गार्गी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


वैदिकसाहित्यस्य जगति ब्रह्मवादिन्याः, विदुष्याः गार्गी इति नाम बहुप्रसिद्धम् । एतस्याः पितुः नाम वचक्नुः । एतस्य पुत्री इति कारणेन एतस्याः वाचक्नवी इत्यपि नाम अस्ति । किन्तु एतस्याः मूलनाम किम् आसीत् इति न ज्ञातम् । गर्गगोत्रे जन्म प्राप्तवती इति कारणेन एषा एतां गार्गी सम्बोधयन्ति । एतदेव नाम प्रसिद्धमभवत् । बृहदारण्यकोपनिषदि एतस्याः विषये एवं विवृतम् ।

मिथिलेशयज्ञः[सम्पादयतु]

कदाचित् विदेहराजः जनकः कञ्चित् यज्ञं कृतवान् । तस्मिन् यज्ञे कुरोः पाञ्चालस्य इत्याद्यनेकदेशानां ब्राह्मणविद्वांसः सम्मिलिताः आसन् । स्वयं जनकः पण्डितः ज्ञानी च आसीत् । तस्य मनसि तत्र आगतेषु कः अधिकतत्त्ववेत्ता पण्डितः च स्यात् ? इति ज्ञातुम् इच्छा अभवत् । तदर्थं तस्य गोशालायां विद्यमानम् एकसहस्रगाः पणं स्थापितवान् । प्रत्येकस्याः धेनोः श्रृङ्गेऽपि दशसुवर्णं बद्धवान् । भवत्सु यः अधिकब्रह्मवेत्तः सः एताः धेनूः नेतुं शक्नोति इति घोषितवान् जनकमहाराजः । किन्तु गाः स्वीकर्तुं कोऽपि अग्रे नागतवान् । यःकोऽपि आगच्छति चेदपि सः तर्के, शास्त्रार्थे सर्वान् ब्राह्मणान् जेतव्यम् । तद् कुत्र भवति ? तेभ्यः स्वेषां ब्रह्मवेत्ततायामेव शङ्का आगता । सूक्ष्मतया एवं चिन्तयित्वा सर्वे तूष्णीम् उपविष्टवन्तः । एतद् दृष्ट्वा याज्ञवल्क्यः ताः धेनूः स्वीकृत्य चलतु । इति शिष्यं सामवेदाध्यायिं सोमदेवं वदति । एतद् श्रुत्वा ब्राह्मणवर्गः क्षुब्धाः अभवन् । विदेहराजस्य होता अश्वलः याज्ञवल्क्यं अपृच्छत् भवान् सर्वेषामपेक्षया अधिकब्रह्मवेत्ता वा ? इति । तदा याज्ञवल्क्यः विनम्रः अवदत् । अत्रत्यब्रह्मवेतृभ्यः नमस्करोमि । किन्तु मह्यं धेनूनाम् आवश्यकता अस्ति । अतः नयन् अस्मि इति । अनन्तरं किम् ? शास्त्रार्थः आरब्धः एव । प्रत्येकः ब्राह्मणविद्वान् अपि याज्ञवल्क्याय प्रश्नान् अपृच्छत् । तर्काय प्रचोदनं ददाति । किन्तु सर्वेभ्यः प्रश्नेभ्यः अपि एषः धैर्येण उत्तरं ददाति । जरत्कारुगोत्रस्य आर्तभागः, लाह्यायनि, भुज्युः, चाक्रायणः, उषस्तः, कौषितकेयः, कहोलः इत्यादि विद्वांसः वादं कृत्वा मौनेन स्थितवन्तः । किन्तु तस्मिन् समूहे गार्गी अपि आसीत् । काचित् स्त्री वादं करोति वा ? तदपि तादृशआनां विदुषां पुरतः ? इति विद्वांसः अपहास्यं कृतवन्तः ।

याज्ञवल्केयन सह वादः[सम्पादयतु]

किन्तु गार्गी न भीता । धैर्येण याज्ञवल्क्येन सह वादं कर्तुम् आरब्धवती । भगवन्, एतानि सर्वाणि पार्थिववस्तूनि जले सन्ति । किन्तु जलं कस्मिन् अस्ति ? इति पृष्टवती । जलं वायौ सम्मिलितमस्ति इति याज्ञवल्क्यः उत्तरं दत्तवान् । एवं वादः प्रतिवादाः वायोः, आकाशस्य, अन्तरिक्षस्य, गन्धर्वलोकस्य, आदित्यलोकस्य, चन्द्रलोकस्य, नक्षत्रलोकस्य, देवलोकस्य, इन्द्रलोकस्य, प्रजापतिलोकस्य विषये अभवन् । प्रश्नोत्तराणि अभवन् । याज्ञवल्क्यः गार्ग्याः ब्रह्मज्ञानम् अभवत् । अतः सः तस्याः बहुधाप्रशंसां कृतवान् । ब्रह्मलोकः कस्मिन् सम्मिलितः अस्ति ? इति गार्गी आग्रहेण पुनः पृष्टवती । गार्गि, एषः कश्चित् अतीतः प्रश्नः । अत्र उत्तरस्य सीमा एव अस्ति । एतस्य अनन्तरम् अन्यप्रश्नः नागच्छेत् । तथा करोति चेत् भवत्याः शिरः छिन्नं भवति । विदुषी गार्गी याज्ञवल्क्यस्य अन्तर्भावं ज्ञात्वा, अन्यान् तात्विकप्रश्नान् पृष्टवती । उत्तरं यच्छन् सः ऋषिः अक्षरतत्त्वं, परब्रह्मं, परमात्मतत्त्वं च उत्तमरीत्या निरूपितवान् । तदा सा एव याज्ञवल्क्यस्य अपेक्षया उत्तमः ब्रह्मवेत्ता नास्ति इति घोषितवती, याज्ञवल्क्यः अपि गार्ग्याः विद्वत्तायाः श्रेष्ठत्वस्य, तस्याः ज्ञानस्य च श्लाघनां कृतवान् । एवं परस्पराणां श्लाघनानि तयोः विशालहृदयं प्रतिपादयन्ति । तावत्पर्यन्तम् एतादृशेषु वादेषु स्त्रियः अधिकतया भागं न गृह्णन्ति स्म । एषा तद् साधयित्वा भारतस्य स्त्रीरत्नम् अभवत् ।


बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गार्गी&oldid=369171" इत्यस्माद् पुनः प्राप्तिः