सामग्री पर जाएँ

अष्टावक्रः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Aṣṭāvakra
अष्टावक्रः
गुरुः/गुरवः Aruni
शिष्याः Janaka, Yajnavalkya
साहित्यिककृतयः Ashtavakra Gita

उद्दालकऋषेः पुत्रस्य नाम श्वेतकेतुः । उद्दालकस्य शिष्यः कहोडः । उद्दालकः स्वशिष्याय कहोडाय समग्रं वेदज्ञानं प्रायच्छत् । ततः स्वस्य रूपवतीं गुणवतीं च कन्यां सुजातां तस्मै अददात् । केषाञ्चन दिनानाम् अनन्तरं सा गर्भवती जाता । कदाचित् कहोडः वेदपाठं यदा कुर्वन् आसीत् तदा गर्भस्थः बालकः अवदत् - 'पितः ! भवान् दुष्टं वेदपाठं कुर्वन् अस्ति' इति । इदं श्रुत्वा क्रुद्धः कहोडः अवदत् - 'गर्भे तिष्ठन् एव भवान् मम अवमाननं कुर्वन् अस्ति । अतः अष्टसु स्थानेषु भवदीयं शरीरं वक्रताम् आप्नोतु' इति ।

अकस्मात् एकस्मिन् दिने कहोडः राज्ञः जनकस्य आस्थानम् अगच्छत् । तत्र 'बन्दी'इत्यनेन सह संवृत्तायां शास्त्रार्थगोष्ठ्यां सः पराजितः जातः । तेन कारणेन सः जले निमज्जितः । अस्याः घटनायाः अनन्तरम् अष्टावक्रस्य जन्म जातम् । पितामहमेव सः पिता इति अमन्यत । मातुलं श्वेतकेतुं सः भ्राता इति अमन्यत । कदाचित् अष्टावक्रः उद्दालकस्य अङ्के उपविष्टः आसीत् । तदा तत्र आगतः श्वेतकेतुः तम् अवदत् - 'मम पितुः अङ्कात् अपसर । अयं न भवतः पिता' इति । इदं श्रुतवतः अष्टावक्रस्य दुःखं जातम् । सः मातुः समीपं गत्वा मम पिता कः इति अपृच्छत् । माता सर्वं वृत्तान्तम् अवदत् ।

मातुः वचनानि श्रुतवान् अष्टावक्रः मातुलेन श्वेतकेतुना सह बन्दिना सह शास्त्रार्थचर्चायै राज्ञः जनकस्य यज्ञशालाम् अगच्छ्त् । तत्रत्याः रक्षकाः तम् अवरुन्धानः अवदन् - 'अत्र बालानां प्रवेशाय अनुमतिः नास्ति ।' अष्टावक्रः अवदत् - 'हे द्वारपाल ! वयसः कारणतः कोपि ज्येष्ठः न भविष्यति । यः वेदज्ञानी, बुद्ध्या वरिष्ठः वर्तते सः भवति ज्येष्ठः' इति । ततः सः जनकस्या आस्थानं प्रविश्य बन्दिनं शास्त्रार्थगोष्ठ्यै आमन्त्रितवान् ।

राजा जनकः अष्टावक्रस्य परीक्षां कर्तुम् इच्छन् तम् अपृच्छत् - 'त्रिंशत् अवयवाः, द्वादश अंशाः, चतुर्विंशतिः पर्वाणि, षष्ठ्यधिकत्रिशतम् अक्षराणि इत्येतैः युक्तस्य वस्तुनः ज्ञानी कः ?' इति । झटिति अष्टावक्रेण उक्तं - 'राजन् ! २४ पक्षैः युक्तः, षडर्तुभिः युक्तः, १२ मासैः युक्तः ३६० दिनैः युक्तः संवत्सरः भवतः रक्षणं करोतु' इति । अष्टावक्रेण दत्तं समीचीनम् उत्तरं श्रुत्वा राजा जनकः पुनः अपृच्छत् - 'सः कः यः सुप्तावस्थायामपि नेत्रनिमीलनं न करोति ? जन्मनः अनन्तरमपि कः चलने असमर्थः तिष्ठति ? कः हृदयविहीनः ? कः वेगेन वर्धते ?' इति । अष्टावक्रः अवदत् - 'हे जनक ! सुप्तावस्थायामपि मीनः नेत्रं न निमीलयति । जन्मनः अनन्तरमपि सस्यं न चलति । शिला हृदयहीनः अस्ति । वेगेन नदी वर्धते' इति ।

