सूर्या

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


आदित्यसूर्यस्य पुत्री सूर्या । एतस्याः विवाहः चन्द्रमसा सह अभवत् । वेदे एतयोः विवाहस्य वर्णनम् अस्ति । (सूर्या सूर्यदेवस्य पत्नी इति बृहद्देवता वदति । तस्य सप्तमाध्यायस्य १२१तम श्लोकः एतस्य आधारः । उषा रूपत्रयेषु सूर्यदेवेन सह दृश्यते । सूर्यदेवस्य उदयात् पूर्वम् उषा मध्याह्ने सूर्या सायङ्काले वृषाकपायी रूपेण इति ।) ऋग्वेदस्य १० मण्डलस्य ८५ तमे सूक्ते सूर्यायाः ४७ ऋचः सन्ति । एतद् विवाहसम्बद्धं सूक्तमस्ति । आरम्भस्य ऋचौ चन्द्रमसा सह सूर्यायाः विवाहस्य चित्रणमस्ति । हिन्दूवेदशास्त्रस्य सर्वेभ्यः आख्यानेभ्यः अपि आध्यात्मिकादिदैविका दिभौतिकाः इति अर्थत्रयं भवति । एवमेव वेदानाम् ऋचाम् अपि अर्थत्रयं भवति । तथापि तत्र आध्यात्मिकार्थरूपमेव प्रमुखम् । एवं चेत् तेभ्यः ऐतिहासिकमहत्वम् अथवा अर्थः नास्ति इत्यर्थः न । सः अर्थः अपि अस्ति ।

चन्द्रमसा सह विवाहः[सम्पादयतु]

एतादृशः ऐतिहासिकार्थस्य चन्द्रमसः सूर्यादेव्याः च विवाहस्य विवराणि एतेषु ऋक्षु सन्ति । एवमेव चन्द्रस्य सूर्यदेवस्य च नक्षत्र(ग्रह)रूपस्य प्राप्तिः । अत्र अलङ्कारिकभाषायाम् अध्यात्मिकवर्णनम् अस्ति । अत्र एतम् अधिष्ठात्रीदेव्याः रूपेण दृष्टवन्तः सन्ति । सूर्यादेव्याः चन्द्रमसः च विवाहः अभवत् । सा पतिगृहं प्रस्थितवती । मनोवेगरथे सा उपविष्टवती । साक्षात् सूर्यदेवः एव श्वशुरः इत्युक्ते वक्तुं किम् अस्ति तत्र ? स्वर्णमयरथे वरदक्षिणा रूपेण दत्तानि वज्रवैढूर्यमौक्तिकमाणिक्यानाम् अगणिता राशिः एव आसीत् । विविधाः वस्त्रालङ्काराः अपि तत्र आसन् । सूर्यः बहुसङ्ख्यया धेनूः दत्तवान् । रथः बहुसुन्दरः आसीत् । श्वेतवर्णस्य बलिष्ठवृषभद्वयं रथे बद्धमासीत् । रथस्य उपरि सुन्दरशिबिका इव पेटिका आसीत् ।

देव्योपदेशाः[सम्पादयतु]

अत्र सूर्यादेव्याः मधुरोपदेशान् द्रष्टुं शक्यते । हे नववधूः भवत्याः पत्युः गृहे सकलवस्तूनाम् अभिवृद्धिः भूत्वा, तेन भवत्यै, सर्वेभ्यः प्रजाभ्यः शुभं भवतु । अस्मिन् गृहे भवती एव यजमाना सती सर्वदा जागरिता सर्वेषां सेवां कुर्वती भवतु । पत्या सह भवत्याः शरीरसंसर्गस्य उत्तमस्थितिः भवतु । ज्ञानयोग्यस्य परमात्मनः ध्यानं कुर्वन्तौ भवन्तौ वार्धक्यपर्यन्तं मिलित्वा सरसेन, परस्परआनन्देन तिष्ठताम् । हे स्न्षे भवती मलिनं वस्त्रं क्षिपतु । वेदपठितारेभ्यः सत्पुरुषेभ्यः दानं ददातु । असह्यस्थितिः, मलिनवस्त्रधरणं, प्रतिदिनं स्नानेन विना स्थितिः, आलस्यस्थितिः एतैः रोगाः प्रसृताः भवन्ति । पत्न्याः मलिनतायाः कारणेन पत्युः अनिष्ठं भवति । अतः पत्नी एतेन सर्वदा दूरे भवेत् । पत्युः शुभम् इच्छन्ति चेत् पत्न्यः शुभ्राः भवेत् । मलिनतायाः कारणेन शरीरः रोगग्रस्तः भवति । शरीरकान्तिः नष्ठा भवति । एतस्याः पतिः अपि शोभाहीनः, रोगिष्ठः च भवति । हे स्नुषे सौभाग्यार्थम् अहं (यः पतिः भवति) भवत्याः पाणीग्रहणं करोमि । मया सह भवती अपि अभिवृद्धिं प्राप्नोतु । हे भगवन् भवान् एतां वध्वं, सुपुत्रवतीं, सौभाग्यवतीं च करोतु । एतस्याः गर्भे दशसुपुत्राः जन्म प्राप्नुवन्तु । हे वधूः भवत्याः उत्तमस्वभावेन श्वश्रोः गृहे भवती साम्राज्ञी भवतु । ननान्दानां, देवराणां च साम्राज्ञी भवतु । भवत्याः सुन्दरव्यवहारेण, सेवया च सर्वेषां मनांसि भवती आकर्षतु ।


""

"https://sa.wikipedia.org/w/index.php?title=सूर्या&oldid=369123" इत्यस्माद् पुनः प्राप्तिः