खानिजः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
खानिजानां स्वरूपम्

खानिजः ( /ˈkhɑːnɪəhə/) (हिन्दी: खनिज, आङ्ग्ल: Mineral) प्राकृतिकपदार्थः वर्तते । पृथिव्यां शैलेषु बहवः पदार्थाः प्राप्यन्ते । ते पदार्थाः खानिजपदार्थाः कथ्यन्ते । प्राकृतिकतया प्राप्तपदार्थाः भवन्ति येषां निश्चितं रासायनिकं संघटनं भवति तत् खानिजः इति । खानिजं पृथिव्याः शैलपर्पटीषु सर्वत्र प्राप्यन्ते । ते खानिजाः केषुचित् विशेषक्षेत्रेषु, शैलसमूहेषु च सङ्केन्द्रिताः सन्ति । केचित् खानिजाः आर्कटिक-महासागरे, अण्टार्कटिका-महाद्वीपे च प्राप्यन्ते । किन्तु ते खानिजाः दुर्लभाः सन्ति । खानिजाः भूवैज्ञानिकदशासु भिन्नप्रकारेषु प्राप्यन्ते । तेषु खानिजेषु मानवीयप्रक्रियया विना प्राकृतिकप्रक्रियया एव निष्पद्यते । तेषां खानिजानां भौतिकगुणाः, वर्णः, घनत्वं, कठोरता, रासायनिकगुणाः दृश्यन्ते ।[१]

खानिजानां प्रकाराः[सम्पादयतु]

पृथिव्यां त्रिसहस्राधिकाः खानिजाः सन्ति । अतः संरचनायाः आधारेण खानिजाः द्वयोः विभागयोः विभक्ताः सन्ति । धात्विकः अधात्विकश्च ।[२]

धात्विकखानिजाः[सम्पादयतु]

धात्विकखानिजेषु धातोः अपक्वस्वरूपं भवति । धातुः कठोरः पदार्थः वर्तते । तेन ऊष्मा, विद्युत् च उत्पद्यते । सः खानिजः द्युते, प्रकाशते च । तेषु खानिजेषु लौह-अयस्कं, बॉक्साइट, मैङ्गनीज इत्यादयः सन्ति । धात्विकखानिजेषु लौहालौहौ भवन्ति । लौहखानिजेषु लौह-अयस्के, मैङ्गनीज इत्यस्मिन्, क्रोमाइट इत्यस्मिन् च लौहः विद्यते । अलौहखानिजेषु लौहः न विद्यते । तेषु अन्ये धातवः स्वर्णं, रजतं, ताम्रं, सीमं च इत्यादयः भवन्ति ।[३]

अधात्विकखानिजाः[सम्पादयतु]

अधात्विकखानिजेषु धातवः न विद्यन्ते । चूर्णपाषाणः, अभ्रकम् इत्यादयः अधात्विकखानिजाः कथ्यन्ते । अङ्गारः, पेट्रोलियम इति अपि अधात्विकखानिजः वर्तते ।[४]

खानिजस्य निष्कासनप्रक्रिया[सम्पादयतु]

खननप्रक्रियया, प्रवेधनप्रक्रियया, आखननप्रक्रियया च खानिजाः निष्कास्यन्ते । पृथिव्याः पर्पट्याः खानिजानां निष्कासनप्रक्रिया खननं कथ्यते । न्यूनगहनतायां स्थितानां खानिजानां निष्कासनप्रक्रिया विवृतखननं कथ्यते । अधिकगहनतायां स्थितानां खानिजानां निष्कासनप्रक्रिया कूपकीखननं कथ्यते ।

'पेट्रोलियम्', प्राकृतिकवायुः(gas) च अत्यधिकगहनतायां प्राप्यते । तेषां निष्कासनाय गहनानां कूपानां खननं क्रियते । तत्खननं प्रवेधनं कथ्यते । भूपर्पट्यां स्थितानां खानिजानां निष्कासनप्रक्रिया आखननं कथ्यते ।[५]

खानिजानां वितरणम्[सम्पादयतु]

