अपाला

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
अपाला


अत्रिमुनिः एतस्य मन्वन्तरस्य सप्तर्षिषु अन्यतमः, ब्रह्ममानसपुत्रः च । एतस्य पुत्री एव अपालाअत्रिः कञ्चित्कालं ब्रह्माधिकारे स्थित्वा, मन्त्रद्रष्टारः आसीत् इत्यनेन सः अपालायै सर्वविधं मन्त्रोपदेशं कृतवान् आसीत् । सा स्त्रीः ऋषिः आसीत्, ब्रह्मविद्यां ज्ञातवती आसीत्, ब्रह्मवादिनी च आसीत् । कालान्तरेण अत्रिः तस्याः विवाहं कृतवान् । पत्युः गृहे एतस्याः चर्मणः कथञ्चित् दोषः अभवत् । तस्य किमपि सन्तानं नाभवत् । एषा प्रजनन सामर्थ्येन विना रोगग्रस्ता जाता । अतः तस्याः पतिः तां त्यक्तवान् । एवं विना पालकैः एषा अनाथा जाता (अपाला इत्युक्ते पालकरहिता अनाथा इत्येव अर्थः) । (चर्मरोगः अस्ति इत्यनेन एतया सह विवाहं कर्तुं कोऽपि अग्रे नागतवान् इत्यपि कृष्णयजुर्वेदस्य श्रीहरिदत्ताचार्यस्य व्याख्यानमस्ति)

परिहारार्थं तपोमार्गः[सम्पादयतु]

स्वस्य इन्द्रियशैथिल्यस्य, वन्ध्यायाः, चर्मरोगस्य च परिहारार्थं तया तपः आचरणीयमासीत् । अतः सा पितुः गृहं प्रत्यागतवती । आरम्भे पिता तां स्वगृहे स्थापयितुं न अङ्गीकृतवान् चेदपि अन्ते आश्रमे एव किञ्चित् पृथक् स्थातुम् अङ्गीकृतवान् । अपाला स्वस्य मनसः आशां पूरीकर्तुं निर्णयं कृतवती । एतस्य रोगस्य परिहारार्थम् इन्द्रम् उद्दिश्य सोमयागं करणीयम् इति चिन्तयित्वा आरम्भे इन्द्रम् उद्दिश्य तपः आचरितवती । यदा तस्याः ज्ञानोदयः अभवत् तदा सोमयागं कर्तुं स्वस्य आनुकूल्यं नास्ति इति ज्ञात्वा दुःखिता जाता । इन्द्रः सोमप्रियः । तेन रसेन विना सः सन्तुष्टः न भवति इति सा चिन्तितवती । कदाचित् सा स्नानं कर्तुं नद्याम् अवतरितवती । तदा पादस्खलनेन जले पतितवती । सा नद्यां प्रवाहिता जाता । तदा तस्याः मरणस्थितिः चेदपि सा स्वस्य मनदाशायाः विषये चिन्तयति स्म । तदा सोमलतायाः खण्डः कश्चित् प्लवन् तस्याः समीपम् आगतः । तस्य रसम् इन्द्राय अर्पयितुम्, अन्यपात्रं नास्ति इत्यनेन स्वस्य मुखे एव चर्वणं कर्तुम् आरब्धवती । सोमकुट्टनं कर्तुं यज्ञोपयुक्तशिलाखण्डाः न सन्ति इति कारणेन स्वस्य दन्ताः एव यज्ञशिलाः इति चिन्तयित्वा चर्वणं कृत्वा मुखे एव रसोत्पादनां कृतवती । एतेन मरणस्थितौ अपि अपाला सोमयागं कर्तुं योग्या आसीत्, यागाय आवश्यकानि साधनानि तस्याः शरीरे एव आसन् इति ज्ञायते । आरम्भे बिन्दुबिन्दुरूपेण, अनन्तरं समृद्धरूपेण इन्द्राय सोमरसम् अर्पणीयम् इति तस्याः आशयः आसीत् । स्वार्थरहितभावनया मम दन्ते दष्ट्वा अपि एषः रसः मम न इति भावः तस्याः आसीत् ।

सोमरसोत्पत्तिः[सम्पादयतु]

