महिषमर्दिनी (बक्रेश्वरम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


महिषमर्दिनी (बक्रेश्वरम्) एतत् पीठं भारतस्य पश्चिमबङ्गालस्य बदहाममण्डले विद्यमानेषु शक्तिपीठेषु अन्यतमम् ।

सम्पर्कः[सम्पादयतु]

बदहाममण्डलस्य दुब्रजपुररेलनिस्थानकतः सप्त की.मी.दूरे , सीयुडीनगरात् २४ कि.मी. दूरे च अस्ति ।

वैशिष्ट्यम्[सम्पादयतु]

निकटे एव पापहारा नामिका नदी प्रवहति । शिवरात्रिदिने अत्र यात्रामहोत्सवः प्रचलति । दाक्षायिण्याः शरीरं विष्णुः यदा कर्तितवान् तदा देव्याः शरीरस्य भ्रूमध्यभागः अस्मिन् स्थाने पतितानि इति ऐतिह्यम् अस्ति । अत्रत्या देवी महिषमर्दिनी इति नाम्ना पूज्यते ।अत्रत्या देवी रौद्ररूपधारिणी अस्ति । महिषस्य उपरि पादं स्थापितवती अस्ति । देव्या सह स्थितः शिवः वक्रेश्वरः बक्रेश्वरः वक्रनाथः इति च पूज्यते ।

शिवस्य नामविषये काचित् कथा श्रूयते – सत्ययुगे लक्ष्मीनारायणयोः विवाहसमये इन्द्रः असिताङ्गमुनेः अवहेलनं करोति। क्रुद्धस्य मुनेः शरीरस्य नाड्यः अष्टसु स्थानेषु वक्रीभूय ऊनता जाता । अतः सः अष्टावक्रः इति ख्यातः । अतः खिन्नः सः मुनिः अस्मिन् स्थाने दीर्घं तपः आचर्य शिवस्य अनुग्रहं प्राप्तवान् । अतः अत्रत्यः शिवः वक्रनाथः इति प्रसिद्धः।