प्रशान्तमहासागरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
प्रशान्तमहासागरः

भूमेः सागरविभागे प्रशान्तसागरः बृहत्तमः । अयं सागरः उत्तरे उत्तरध्रुवीयमहासागरतः दक्षिणे दक्षिणध्रुवीयमहासागरपर्यन्तं विस्तृतः वर्तते । पश्चिमदिशि एशिया-आस्ट्रेलियाखण्डाभ्यां पूर्वदिशि अमेरिकाखण्डेन च आवृतः वर्तते ।

१६५.२५ मिलियन्-चतुरस्रकिलोमीटर्मितेन (६३.८ मिलियन्-चतुरस्रमैल्स्-मितेन) विस्तारेण युतः अयं सागरः भूमेः ४६% जलप्रदेशम् आवृणोति, यश्च भागः समग्रस्य भूमेः भूभागस्य अपेक्षया बृहत्तमः विद्यते । [१] भूमध्यरेखा एतं सागरं 'उत्तरप्रशान्तसागरः' 'दक्षिणप्रशान्तसागरः' इति द्विधा विभजति । किन्तु गैलापागोस्-गिल्बर्ट्-द्वीपसमूहाः तु समग्रतया दक्षिणप्रशान्ते एव अन्तर्भवन्ति इति अभिप्रायः ।[२] ईशान्यप्रशान्तसागरे विद्यमानः 'दि मरियाना खात'प्रदेशः जगतः गभीरतमबिन्दुः विद्यते । [३]

बाह्यसम्पर्कतन्तवः[सम्पादयतु]

  1. Pacific Ocean". Britannica Concise. 2006. Chicago: Encyclopædia Britannica, Inc.
  2. International Hydrographic Organization (1953). "Limits of Oceans and Seas, 3rd edition". Monte Carlo, Monaco: International Hydrographic Organization. Archived from the original on 8 October 2011. आह्रियत 12 June 2010. 
  3. "Japan Atlas: Japan Marine Science and Technology Center". आह्रियत 2007-07-04. 
"https://sa.wikipedia.org/w/index.php?title=प्रशान्तमहासागरः&oldid=480607" इत्यस्माद् प्रतिप्राप्तम्