सोमलतायाः चर्वणशब्दः सोमयागकाले कुट्टनस्य शब्दः इव इन्द्र श्रुत्वा सः तदा यागमेव इति मत्वा सोमपानार्थम् इन्द्रः एव तस्याः पुरतः प्रत्यक्षः अभवत् । सोमकुट्टनस्य शब्दः श्रूयते, मया किं करणीयम् ? इति इन्द्रः पृच्छति । तदा प्रवहन्ती एव अपाला स्वस्य दुःखमयस्थितिम् उक्त्वा, हे इन्द्रदेव भवता श्रुतः, पत्युः सम्बन्धमेव अदृष्टाया कयाचित् स्त्रिया सोमलतायाः चर्वणशब्दः । तत्र यज्ञकार्यं न चलति चेत् स्वस्मै सोमार्पणम् अपि न भवति इति ज्ञात्वा इन्द्रः ततः प्रस्थातिवान् । तदा अपाला तम् एवं प्रार्थयत् । हे सोम समर्थाय इन्द्राय अर्पणार्थं भवतः चर्वणं कृत्वा रसोत्पत्तिं कृतवती । अनन्तरम् इन्द्रस्य दिशि मुखं कृत्वा सः इन्द्रः वा न वा इति शङ्कया तं प्रार्थयति । हे महापुरुष भवान् एव इन्द्रः इति चिन्तयामि, भवान् मम गृहागमनस्य कृपां करोति चेत् अहं भवते उपायनम् अर्पयामि इत्युक्त्वा सोमरसाय वदति हे सोमरस भवान् आरम्भे किञ्चित् अनन्तरं शीघ्रतया समृद्धतया स्रवित्वा इन्द्राय अर्पितः भवतु इति । पश्चात् जलप्रवाहात् बहिः आगत्य सा इन्द्रम् आश्रमं नयति । पुनः तं तत्र प्रार्थयति । हे वीर इन्द्र सोमपानार्थं भवान् गृहं गृहं गच्छति । मन्त्रपठनेन अर्पितस्य एतस्य सोमरसस्य पानं करोतु । एतेन सन्तुष्टः इन्द्रः तया दत्तं सोमरसं पीत्वा तां पश्यति ।

इन्द्रकृपा[सम्पादयतु]

तदा अपाला स्वस्य कष्टं निवेदयति । हे इन्द्रदेव चर्मदोषयुक्तां मां मम पतिः त्यक्तवान् अस्ति । तथापि भवान् मम मुखे सङ्गृहीतं सोमरसं पीत्वा माम् उद्धृतवान् अस्ति । मम सम्बन्धेन एषः सोमरसः दोषयुक्तः इति भवान् अचिन्तयित्वा भवतः श्रेष्ठत्वं दर्शितवान् अस्ति । एवमेव सा प्रार्थयन्ती गच्छति इन्द्रः अस्मासु शक्तिं पूरयतु । बहुधनं ददातु । पत्या दूरे स्थितायाः मम पतिः सन्निधानं ददातु । एतेन वचनेन सुप्रीतः इन्द्रः हे ऋषिपुत्रि भवती किम् इच्छति पृच्छतु, ददामि इति अवदत् । देव मह्यं वरत्रयं ददातु इति सम्प्रार्थ्य तस्य अनुमत्या एवं वरद्वयम् अयाचत । मम पिता खल्वाटः अस्ति । शिरसः चर्मणः प्रजननसामर्थ्यं नास्ति । अतः तस्य शिरः सकेशं भवेत् । द्वितीयेन वरेण मम पितुः कृषिभूमिः ऊषरम् अस्ति । सा फलवती भवेत् । तथास्तु इति इन्द्रः अदृश्यः अभवत् । तदा सा तृतीयेन वरेण मम जीवनं प्रजननसामर्थ्येन विना निष्प्रयोजकम् अस्ति । मम पत्या एव सन्तानभाग्यम् अनुगृह्णातु इति प्रार्थयत । तदा इन्द्रः तस्य रथस्य चक्रस्य युगस्य च रन्ध्राणां जलेन तां सम्प्रोक्ष्य । पश्चात् तां रान्ध्रेभ्यः प्रवेशय्य शुद्धीकरणम् अकरोत् । त्रिवारम् एवम् आकर्षणसमये त्रिवारमपि तस्याः चर्म क्लप्तम् । प्रथमवारं क्लप्तं चर्म शल्यकण्ठः अभवत् । द्वितीयवारं गृहगोधिका अभवत् । तृतीयवारं सरटः अभवत् । एवं त्रिवारं तस्याः शरीरस्य चर्म गतम् इति कारणेन तस्याः चर्मदोषः परिहृतः । सा सूर्यवत् प्रकाशमानं दिव्यशरीरं, चर्मकान्तिं च प्राप्तवती । एवं रोगग्रस्ता अपाला इन्द्रानुग्रहेण रोगविमुक्ता भूत्वा नववधूत्वं प्राप्य सन्तानशक्तिं, गर्भसाफल्यं च प्राप्तवती । अग्रे पत्या सह पुत्रपौत्रान् प्राप्य,सुखेन जीवितवती । एवम् आपत्काले काचित् स्त्री इन्द्रं प्रार्थयित्वा, तस्य अनुग्रहेण स्वस्य व्यक्तित्वस्य, कुटुम्बजीवनस्य, परितस्य परिसरस्य च दोषान् निवारयित्वा उत्तमजीवनं प्राप्तवती ।