विभिन्नप्रकारकेषु शैलेषु खानिजाः प्राप्यन्ते । आग्नेयशैलः, कायान्तरितशैलः, अवसादीशैलः च शैलानां प्रकाराः सन्ति । धात्विकखानिजाः आग्नेयकायान्तरितशैलयोः प्राप्यन्ते । आग्नेयकायान्तरितशैलाभ्यां विशालशैलप्रस्थानां निर्माणं भवति । उत्तरीस्वीडन-देशे लौह-अयस्कं, कनाडा-देशे ताम्रस्य निकेल इत्यस्य निक्षेपः, दक्षिण-अफ्रिका-देशे लौह, निकेल, क्रोमाइट, प्लेटिनम् इत्येते खानिजाः आग्नेयकायान्तरितशैलेषु प्राप्यन्ते । क्षेत्राणां, नूतनवलितपर्वतानां च अवसादीशैलसमूहेषु अधात्विकखानिजाः प्राप्यन्ते । यथा – फ्रान्स्-देशस्य कॉकेशस् प्रदेशस्य चूर्णपाषाणनिक्षेपः, जार्जिया यूक्रेन-देशस्य मैङ्गनीखानिजस्य निक्षेपः, अल्जीरिया-देशस्य फास्फेट् संस्तर खानिजाः सन्ति । अङ्गारः, पेट्रोलियम् च इत्यपि अवसादीस्तरेषु प्राप्यते ।[६]

एशिया[सम्पादयतु]

चीन-देशे, भारत-देशे च अधिकमात्रायां लौह-अयस्कानां निक्षेपः अस्ति । एतौ महाद्वीपौ विश्वस्य अर्धाधिकं टिन इत्यस्य उत्पादनं कुरुतः । चीन, मलेशिया, इण्डोनेशिया इत्येतौ देशौ विश्वस्य टिन इत्यस्य उत्पादने अग्रण्यौ वर्तेते । मैङ्गनीज, बॉक्साइट्, निकेल्, जस्ता, ताम्रम् इत्यादीनाम् अपि निक्षेपाः एशिया-महाद्वीपे सन्ति ।[७]

यूरोप्[सम्पादयतु]

यूरोप्-महाद्वीपः लौह-अयस्कानाम् उत्पादने विश्वस्मिन् अग्रणी वर्तते । रूस्, यूक्रेन्, स्वीडन्, फ्रान्स् इत्यादिषु देशेषु लौह-अयस्कानां विशालनिक्षेपाः सन्ति । ताम्रं, सीसं, जस्ता, मैङ्गनीज्, निकेल् इत्यादीनां खानिजानां निक्षेपाः पूर्वी यूरोप, यूरोपीय रूस् इत्येतयोः प्राप्यन्ते ।[८]

उत्तर अमेरिका[सम्पादयतु]

उत्तर अमेरिका-महाद्वीपे खानिजनिक्षेपाः त्रिषु क्षेत्रेषु स्थिताः सन्ति । लौह-अयस्कं, निकेल्, स्वर्णं, यूरेनियम्, ताम्रम् इत्यादीनां खानिजानां खननं कनाडियन् शील्डप्रदेशे भवति । अङ्गारस्य खननम् अप्लेशियन् प्रदेशे भवति । पश्चिमी कार्डीलेरा-प्रदेशे ताम्रं, सीसं, जस्ता, स्वर्णं, रजतम् इत्यादीनां विशालनिक्षेपाः सन्ति ।[९]

दक्षिण-अमेरिका[सम्पादयतु]

ब्राजील्-देशः उच्चश्रेण्याः लौह-अस्यस्कानां बृहत्तमः उत्पादकः वर्तते । चिली, पेरू इत्येतौ ताम्रस्य उत्पादने अग्रण्यौ स्तः । ब्राजील, बोलीविया इत्येतौ टिन इत्यस्य उत्पादने बृहत्तमेषु उत्पादकेषु अन्यतमौ स्तः । दक्षिण-अमेरिका-महाद्वीपे स्वर्णं, रजतं, जस्ता, क्रोमियम्, मैङ्गनीज्, बॉक्साइट्, अभ्रकः, प्लैटिनम्, एसबेस्टस्, हीरकः इत्यादीनां च विशालनिक्षेपाः अपि सन्ति । वेनेजुएला, अर्जेण्टीना, चिली, पेरू, कोलम्बिया इत्येतेषु देशेषु खानिजतैलं प्राप्यते ।[१०]

अफ्रीका[सम्पादयतु]

