सामग्री पर जाएँ

५२ शक्तिपीठानि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(शक्तिपीठानि इत्यस्मात् पुनर्निर्दिष्टम्)

शक्तिः नाम शिवतत्त्वेन सह अविभाज्यरूपेण संयुक्ता क्रियाचैतन्यस्वरूपा। सृष्टि-स्थिति-लयादिप्रक्रियाणाम् अधिष्ठात्री। दुर्गा, पार्वती, गौरी, काली, श्रीललिता, दाक्षायणी इत्यादिरूपेण आदिपराशाक्त्याः वर्णनं कृतं दृश्यते । भारतीयसनातनधर्मस्य आराधनपरम्परायां शैव-वैष्णव-गाणपत्यपन्थाः इव शाक्तपन्थः अपि महत्त्वम् आवहति।

सतीदेव्याः शरीरम् उन्नीय गच्छन् शिवः

पौराणिककथा

[सम्पादयतु]

दक्षप्रजापतेः पुत्री सती । तस्याः अपरं नाम दाक्षायिणी। पितुः इच्छया विरुद्धं सा शिवेन सह विवाहं कृतवती । पुत्र्याः विष्ये क्रुद्धः दक्षः तया सह सम्बन्धं न रक्षितवान् । एकदा तेन कस्यचित् यज्ञस्य आयोजनं कृतमासीत् । सहजतया शिवाय निमन्त्रणं न प्रेषितवान् । सतीदेवी पितुः गृहस्य कार्यक्रमे भागं वोढुम् इष्टवती । "निमन्त्रणं विना गमनं न उचितम्" इति शिवः अनुरोधं कृतवान् । तथापि सती पितुः गृहं गतवती। तत्र दक्षः पुत्र्याः अवमाननं कृतवान् । अवमानेन सन्तप्ता सती यज्ञकुण्डे कूर्दनेन आत्मार्पणं कृतवती ।विषयं ज्ञात्वा शिवः दक्षस्य शिरः कर्तयित्वा यज्ञकुण्डे क्षिप्तवान् । पत्न्याः शरीरम् उन्नीय ताण्डवनृत्यम् आरब्धवान् । लोके अल्लोलकल्लोलः आरब्धः । यावत् सत्याः शरीरं तिष्ठति तावत् शिवस्य क्रोधशमनं न भवति इति धिया विष्णुः सुदर्शनचक्रेण तस्या शरीरं खण्डशः कर्तयति । तदा सत्याः शरीरस्य ५२ भागाः अभवन् । ते भागाः यत्र यत्र पतिताः सः प्रदेशः शक्तिपीठम् इति उच्च्यते । तत्र सर्वत्र शक्त्याराधना प्रचलति।