अपालामन्त्रः[सम्पादयतु]

अपालायाः जीवनम् अद्यतने अस्माकं जीवनेऽपि सम्मिलितम् अस्ति । तस्याः शुद्धीकरणस्य विवरणस्य ऋग्वेदस्य मन्त्रान् कन्यावार वायितिः इति मन्त्रान् ऋग्वेदिनः विवाहकाले उपयोजयन्ति । कन्यादानकाले वध्वाः शिरसि लघुयुगस्य आकृतिं वा कदाचित् युगमेव वा स्थापयित्वा तस्य उत्तरदिशः रन्ध्रद्वारा काचित् स्वर्णमालाम् उपरिश्टात् स्थापयित्वा अधः आकृष्य स्वीकृत्य, अपालायाः देहशुद्धीकरणस्य ऋक्संहितायाः ८-९१-१ तः ७ पर्यन्तस्य मन्त्रान् पठित्वा तेन सह एकाग्निकाण्डस्य १-१-१० स्य मन्त्रः

शं ते हिरण्यगं शमुसन्त्वापः
शं ते मिधी भवतु शं युगस्यतृद्मा
शं त आपः शतपवित्रा भवन्तु
अथापत्या तन्वगं सगं सृजस्व ॥

एतेन सुवर्णेन भवत्याः मङ्गलं भवतु । एतेन प्रोक्षितजलेन भवत्याः सुखं भवतु । अत्र स्थापयित्वा निष्कासितस्य गोः बन्धनस्य मेधी नामककाष्ठस्य आकारेणापि भवत्याः शुभं भवतु । पत्युः मया सह सहयोगे भवत्याः शरीरं योजयतु इति वरः वदति । किन्तु एतस्य मन्त्रपठनस्य गूढार्थम् इत्युक्ते मण्डपे उपविष्टवत्यां वध्वाम् कोऽपि दोषः वा इन्द्रियरोगः वा अस्ति चेत्, वध्वाः पितरौ एतं विषयम् अनुक्तवन्तः चेदपि एतेन मन्त्रपठनेन, अपालायाः इन्द्रस्तुतिद्वारा, इन्द्रः वध्वां विद्यमानस्य दैहिकदोषस्य निवारणं कृत्वा गर्भशुद्धिं, प्रजननसामर्थ्यं च अनुगृह्णातु इत्येव अस्ति । युगस्य रन्ध्रे वधूं प्रेषयित्वा निष्कासनं तु असाध्यम् इत्यनेन, तस्याः प्रतिनिधिः इव काचित् स्वर्णमालां मन्त्रसहितस्य दर्भजलेन सह प्रेषयित्वा तां पवित्रं कुर्वन्ति इत्येव एतस्य क्रियायाः अन्तरार्थः ।

अवसानेऽपि आदर्शा[सम्पादयतु]

एतादृशं पवित्रम् इतिहासमेव प्राप्तवती अपाला स्वयं साधनया एव ब्रह्मवादिनी, ब्रह्मज्ञानिनी च अभवत् । एतावत् ज्ञानमस्ति चेदपि शारीरिकलोपेन स्वस्य जीवनं निरर्थकं भवति किल इति सा दुःखिता आसीत् । यदा सा प्रवाहे प्रवहिता तदापि सन्तानक्रियेण विना जीवनं निरर्थकम् इति दुःखेन स्वस्य जीवनमेव सोमयागमिव कृत्वा, इन्द्राय अर्पितवती । नवजीवनयज्ञे परमात्मने स्वस्य आनन्दार्पणेन सर्वं क्षेमम् इति अपाला मरणकालेऽपि कृत्वा दर्शितवती । एवं मानवस्य अर्पणबुद्ध्या तस्य जीवनस्य सार्थकता भवति, एतेन जीवनस्य निरन्तरसन्तानसाध्यमिति, एषः एव ब्रह्मानन्दः इति अपालायाः आख्यायिका दृढीकरोति ।ऋग्वेदस्य अष्टममण्डलस्य ९१ तमस्य सूक्तस्य १तः ७ पर्यन्तस्य ऋचाः एतया एव लिखितम् ।

"https://sa.wikipedia.org/w/index.php?title=अपाला&oldid=426950" इत्यस्माद् पुनः प्राप्तिः