अफ्रीका-महाद्वीपः खानिजसंसाधनानां व्यापारे धनाढ्यः वर्तते । अयं महाद्वीपः हीरक, स्वर्णं, प्लेटिनम् इत्यादीनां खानिजानां विश्वस्मिन् बृहत्तमः उत्पादकः अस्ति । दक्षिण-अफ्रीका, जिम्बाब्वे इत्यादिषु देशेषु अधिकमात्रायां स्वर्णम् उत्पद्यते । ताम्रं, लौह-अयस्कं, क्रोमियम्, यूरेनियम्, कोबाल्ट्, बॉक्साइट्, इत्यादयः खानिजाः दक्षिण-अफ्रीका-देशे प्राप्यन्ते । नाइजीरिया, लीबिया, अङ्गोला इत्येतेषु देशेषु तैलम् अपि प्राप्यते ।[११]

ऑस्ट्रेलिया[सम्पादयतु]

ऑस्ट्रेलिया-महाद्वीपः बॉक्साइट् खानिजस्य उत्पादनाय विश्वस्मिन् बृहत्तमः उत्पादकः वर्तते । अयं महाद्वीपः स्वर्णं, हीरकः, लौह-अयस्कं, टिन्, निकेल् इत्यादीनां खानिजानाम् उत्पादने अग्रणीः वर्तते । ऑस्ट्रेलिया-महाद्वीपस्य पश्चिमभागे कालगूर्ली, कुलगार्डी इत्यनयोः क्षेत्रयोः स्वर्णस्य बृहत्तमाः निक्षेपाः वर्तन्ते ।[१२]

अण्टार्कटिका[सम्पादयतु]

अण्टार्कटिका-महाद्वीपे ट्रांस्-अण्टार्कटिक-पर्वते अङ्गारस्य, पूर्वी-अण्टार्कटिका क्षेत्रेषु प्रिन्स्-चार्ल्स्-पर्वते अधिकमात्रायां विभिन्नखानिजानां निक्षेपानां पूर्वानुमानं कृतम् अस्ति । लौह – अयस्कं, स्वर्णं, रजतं, तैलम् इत्याद्यः खानिजाः वाणिज्यिकमात्रायाम् उपलब्धाः सन्ति ।[१३]

पृथिव्याः आन्तरिके भागे मैग्मा इति प्राप्यते । मैग्मा इत्यनेन एव खानिजाः उत्पद्यन्ते । यदा मैग्मा इति शीतलं भवति, तदा खानिजानां काचमणयः ( crystal ) निर्मान्ति । यथा यथा मैग्मा इति शीतलं भवति तथैव कठोरः भवति । तेन कारणेन खानिजानां क्रमबद्धं निर्माणं भवति । यथा अङ्गारः (coal), पेट्रोलियम्, प्राकृतिकवायुः इति क्रमशः कठोरद्रववायूनां रूपेण प्राप्यन्ते ।[१४]

प्रमुखाः खानिजाः, तेषां विशेषताः च[सम्पादयतु]

फेल्डस्पर्[सम्पादयतु]

सर्वेषु फेल्डस्पर् इत्येतेषु सिलिकन्, ऑक्सीजन् च उपस्थिताः भवन्ति । सोडियम्, पोटेशियम्, कैल्सियम्, एलुमीनियम् इत्यादीनि तत्त्वानि भिन्न-भिन्नेषु फेल्डस्पत् इत्येतेषु प्राप्यन्ते । पृथिव्याः पर्पटेः अर्धभागः फेल्डस्पर् इत्यनेन निर्मितः अस्ति । अस्य वर्णः स्ववपीतारक्तः(cream), पाटल (pink) भवति । अनेन खानिजेन काचस्य पात्राणां निर्माणं भवति ।[१५]

क्वार्ट्ज्[सम्पादयतु]

सिकता, ग्रेनाइट् इतिमौ अस्य खानिजस्य प्रमुखौ घटकौ स्तः । अस्मिन् खानिजे सिलिका इत्ययं वर्तते । अयं कठोरखानिजः विद्यते । अयं श्वेतः, वर्णहीनः च भवति । अस्योपयोगः रेडियो, रडार् इत्येतयोः क्रियते । अयं ग्रेनाईट् इत्यस्य महत्वपूर्णः घटकः वर्तते ।[१६]

