसम्पत्तिः

[सम्पादयतु]

सस्यसम्पत्तिः प्राणिसम्पत्तिश्च अस्मिन् राज्ये समृद्धा अस्ति । अत्र विद्यमानेषु राष्ट्रियोद्यानेषु सस्योद्यानेषु च वैविध्यता दृश्यते । लतेहर्मण्डले विद्यमानं २५० चतरस्र कि मी विस्तारयुतं बेट्लाराष्ट्रियोद्यानं बर्वाडितः ८ कि मी दूरे विद्यते । अस्मिन् व्याघ्राः, गवलाः(वनमहिषाः), हरिणाः, वनसूकराः, अजगराः, चित्रहरिणाः, शशाः इत्यादयः विद्यन्ते । सस्तनिजातिप्राणिनः - विविधाः वानराः, नीलवृषभाः, अरण्यसूकराश्च । १९७४ तमे वर्षे इदम् उद्यानं व्याघ्ररक्षणप्रकल्पत्वेन घोषितम् ।

एतादृशमेव अन्यदेकं हजारीबाग्-वैल्ड्लैफ्-साङ्क्चुरि-नामकम् उद्यानं राञ्चितः १३५ कि मी दूरे प्राकृतिकसौन्दर्येण युक्तं वर्तते । बोकारो-स्टील्-नगरे विद्यमानं जवहरलाल्-सस्यशास्त्रीयोद्यानं झारखण्डराज्ये विद्यमानं बृहत्तमं सस्यशास्त्रीयोद्यानम् । २०० एकर्मिते विस्तारयुते अस्मिन् उद्याने बहु विधाः प्राणिनः पक्षिणश्च विद्यन्ते । अत्र कृतकजलोद्यानं, नौकाविहारः च विद्यते । बिर्सा मुण्डा जैविकोद्यानं राञ्चीतः १६ कि मी दूरे विद्यते । अत्र अधिकाः सस्तनिप्राणिनः विद्यन्ते ।

जनसङ्ख्याशास्त्रम्

[सम्पादयतु]

झारखण्डराज्यस्य जनसङ्ख्या ३,२९,६०,००० - पुरुषाः - १,६९,३०,००० महिलाः - १,६०,३०,००० । लिङ्गानुपातः ९४७ महिलाः : १००० पुरुषाः । जनसङ्ख्यायां २८% वनवासिनः, १२% अनुसूचितावल्यां विद्यमानाः, ६०% अन्ये च । राज्यस्य जनसङ्ख्यानिबिडता अस्ति - चतरस्रकिलोमीटर्मितायां भूमौ ४१३ जनाः । इयं परिवर्तते - गुम्लामण्डले चतरस्रकिलोमीटर्मितायां भूमौ १४८ जनाः (कनिष्ठम्) धान्बाद्मण्डले चतरस्रकिलोमीटर्मितायां भूमौ ११६७ जनाः । जनगणनाविवरणं दर्शयति यत् क्रमशः राज्ये वनवासिनां सङ्ख्या न्यूना जायमाना अस्ति, वनवासिभिन्नानां सङ्ख्या वर्धमाना अस्ति इति । वनवासिनां जननप्रमाणस्य अल्पता, मरणप्रमाणस्य आधिक्यम्, अन्येषाम् अत्र आप्रवासः, इतः वनवासिनां देशान्तराधिवासनम्, औद्योगिकीकरणस्य दुष्परिणामाः, नगरीकरण्म् इत्यादयः अस्य हेतवः । वनवासिनः वदन्ति यत् विवरणमिदं न युक्तम्, वयमेव अधिकसङ्ख्याकाः स्मः इति । स्वातन्त्रप्राप्तेः अनन्तरं देशस्य प्रगत्यर्थं कृतायाः योजनायाः द्वारा एव झारखण्डराज्यस्य जनसङ्ख्यायां महत् परिवर्तनं दृष्टमित्येषः विपर्यासः एव । १९५१ तमात् वर्षात् केन्द्रजल-आयोगेन ९० मुख्याः जलबन्धाः, ४०० सामान्यजलबन्धाः, ११,८७८ लघुबन्धाः च निर्मिताः । ७९ मुख्यानि औद्योगिककेन्द्राणि कार्यागाराश्च निर्मिताः । एताभिः निर्माणयोजनाभिः औपचरिक-आर्थिकतावलम्बिनां लाभः जातः । किन्तु अनौपचारिक-आर्थिकतावलम्बिनां प्राकृतिकसम्पत्त्यैकावलम्बिनां वनवासिनां जीविकायै महती विपत्तिः आपतिता । ३० लक्षजनाः एतासां योजनानां कारणतः स्थानान्तरिताः अभवन् । तेषु ९०% जनाः आसन् वनवासिनः ।