}

क्रमसङ्ख्यादेव्याः नामकः भागः पतितःस्थानम्राज्यम्देशः
बहुलादेवी (बहुलाक्षेत्रम्) वामबाहुः बहुलाक्षेत्रम्(बर्दवान्)पश्चिमबङ्गालभारतम्
मङ्गलचण्डिका (उजानि)दक्षिणमणिबन्धःउजानि(बर्दवान्)पश्चिमबङ्गालभारतम्
भ्रामरीदेवी (त्रिस्रोट)वामपादःत्रिस्रोट(जल्पाय्गुडी)पश्चिमबङ्गालभारतम्
युगाद्या/योगाद्यादेवी (क्षीरग्रामः)दक्षिणपादाङ्गुष्ठःखीरग्राम/क्षीरग्रामः(बर्दवान्)पश्चिमबङ्गालभारतम्
कालिकादेवी (कोलकता)दक्षिणपादस्य अङ्गुल्यःकोलकतापश्चिमबङ्गालभारतम्
विमलादेवी (किरीटकोनम्)किरीटम्किरीटकोनम्(मुर्षिदाबाद्)पश्चिमबङ्गालभारतम्
देवगर्भादेवी (कङ्कालिताल्)अस्थिकङ्कालिताल्(बीरभूम)पश्चिमबङ्गालभारतम्
कपालिनीदेवी (विभाश)वाममीनखण्डःविभाश(पूर्वमेदिनीपुर/मिड्नापुरपश्चिमबङ्गालभारतम्
कुमारीदेवी ( रत्नावळी)दक्षिणभुजःरत्नावळी(हूग्ली)पश्चिमबङ्गालभारतम्
१०कालिका (नल्हाति)पादास्थीनिनल्हाति(बीरभूम)पश्चिमबङ्गालभारतम्
११महिषमर्दिनी (बक्रेश्वरम्)भ्रूमध्यभागःबक्रेश्वर(बदहाम्)पश्चिमबङ्गालभारतम्
१२फुल्लारदेवी (अट्टहास)ओष्ठौअट्टहास(बर्दवान्पुर)पश्चिमबङ्गालभारतम्
१३नन्दिकेश्वरी (नन्दीपुरम्)---नन्दीपुर(बीरभूम)पश्चिमबङ्गालभारतम्
१४ललितादेवी (प्रयागः)दक्षिणहस्तस्य अङ्गुल्यःप्रयागःउत्तरप्रदेशःभारतम्
१५विशालाक्षी/मणिकर्णिका (वाराणसी)कर्णाभरणानिवाराणसीउत्तरप्रदेशःभारतम्
१६शिवानी (रामगिरिः)उरसः दक्षिणभागःरामगिरिः(चित्रकूटम् )उत्तरप्रदेशःभारतम्
१७उमादेवी (वृन्दावनम्)अलकावृन्दावनम्(मथुरा)उत्तरप्रदेशःभारतम्
१८नर्मदादेवी (अमरकण्टकम्)नितम्बम्अमरकण्टकम्टकम् -शहडोलमध्यप्रदेशःभारतम्
१९काळी (शोणदेशः)---शोणदेशःमध्यप्रदेशःभारतम्
२०अवन्तीदेवी (भैरवपर्वतः)ओष्ठस्य उपरितनः भागःउज्जायिनीमध्यप्रदेशःभारतम्
२१कामाक्षी (काञ्चीपुरम्)मेखलाकञ्चीतमिळ्नाडुभारतम्
२२कन्याकुमारी (कन्याश्रमः)पृष्ठम्कन्याश्रमः(कन्याकुमारी)तमिळ्नाडुभारतम्
२३नारायणी (शुचीन्द्रम्)दंष्ट्राशुचीन्द्रम्तमिळ्नाडुभारतम्
२४श्रीसुन्दरी (श्रीशैलम्)दक्षिणपादस्य आभरणम्श्रीशैलम्आन्ध्रप्रदेशःभारतम्
२५विश्वेश्वरी/माणिक्याम्बा (राजमण्ड्री)कपोलेराजमण्ड्रीआन्ध्रप्रदेशःभारतम्
२६अम्बाजी (अरसुरि)हृदयम्अरसुरीगुजरात्भारतम्
२७चन्द्रभागा (सोमनाथः)उदरम्सोमनाथ(जुनागढ्)गुजरात्भारतम्
२८गायत्री (पुष्करम्)कण्ठाभरणम्पुष्करम्राजास्थानम्भारतम्
२९अम्बिका (विराटनगरम्)वामपादस्य अङ्गुल्यःविराटनगरम्राजास्थानम्भारतम्
३०महामाया (अमरनाथः)कण्ठःअमरनाथःजम्मु तथा काश्मीरम्भारतम्
३१ज्वालामुखी (पठाणकोट्)जिह्वापठाणकोट्हिमाचलप्रदेशःभारतम्
३२विरजादेवी (जाजपुरम्)नाभिःपुरीओडिश्शाभारतम्
३३त्रिपुरसुन्दरी (त्रिपुरा)दक्षिणपादःराधाकिशोरपुर(उदयपुर)त्रिपुराभारतम्
३४कामाख्या (गुवाहटी)योनिःगुवाहटीअस्साम्भारतम्
३५सावित्री (कुरुक्षेत्रम्)मीनखण्डःकुरुक्षेत्रम्हरियाणाभारतम्
३६भ्रामरीदेवी (नासिक्)कपोलेनासिक्महाराष्ट्रम्भारतम्
३७दन्तेश्वरी (दन्तेवाडा)दन्ताःदन्तेवाडाछत्तिसगढभारतम्
३८सुनन्दादेवी (शिकारपुर)नासिकाशिकारपुरबारिसोल्बाङ्ग्लादेशः
३९महालक्ष्मीः (सिल्हट्)कण्ठभागःसिल्हट्सिल्हट्बाङ्ग्लादेशः
४०भवानीदेवी (सीताकुण्डम्)दक्षिणबाहुःसीताकुण्डम्चित्तगाङ्गबाङ्ग्लादेशः
४१अपर्णादेवी (भवानीपुरम्)वामपादस्य नूपुरम्भवानीपुरम्बोग्राबाङ्ग्लादेशः
४२जेस्सोरेश्वरी/यशोरेश्वरी (ईश्वरीपुरम्)हस्तपादौईश्वरीपुरम्सात् खीर्बाङ्ग्लादेशः
४३काळीजयन्तीमाता (भोरबाग्)---भोरबाग्सिल्हट्बाङ्ग्लादेशः
४४महाशिरा ( पशुपतिनाथक्षेत्रम् )जानुनीपशुपतिनाथक्षेत्रम्पशुपतिनाथक्षेत्रम्नेपालदेशः
४५गण्डकीचण्डी (पोखारा)ललाटम्पोखारामुक्तिनाथनेपालदेशः
४६उमादेवी ( मिथिला )वामभुजःमिथिलाजनकपुरम्नेपालदेशः
४७नैनादेवी३नेत्राणिसुक्कूर्कराचीपाकिस्तानम्
४८शाकम्भरीशीशसहारनपुरसहारनपुरभारतम्
४९दाक्षायणीदेवीदक्षिणहस्तःमानससरोवरम्मानससरोवरम्टिबेट्
५०नागपूषणीदेवीपादःजाफ्नाजाफ्नाश्रीलङ्का
५१वाराहीदेवीअधोभागस्य दंष्ट्रापञ्चसागरउत्तराञ्चलम्भारतम्
५२जयदुर्गादेवीकर्णौकर्णाट्(काङ्ग्रा)हिमाचलप्रदेशःभारतम्
हिङ्गोलादेवीमस्तिष्कम्कराचीकराचीपाकिस्तानम्
"https://sa.wikipedia.org/w/index.php?title=५२_शक्तिपीठानि&oldid=463137" इत्यस्माद् प्रतिप्राप्तम्