पाइरॉक्सीन्[सम्पादयतु]

कैल्सियम्, एलुमीनियम्, मैग्नेशियम्, आयरन्, सिलिका च इत्येते पाइरॉक्सीन् खानिजे सम्मिलिताः भवन्ति । पृथिव्याः भूपृष्ठस्य १०% भागः पाइरॉक्सीन् इति अनेनैव निर्मितः । अयम् उल्कापिण्डे प्राप्यते । अयं हरितवर्णीयः कृष्णवर्णीयः च भवति ।[१७]

एम्फीबोल्[सम्पादयतु]

एलुमीनियम्, कैल्शियम्, सिलिका, लौहः, मैग्नीशियम् च इत्येते एम्फीबोल् इत्यस्य खानिजस्य मुख्यघटकाः सन्ति । पृथिव्याः भूपृष्ठस्य ७% एम्फीबोल् इत्यनेन निर्मितः । अस्य वर्णः हरितः, कृष्णः च भवति । हॉर्नब्लेण्ड इत्यपि एम्फीबोल इस्यस्य प्रकारः वर्तते ।[१८]

माइका[सम्पादयतु]

अस्मिन् खानिजे पोटैशियम्, एलुमीनियम्, मैग्नेशियम्, लौहः, सिलिका च विद्यमानाः भवन्ति । पृथिव्याः ४% भागः माइका इत्यस्य अस्ति । अयं खानिजः सामान्यतः आग्नेयशैलेषु रूपान्तरितशैलेषु च प्राप्यते । विद्युतः उपकरणेषु अस्य उपयोगः क्रियते ।[१९]

ऑलिवीन्[सम्पादयतु]

मैग्नीशियम्, लौहः, सिलिका च इत्येते ऑलिवीन् इत्यस्य खानिजस्य प्रमुखानि तत्त्वानि सन्ति । अस्योपयोगः आभूषणनिर्माणे क्रियते । अयं प्रायः हरितवर्णीयाः काचमणित्वेन (crystal) भवन्ति । बैसाल्टिकशैलेषु अयं प्राप्यते ।[२०]

शैलेषु क्लोराइट्, कैलसाइट्, मैग्नेटाइट्, हेमेटाइट्, बॉक्साइट्, बैराइट् इत्यादयः खानिजाः अतिरिक्तशैलेषु प्राप्यन्ते ।

भारतदेशे अन्यखानिजानां वितरणम्[सम्पादयतु]

लौहः[सम्पादयतु]

भारत-देशे उच्चश्रेणीनां लौह-अयस्कानां निक्षेपाः सन्ति । झारखण्ड-राज्ये, ओडिशा-राज्ये, छत्तीसगढ-राज्ये, मध्यप्रदेश-राज्ये, गोवा-राज्ये, महाराष्ट्र-राज्ये, कर्नाटक-राज्ये च अयं खानिजः मुख्यत्वेन प्राप्यते ।[२१]

बॉक्साइट्[सम्पादयतु]

झारखण्ड-राज्ये, ओडिशा-राज्ये, छत्तीसगढ-राज्ये, मध्यप्रदेश-राज्ये, गुजरात-राज्ये, महाराष्ट्र-राज्ये, तमिळनाडु-राज्ये च अयं खानिजः प्राप्यते ।

अभ्रकम्[सम्पादयतु]

भारत-देशः अभ्रक-खानिजस्य विश्वस्मिन् बृहत्तमः उत्पादकः, निर्यातकः च अस्ति । झारखण्ड-राज्ये, बिहार-राज्ये, आन्ध्रप्रदेश-राज्ये, राजस्थान-राज्ये च अयं प्राप्यते ।

ताम्रम्[सम्पादयतु]

ताम्रं मुख्यत्वेन राजस्थान-राज्ये, मध्यप्रदेश-राज्ये, झारखण्ड-राज्ये, कर्नाटक-राज्ये, आन्ध्रप्रदेश-राज्ये च उत्पद्यते ।[२२]

मैङ्गनीज्[सम्पादयतु]

भारतस्य महाराष्ट्र-राज्ये, मध्यप्रदेश-राज्ये, छत्तीसगढ-राज्ये, ओडिशा-राज्ये, कर्नाटक-राज्ये, आन्ध्रप्रदेश-राज्ये च अस्य खानिजस्य निक्षेपाः सन्ति ।