जातिप्रजातयः

[सम्पादयतु]

वनवासिषु अधिकांशाः जगदात्मवादस्य सर्णामतस्य अनुयायिनः । इदं मतं हिन्दु-क्रैस्त-यवनमतभिन्नं किञ्चन मतम् । मुण्डरिभाषायां 'सर्णा'इत्यस्य अर्थः 'पवित्रा वनिका' इति । 'सिङ्ग बोङ्ग'नामके विशेषचैतन्ये एतेषां विशेषश्रद्धा । इदं जगत् असङ्ख्यानां विविधविधानां चैतन्यजीविनां वासस्थानम् इति तेषां विश्वासः । एते तैः चेतनैः सह समीपसाङ्गत्येन एव सर्वम् आचरन्ति । सर्णा इति कथ्यमानस्य 'साल् ट्री' (इज्जलवृक्षस्य) अधः एव धार्मिकविधीन् आचरन्ति यत्र 'बोङ्ग' प्रत्यक्षः भवति इति विश्वस्यते । वनवासिनां पुराणकथानुसारं सर्णामतस्य उगमः एवं जातः - कदाचित् मृगयार्थं वनं प्रति गताः वनवासिनः वृक्षस्य अधः विश्रामसुखम् अनुभवन्तः चर्चाम् आरब्धवन्तः - 'अस्माकं सृष्टिकर्ता रक्षकः कः ?' इति । सूर्यः वा ? वायुः वा ? मेघः वा ? अन्ते तैः निर्णीतं यत् बाणं प्रमुञ्चामः, तस्य लक्ष्यीभूतं यद् भवति स एव देवस्य निवासः इति । तथैव आकाशं प्रति तैः बाणः प्रमुक्तः । सः इज्जलवृक्षस्य अधः अपतत् । ततः ते इज्जलवनिकायां सिङ्गबोङ्गस्य आराधनाम् आरब्धवन्तः । 'साल्ट्री'तः निष्पन्नम् इत्यतः 'सर्णा' इति नाम । एवं सर्णामतम् अस्तित्वं प्राप्नोत् । तस्मिन् 'नैके' 'कुडम् नैके' इति कथ्यमानाः अर्चकाः सहार्चकाः च भवन्ति सर्वेषु सन्थाल्ग्रामेषु । 'पहानाः' भवन्ति मुण्डाग्रामेषु । बहवः हिन्दवः विश्वसन्ति यत् इदमपि हिन्दुधर्मे साम्यं भजते यतः हिन्दुधर्मे अपि वृक्षस्य पूजा प्रचलति इति । अपि च तैः आचर्यमाणः 'कर्म'पर्व कर्म-एकादश्यां (भाद्रपदशुक्ल-एकादशी), 'सर्हुल्'पर्व चैत्रशुक्लतृतीयायां भवति सर्वदा हिन्दुपञ्चागानुसारम् । किन्तु वनवासिषु अधिकांशाः इदम् अर्थहीनं मन्यन्ते यतः तेषु हिन्दुवर्णव्यवस्था (ब्राह्मण-क्षत्रिय-वैश्य-शू्द्रादि) न विद्यते । केचन आदिवासिनः आग्रहम् अकुर्वन् यत् भारतस्य जनगणनायां तेषां धर्मः पार्थक्येन उल्लेखनीयः इति । २०११ तमस्य वर्षस्य जनवरिमासस्य १-२ दिनाङ्कयोः अखिलभारतीय-आदिवासिसम्मेलनम् आयोजितम् आसीत् पश्चिमवङ्गे असन्सोल्मण्डलस्थे बर्नपुरे । अस्मिन् ७५० प्रतिनिधयः भागम् अवहन् । तैः कृतस्य मतदानस्य विवरणम् एवमस्ति - सारि धोरोम् - ६३२, सर्णा - ५१, खेर्वालिस्म् - १४, अन्ये धर्माः - ३ । झारखण्डे ३२ वनवासिगणाः सन्ति । ते असुर्, बैगा, बञ्जार, बथुडि, बेडिया, बिञ्जिया, बिर्होर्, बिर्जिय, खेरो, चिक्-बारिक्, गोन्द्, गोरैट्, हो, कार्मलि, खरिय, खार्वार्, खोन्द्, किसान्, कोरा, कोर्वा, लोह्रा, माह्लि, माल्-पहारिय, मुण्ड, ओरान्, पर्हाय, सन्ताल्, सौरिय-पहारिय, सवर्, भुम्जि, कोल्, कान्वार् च । झारखण्डराज्यस्य केषुचित् मण्डलेषु वनवासिनः एव अधिकसङ्ख्याकाः ।

