वाग्देवी
अभृणः नामकः कश्चन महर्षिः बहुपूर्वं हिमालये स्थित्वा, तपः आचरितवान् । बहुवर्षाणां तपसः प्रभावेण तस्मै वाक् नान्मः पुत्र्याः जननम् अभवत् । वाक्, बाल्यदारभ्य पितुः तपश्चर्यया प्रभाविता, ब्रह्मचर्यस्य प्रामुख्यं च ज्ञातवती आसीत् । अल्पकालेन एव एषा अपारज्ञानराशिं सम्पादितवती । एतेन पिता बहुसन्तुष्टः अभवत् । किन्तु तस्यै बालिकायै प्रापञ्चिकविषये किञ्चिदपि आसक्तिः नासीत् । वास्तविकब्राह्मणकन्या इव सा स्थितवती । स्वस्य पूर्णं समयं तपश्चरणे, ज्ञानसम्पादने वा यापयति स्म ।
विवाहः वा वैराग्यं वा
[सम्पादयतु]वाक् यदा यौव्वनं प्राप्तवती, तदा अभृणमहर्षिः तस्याः विवाहस्य विषये चिन्ताम् आरब्धवान् । पुत्रीम् आहूय विवाहविषयस्य प्रस्तावं कृतवान् । पितुः भावं ज्ञात्वा सा हसितवती । पिता अपि पुत्र्याः अन्तर्गतं ज्ञातवान् । सा उक्तवती हे पितः अस्यां भूमौ जन्मप्राप्य अत्रत्य कर्तव्यं निर्वहणीयमेव । किन्तु मह्यम् एतादृशेषु ऐहिकामुष्मिकेषु आसक्तिः नास्ति । सर्वशक्तेः मूलब्रह्माण्डस्य मातरं भगवतीम् आकृष्य अग्रिमजनाङ्गेभ्यः तस्याः अनुग्रहप्राप्तेः मार्गस्य दर्शनं करणीयम् इति चिन्तितवती अस्मि । अतः मम एतादृशस्य महत्कार्यस्य साधनायां सिद्धिप्राप्त्यर्थम् आशीर्वादं करोतु एवं प्रार्थयन्तीं पुत्र्याः निष्कामसेवाम् अभृणमहर्षिः मनसि एव प्रशंसां कृत्वा, तस्याः ब्रह्मज्ञानार्थं मार्गं कल्पितवान् ।
ज्ञानमार्गिणी मन्त्रदृष्ट्री
[सम्पादयतु]अनन्तरं वाग्देवी अनेकवर्षपर्यन्तं भगवतीदेव्याः प्रार्थनायां, तपसि एव समयं यापितवती । एतस्याः तपसा सन्तुष्टा देवी एताम् अनुगृहीतवती । एवं वाग्देवी भगवत्या सह अभिन्नतां प्राप्तवती । भगवत्यै शक्तिरूपिण्यै प्रप्रथमप्रार्थनां रूपितवती । ऋग्वेदसंहितायाः दशममण्डलस्य १२५ तमे सूक्ते विद्यमानं देवीसूक्तम् उच्यमानं प्रसिद्धानाम् अष्टमन्त्राणां रचनाम् एषा एव कृतवती । चण्डीपाठेन सह एते अष्टमन्त्राः बहु महत्वपूर्णाः इति लोकविश्वासः । एतेषु मन्त्रेषु बहुस्पष्टतया अद्वैतसिद्धान्तस्य प्रतिपादनं कृतम् ।
मन्त्रमथितार्थः
[सम्पादयतु]तेषां मन्त्राणाम् अर्थः एवम् अस्ति । अहं सच्चिदानन्दमयी सर्वात्मा । रुद्रवस्वादित्यविश्वदेवगणानां रूपेण सर्वत्र अटामि । मित्रं वरुणं च, इन्द्रम् अग्निम् अश्विनीकुमारौ च अहमेव धारणं करोमि । शत्रूणां नाशकः आकाशे सञ्चरन् देवः सोमः अहमेव अस्मि । एवमेव त्वष्ट्रु प्रजापतिं, पूषां (द्वादशादित्येषु अन्यतमः) भगं (स्वायम्भुमन्वन्तरस्य द्वादशादित्येषु अन्यतमः) च अहं धारणां करोमि । अहम् एतस्य सम्पूर्णजगतः अधीश्वरी अस्मि । यः माम् उपसते तस्मै धनधान्यसम्पदं च ददामि । जगति अनेकभागेषु ममांशान् प्रतिष्ठापितवती अस्मि । देव्याः येषु विभागेषु कार्योन्मुख्यः सन्ति तासु अहमेवास्मि । मम कारणेन एव ताः कार्यनिर्वहणं कुर्वव्यम् अस्ति । स्वयं मानवैः देवैः च सेव्यमाना अहम् एतस्य अपरूपस्य वर्णनायै कारणीभूता अस्मि । मया रक्षितः पुरुषः परब्रह्म एव समस्तजगतः रक्षणां करोति । एवम् एतस्याः देव्याः प्रार्थना अनुवर्तते ।