अष्टावक्रेण दत्तैः उत्तरैः प्रसन्नः राजा जनकः बन्दीवर्येण सह शास्त्रार्थचर्चायै अनुमतिम् अयच्छत् । अष्टावक्रः अवदत् - 'एकः एव सूर्यः जगति प्रकाशते । देवराजः इन्द्रः एकमेवाद्वितीयः वीरः । यमराजः अपि एकः एव' इति । अष्टावक्रः अवदत् - 'इद्रः अग्निदेवः च देवते स्तः । नारद-पर्वतौ उभौ देवर्षी, अश्विनीकुमारौ उभौ स्तः । रथस्य उभौ चक्रौ, पतिपत्न्यौ सहचरौ भवतः' इति । बन्दी अवदत् - 'जीवनं त्रिधा जन्म धरति । कर्माणां प्रतिपादनं त्रिभिः वेदैः क्रियते । त्रिषु अपि कालेषु यज्ञकार्याणि चलन्ति । अपि च त्रयः लोकाः त्रीणि ज्योतींषि च सन्ति' इति । अष्टावक्रेण उक्तम् - 'चत्वारः आश्रमाः विद्यन्ते । वर्णाः, दिशाः च चत्वारः । ओङ्कारः, अकारः, उकारः, मकारश्च वाणी चतुर्विधः' इति । बन्दी अवदत् - 'यज्ञं पञ्च विधं भवति । यज्ञस्य अग्निः भवति पञ्च, ज्ञानेन्द्रियाणि पञ्च, पञ्च दिक्षु विद्यमानाः अप्सरसः पञ्च, पवित्राः नद्यः पञ्च' इति । अष्टावक्रः अवदत् - 'दक्षिणारूपेण षण्णां धेनूनां दानम् उत्तमं मन्यते । षडृतवः सन्ति । मनः संयोज्य षड इन्द्रियाणि सन्ति । कृत्तिका, साधस्कश्च षड् भवन्ति । बन्दी अवदत् - 'पाल्यपशवः सप्त सन्ति चेत् उत्तमम्, वन्यपशवः अपि सप्त स्युः । सप्तर्षयः सन्ति, वीणायां सप्त तन्तवः भवन्ति' इति । अष्टावक्रः अवदत् - 'अष्ट वसवः भवन्ति, यज्ञस्य स्तम्भककोणानि अष्ट भवन्ति' इति । बन्दी अवदत् - 'पितृयज्ञे नव समिधाः भवन्ति, प्रकृतिः नवप्रकारकः भवति । बृहती छन्दसि नव अक्षराणि भवन्ति' इति । अष्टावक्रः अवदत् - 'दिशाः दश, तत्त्वज्ञाः दश भवन्ति, बालाः दशमे मासे जायन्ते' इति । बन्दी अवदत् - 'एकादश रुद्राः भवन्ति, यज्ञे एकादश स्तम्भाः भवन्ति, पशूनाम् एकादश इन्द्रियाणि भवन्ति' इति । अष्टावक्रः अवदत् - 'द्वादश आदित्याः भवन्ति । प्रकृतियज्ञः द्वादशदिनात्मकः भवति । जगती छन्दसि द्वादश अक्षराणि भवन्ति । वर्षे द्वादश मासाः भवन्ति' इति । बन्दी - 'त्रयोदशी उत्तमा भवति, पृथिव्यां त्रयोदश....' इति वदन् श्लोकस्य अग्रिमां पङ्क्तिं विस्मृतवान् । ततः अष्टावक्रः श्लोकं पूर्णीकृत्य अवदत् - 'वेदे त्रयोदशभिः अक्षरैः युक्तं छन्दः अतिछन्दः इति कथ्यते । अग्नि-वायु-सूर्यः च त्रयोदशदिनात्मके यज्ञे व्याप्ताः भवन्ति' इति ।

एवं प्रकारेण शास्त्रार्थचर्चायां बन्दी पराजितः जातः इत्यतः अष्टावक्रः अवदत् - 'राजन् ! अयं पराजितः इत्यतः एषः जले मज्जनीयः' इति । तदा बन्दी अवदत् - 'महाराज ! अहं वरुणस्य पुत्रः अस्मि । मत्तः पराजयं प्राप्तवतः सर्वान् अपि अहं मम पितुः समीपं प्रेषितवान् अस्मि । अधुना तान् सर्वान् अपि अहं भवतः पुरतः उपस्थापयिष्यामि' इति । अचिरात् पराजयं प्राप्य जले निमग्नाः सर्वे पण्डिताः उपस्थिताः जाताः यस्मिन् गणे अष्टावक्रस्य पिता कहोडः अपि आसीत् ।

अष्टावक्रः पितरं चरणस्पर्षपूर्वकं नमस्कृतवान् । तदा प्रसन्नः कहोडः अवदत् - 'पुत्र ! भवान् समङ्गनद्यां स्नानं करोतु । तस्य प्रभावेण भवान् मम शापात् मुक्तः भविष्यति' इति । समङ्गानद्यां स्नात्वा आगतवतः अष्टावक्रस्य सर्वाणि अङ्गानि समङ्गानि जातानि ।

अष्टावक्रगीता अद्वैतवेदान्तस्य महत्त्वपूर्णः ग्रन्थः विद्यते ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=अष्टावक्रः&oldid=312711" इत्यस्माद् प्रतिप्राप्तम्