राज्यभाषा हिन्दी चेदपि जनाः बहुभिः भाषाभिः व्यवहरन्ति याः गणत्रये योजयितुं शक्याः - मुण्डाभाषाः - सन्ताली, मुन्दरि, हो, खरिय, भूम्जिभाषा च । इण्डो-आर्यन्-भाषाः - बङ्गाली, ओरिया, कोसली, मैथिली, नागपुरी, सद्रि, खोर्थ, कुर्मलि, पञ्चपरगणियभाषा च । द्रविडियन्भाषाः - ओरान् (कुरुख्), कोर्वा, पहारिय (माल्टो)भाषा च । सेन्तालि, मुण्डरि, हो भाषाः च सहोदर्यः इति कथयितुं शक्यं यतः ८०%-९०% तासां व्याकरणं समानम् अस्ति ।

संस्कृतिः

[सम्पादयतु]

वनवासिबहुलराज्यम् इत्यतः अत्रत्यजीवने संस्कृतौ च प्रकृतेः कृते प्रथमं प्राशस्त्यम् । पवित्रवृक्षाणां शाखाः आनीय धार्मिकविधिपूर्वकं प्राङ्गणेषु आरोप्यन्ते । भक्ताः एताः वृक्षशाखाः सम्बद्धाः देवताः च पूजयन्ति । कर्मपूजा, जिटियपूजा, सर्हुल् - इत्यादयः प्रचलन्ति अत्र । पश्चिमवङ्गस्य प्रतिवेशिराज्यम् इत्यतः दुर्गापूजा कालीपूजा च भक्त्या अमितोत्साहेन च आचर्यते । पौषमेला, तुसुमेला च मकरसङ्क्रान्त्यवसरे आचर्यते । सालङ्कृताः जनपददेवताः जनैः नीयन्ते । अयं कृष्युत्सवः इव । तुसु इत्येतद् जनानां विश्वासरूपः उत्सवः, कस्याश्चित् वनवासिलघुबालिकायाः विषयकः देवतासम्बद्धः न । नूतनफलोदयकाले वैभवेन आचर्यते । सर्वे वनवासिनः अस्मिन् पर्वणि आनन्देन भागं वहन्ति ।

सम्बद्धा: विषया:

बाह्यानुबन्धः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=झारखण्डराज्यम्&oldid=480374" इत्यस्माद् प्रतिप्राप्तम्