अदिशक्त्याराधना
[सम्पादयतु]एतया अग्रिमसन्तानानां चन्डीहोमः चण्डीशान्तिः चण्डी(चामुण्डी) पूजायाः आरम्भः अभवत् । आदिशक्त्याः रमोच्छरूपतत्त्वम् एतेषु स्तोत्रेषु द्रष्टुं शक्यते । भारतीयसंस्कृत्यां शक्तिपूजायाः आरम्भः इतः एव अभवत् इति वक्तुं शक्यते । एवं शक्तिरूपिण्याः प्रादुर्भावं वेदमन्त्रेषु स्थापयित्वा वाग्देवी तपः कुर्वती एव दिव्यसायुज्यं प्राप्तवती । एतादृशम् अमूल्यतत्त्वं, पुजाविधानं दत्तवती ब्रह्मवादिनी वाग्देवी वस्तुतः ब्रह्मवादिनी आसीत् । वाग्देव्याः अमूल्यदानम् इत्युक्ते तावत्पर्यन्तं वेदानां निर्माणे इन्द्रः अग्निः इत्यादि च पुरुषदेवाः प्रधानाः आसन् । एषा एतेषामपेक्षया अधिकश्रेष्ठतां भगवत्यां स्थापितवती । पुरुषप्रधानस्य समाजस्य पुरतः स्त्रीप्राधान्यं दर्शयित्वा द्वयोः अपि समन्वयतां स्थापयित्वा कीर्तिं प्राप्तवती । जगन्मातुः तत्त्वाचरणेन ब्रह्माण्डस्य मूलं सा एव, इन्द्रशिवरुद्रविष्णुः इत्यादयः तस्याः शक्तेः रूपाणि इत्युक्त्वा जगन्मातुः देवालयानां निर्माणाय स्फूर्तिं दत्तवती ।
देवीमहिमा
[सम्पादयतु]अग्रे सा हविसः प्राप्यमानेभ्यः देवेभ्यः इतोऽपि उत्तमहविः यथा प्राप्येत तथा कर्तुम् अहं शक्नोमि । देवाय आवश्यकं सोमरसं पाययित्वा तेषां तृप्तिं दातुं शक्नोमि । यज्ञकर्त्रे यजमानाय च उत्तमफलं धनं च ददामि । यः परब्रह्म दैवसाक्षात्कारं कुर्वाणः परब्रह्म मम अभिन्नं रूपमेवास्ति । तं ज्ञातुं पूजयितुं च सर्वशक्तयः मया एव दीयन्ते । अन्नं (यः भोजनं करोति) खादितारः मया दत्तशक्त्या एव खादति । द्रष्टारः (यः पश्यति), श्वसितारः (यः श्वासोच्छ्वासं करोति), श्रोतारः (यः शृणोति) च मम साहाय्येन एव कार्यं कर्तुं समर्थः भवति । प्रतिप्राणिः, मानवः च एवं चलन्ति । अहम् इदानीम् एतस्मिन् रूपे अस्मि । मम एतद् रूपं यः न जानाति सः नीचस्थितिं प्राप्नोति । हे बहुश्रुत श्रद्धासक्तिभिः प्राप्यमानस्य ब्रह्मतत्त्वस्य उपदेशं करोतु, शृणोतु समस्तमानवाः, देवाः च मम सेवां कुर्वन्ति । एतद् कार्यं तावत् सुलभं नास्ति । सेवया मम साक्षात्कारप्राप्तिः तु बहुकष्टकरं कार्यम् । एतद् अनुष्ठानम् अहं केवलं मम भक्तेभ्यः बोधयामि । एतेन ते अन्येषामपेक्षया शक्ताः भवन्ति । एतेषां रक्षणस्य संपूर्णदायित्वं मम अस्ति । सकलजीवीनां सृष्टिकर्तारं ब्रह्माणम् उत्तमपरोक्षज्ञानेन सम्पन्नं करोमि । तं मेधाशक्तियुक्तं कर्तुं शक्नोमि । ब्रह्मद्वेषिणां, सद्भक्तपीडकानां राक्षसानां संहारं कृत्वा तेषां रुण्डद्वारा रुद्रधनुः अलङ्कारं करोमि । शरणातनां रक्षणाय दुष्टसंहारम् अहं स्वयं करोमि । अन्तर्यामिरूपेण भूम्याकाशं च आवृणोमि । समस्तब्रह्माण्डाय अहम् अधिष्ठात्री अस्मि ।
""