सुलभा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


प्रधानः कश्चन राजर्षिः । तस्य पुत्री एव सुलभा । एषा ब्रह्मचारिणी ब्रह्मनिष्ठा महातपस्विनी च आसीत् । एतादृशी सुलभा जनकमहाराजस्य कीर्तिं श्रुतवती । जनकः तु ब्रह्मज्ञानी एव । तस्य ब्रह्मज्ञानेन राजसभा अपि शोभते स्म । किन्तु तस्मिन् स्वस्य विश्वासः, अन्येषाम् अभिमतं खण्डयित्वा स्ववादप्रतिष्ठापनस्य प्रवृत्तिः अधिका आसीत् । एषा प्रवृत्तिः विवेकिनः साधुसेवकस्य जनकस्य न अपकीर्तिकारिका इति सुलभायाः विश्वासः । तस्य विषये सुलभायाः कोमलहृदये उद्भूतकरुणया तस्य भ्रमां दूरीकर्तुं सा निश्चितवती ।

जनकस्य दुरभिमानः[सम्पादयतु]

पञ्चशिखः ब्रह्मज्ञानसम्पन्नः कश्चन महर्षिः । एषः कपिलायाः पुत्रः। एषः कदाचित् जनकेन सह संवादं कृत्वा नास्तिकादिदुष्टमतानां खण्डनं कृत्वा तस्मै तत्त्वोपदेशं कृतवान् आसीत् । (एतेन जनकाय पञ्चशिखः विषये बहुभक्तिगौरवं च आसीत् ) । तथापि ज्ञानदृष्ट्या जनकः अपूर्णः इति सुलभा चिन्तितवती । तं योगबलेन सूक्तमार्गे आनेतुं सा सुन्दरतपस्विन्याः रूपेण मिथिलाम् आगतवती । महाराजः जनकः तस्याः स्वागतं कृत्वा अर्घ्यपाद्यादीनि दत्त्वा सत्कारं कृतवान् । सा भोजनानन्तरम् आनन्देन आसनारूढा अभवत् । बहुनम्रतया महाराजः पृच्छति । देवि भवती का ? कौ भवत्याः पितरौ ? केन कारणेन इहागतास्ति ? अहं भवत्या सह पारमार्थस्य चर्चां कर्तुम् इच्छामि इति । सुलभा किमपि न उक्तवती । तूष्णीम् आसीत् । एतद् दृष्ट्वा महाराजः, अहं परमयोगी महात्मा पञ्चशिखस्य शिष्यः अस्मि । अहं साङ्ख्यशास्त्रस्य योगशास्त्रस्य च सम्पूर्णं रहस्यं तेन ज्ञातवान् अस्मि । मोक्षसाधानकर्मणः ज्ञानोपासनायाः विषये अहं सम्यक् जानामि । पञ्चशिखमहर्षिः अत्र चातुर्मास्यं कृत्वा मह्यं योगविद्यायाः शिक्षणं दत्तवान् । मम गुरुदेवः मह्यं निष्कामकर्मणः उपदेशमपि दत्तवान् इति स्वस्य दीर्घं परिचयं दत्तवान् । पश्चात् जनकः इतोऽपि अग्रे सरन् अवदत् भवत्यां योगस्य प्रभावः अस्ति । भवत्याः संन्यासः धर्माधारेण तिष्ठतु । भवति मम ज्ञानस्य परीक्षार्थं छाद्मवेषेण आगतवती इति चिन्तयामि ।

जनकस्य भ्रमापहरणम्[सम्पादयतु]

इतः परं मौनम् अनुचितम् इति मत्वा सुलभा सम्भाषणस्य विषयं विवृतवती । अष्टादशैः दोषैः मुक्ता, अष्टादशैः गुणैः युक्ता सद्वाणी कियती श्रेष्ठा तस्य अभ्यासं कथं करणीयम् इत्यादिसर्वं विवृतवती । अर्थद्वयस्य कश्चन शब्दस्य, अर्थगौरवस्य पदस्य प्रयोगः कथं करणीयः इति सूचितवती । कामक्रोधैः दोषैः दूरे स्थित्वा, आत्मसमीपस्य शब्दस्पर्शरूपरसगन्धैः विभिन्ना भावभाषा कथम् उपयोक्तव्या इति सूचितवती । जडचेतनयोः संयोगस्य मिथ्याज्ञानेन मानवदेहस्य निर्माणं भवति । एवं सति भवान् कः ? भवती का ? इत्यस्य प्रश्नस्य औचित्यं किम् ? चैतन्यं तु एकमेव, अविभाज्यम् अस्ति । किन्तु जडः सर्वेषां शरीरे समानः अस्ति । सिकतकणाः मिलित्वा भवन्ति चेदपि यथा पृथक्केव तिष्ठन्ति, परस्परं न जानन्ति । नेत्राणि स्वेषां दर्शनं न कुर्वन्ति । इन्द्रियाणि अपि तावदेव, तेषां स्वेषां ज्ञानं न भवति । पञ्चकर्मेन्द्रियाणि, ज्ञानेन्द्रियाणि, सप्तधातुप्रकृतयः एवं त्रिंशद्गुणानां सन्धीभावेन विद्यमानः अंशः एव शरीरम् । अव्यक्तरूपस्य प्रकृतिः एतान् गुणान् प्राप्य, व्यक्तिरूपस्य अनुभूतिः एव अहम् । तदेव भवान् भवती । अतः भवतः भवती का ? प्रश्नः व्यर्थः । यतः भवान् एव अहं, अहमेव भवान् इति चतुरवचनानि उक्तवती । अनन्तरं सा यथा निष्कामभावेन जनसेवां कुर्वती अस्ति इति विवृत्य राजन् अहं भवतः हितार्थमेव वदन्ती अस्मि । स्वपक्षस्य समर्थनम् अन्यपक्षस्य खण्डनं स्वार्थः भवति । अतः तथा न करोतु । यत्र एकमेव आत्मतत्त्वम् अस्ति तत्र स्वत्वम् अन्यत्वम् इति कुत्र अस्ति ? कुत्र भवति ? अतः तादृशे आत्मतत्त्वे स्थितप्रज्ञतया जीवनपर्यन्तं तिष्ठतु,चलतु इत्युक्तवती । एवं ब्रह्मविद्यायाः विचारे जनके ज्ञानज्योतिं प्रज्वाल्य सुलभा सर्वमान्या अभवत् ।


""

"https://sa.wikipedia.org/w/index.php?title=सुलभा&oldid=369161" इत्यस्माद् पुनः प्राप्तिः