स्वर्णम्[सम्पादयतु]

भारतदेशस्य कर्नाटक-राज्यस्य कोलार-नगरे स्वर्णस्य निक्षेपाः सन्ति । इमाः खानयः विश्वस्य गहनतमासु खानीषु अन्यतमाः सन्ति । गहनतायाः कारणेन स्वर्णस्य निष्कासनप्रक्रियायाम् अधिकः व्ययः भवति ।[२३]

चूर्णपाषाणः[सम्पादयतु]

भारत-देशस्य बिहार-राज्ये, झारखण्ड-राज्ये, ओडिशा-राज्ये, मध्यप्रदेश-राज्ये, छत्तीसगढ-राज्ये, राजस्थान-राज्ये, गुजरात-राज्ये, तमिळनाडु-राज्ये च चूर्णपाषाणः उत्पद्यते ।

लवणम्[सम्पादयतु]

सागरेभ्यः तडागेभ्यः, शैलेभ्यः च लवणं प्राप्यते । भारत-देशः लवणोत्पादने अग्रणीः वर्तते । भारतदेशः लवणस्य उत्पादकः निर्यातकः च अस्ति ।[२४]

खानिजानाम् उपयोगः[सम्पादयतु]

खानिजानाम् उपयोगः बहुषु उद्योगेषु भवति । रत्नानां व्यापारे कठोरखानिजानाम् उपयोगः भवति । आभूषणानां निर्माणाय अपि खानिजाः उपयुज्यन्ते । ताम्रम् एकः अन्यधातुः वर्तते । तस्य उपयोगः नाणके, मूर्तौ इत्यादिषु प्रत्येकेषु वस्तुषु भवति । सङ्गणके उपयुक्तः सिलिकन् इति क्वार्ट्ज् इत्यस्मात् प्राप्यते । वाहनानां, वायुयानानां, भवनानां, पात्राणां च निर्माणे ऐलुमिनियम् इत्यस्य उपयोगः भवति । ऐलुमिनीयम् बॉक्साइट् इत्यनेन खानिजेन प्राप्यते ।[२५]

खानिजानां संरक्षणम्[सम्पादयतु]

खानिजाः अनवीकरणीयानि संसाधनानि सन्ति । खानिजानां निर्माणे, संचयने च बहुवर्षाणि व्यतीतानि भवन्ति । मानवीयानाम् उपयोगमानस्य तुलनायां निर्माणमानं न्यूनं वर्तते । खननप्रक्रियायां खानिजानां क्षये न्यूनता आवश्यकी वर्तते । धातूनां पुनश्चक्रणेन खानिजसंसाधनानि संरक्षितानि भवितुं शक्नुवन्ति ।[२६]

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यानुबन्धः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 24. ISBN 9788174508232. 
  2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 25. ISBN 9788174508232. 
  3. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 25. ISBN 9788174508232. 
  4. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 25. ISBN 9788174508232. 
  5. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 25. ISBN 9788174508232. 
  6. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 26. ISBN 9788174508232. 
  7. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 27. ISBN 9788174508232. 
  8. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 27. ISBN 9788174508232. 
  9. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 27. ISBN 9788174508232. 
  10. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 28. ISBN 9788174508232. 
  11. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 28. ISBN 9788174508232. 
  12. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 28. ISBN 9788174508232. 
  13. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 28. ISBN 9788174508232. 
  14. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 42. ISBN 8174505318. 
  15. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 43. ISBN 8174505318. 
  16. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 43. ISBN 8174505318. 
  17. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 43. ISBN 8174505318. 
  18. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 43. ISBN 8174505318. 
  19. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 43. ISBN 8174505318. 
  20. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 43. ISBN 8174505318. 
  21. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 28. ISBN 9788174508232. 
  22. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 29. ISBN 9788174508232. 
  23. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 29. ISBN 9788174508232. 
  24. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 29. ISBN 9788174508232. 
  25. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 29. ISBN 9788174508232. 
  26. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 29. ISBN 9788174508232. 
"https://sa.wikipedia.org/w/index.php?title=खानिजः&oldid=426257" इत्यस्माद् पुनः प्राप्तिः