दीर्घतमाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
दीर्घतमाः
Information
Family उतच्यः (पिता) ममता (माता) भरद्वाजः (सोदरः)
भार्या(ः)/भर्ता प्रद्वेषी
अपत्यानि गौतमादयः
धर्मः हिन्दू

दीर्घतमाः कश्चन प्रसिद्धः ऋषिः। एतस्य तत्त्वबोधकाः मन्त्राः प्रसिद्धाः। दीर्घतमाः ऋग्वेदस्य प्रथममण्डले १४० तः १६५ मन्त्राणां द्रष्टा। दीर्घतमाः मामतेयः इत्यपि प्रसिद्धः विद्यते।

पृष्ठभूमिका[सम्पादयतु]

दीर्घतमाः अङ्गीरसः शिष्येषु अन्यतमः। अतः अयम् आङ्गिरसः ऋषिः। अङ्गीरसऋषयः प्राचीनऋषिषु अन्यतमाः। दीर्घतमाः भरद्वाजस्य सोदरः अपि वर्तते। भरद्वाजस्तु ऋग्वेदस्य षष्ठमण्डलस्य द्रष्टा। दीर्घतमाः गौतममुनिपरिवारस्य पूर्वजः इत्यपि परिगण्यते। गौतमपरिवारे एव कक्षिवान्, नोधाः, वामदेवः (ऋग्वेदस्य चतुर्थमण्डलस्य द्रष्टा) च समभवन्। दीर्घतमसा दृष्टाः १५० तः १००० मन्त्राः ऋग्वेदे सन्ति। क्वचित् उपनिषत्सु अपि दीर्घतमसा दृष्टाः मन्त्राः दृश्यन्ते।

दीर्घतमाः राज्ञः भरतस्य प्रधानः पुरोहितः आसीत् इति ऐतरेयब्राह्मणे उक्तम्। भरतस्तु भारतस्य प्राचीनराजसु अन्यतमः, यस्य कारणतः देशस्य नाम भारतम् इत्यभवत्।

जन्म[सम्पादयतु]

दीर्घतमसः जन्मवृत्तान्तः महाभारते आदिपर्वणि शान्तिपर्वणि च वर्णितः। दीर्घतमाः उतच्यस्य पुत्रः आसीत्। उतच्यः स्वपत्न्यां ममतायां गर्भं धत्तवान्। यदा शिशुः गर्भे आसीत् तदा एव देवमायया ममतायाः समीपे बृहस्पतिरागतः। तदानीं ममतायाः गर्भः इत्थम् अवदत् "अहं पूर्वम् अत्र आगतः अस्मि। अत्र पुनः कोऽपि प्रवेष्टुं न शक्नोति। अतः बृहस्पते! त्वं प्रतिनिवर्तस्व" इति। गर्भस्य वचनं श्रुत्वा क्रुद्धः बृहस्पतिः तम् इत्थं अशपत्।

मैथुनोपगतो यस्मात्त्वयाहं विनिवारितः ।
तस्मादन्धो जास्यसि त्वं मच्छापान्नात्र संशयः ॥[१]

(मैथुनाय समागतं मां मैथुनकाले विनिवारितवान्। इदम् असमीचीनम्। अतः भवान् जन्मनः प्रभृति अन्धः एव भविष्यति।)

जीवनम्[सम्पादयतु]

स दीर्घतमाः अन्धः सन्नपि सर्वान् वेदान् वेदाङ्गानि च अधीतवान्। उतच्यस्य अनुग्रहात् सर्वज्ञत्वं च समपादयत्। प्रध्वेषिणी इति कन्यया सह दीर्घतमसः विवाहोऽपि सञ्जातः। प्रद्वेषिण्याम् गौतमादयः पुत्राः दीर्घतमसः समभवन्। परन्तु प्रद्वेषी सर्वादा अपि दीर्घतमसि क्रुध्यति स्म। कदाचित् सा पत्न्यादीनां पालनस्य उत्तरदायित्वम् दीर्घतमाः न निर्वहति इत्युक्त्वा तं गङ्गाप्रवाहे निक्षिप्तवती(अस्मिन् कर्मणि पुत्राणां साहाय्यम् आसीत्)। गङ्गाप्रवाहात् चन्द्रवंशस्य राजा बलिः दीर्घतमसम् उद्धृतवान्। बलेः पुत्राः नासन्। बलेः पत्न्यां सुदेष्णायां दीर्घतमसः अङ्गः, वङ्गः, कलिङ्गः, सुह्मः, पुण्ढ्रः अन्ध्रः इति पुत्राः अभवन्। सुदेष्णायाः दास्यां कक्षीवदादयः एकादश पुत्राः जाताः।[२] ततः केशव इति नाम्नः जपं दीर्घतमाः आचरितवान्। तस्माद् हेतोः दृष्टिं समपादयत्।[१]। दीर्घतमसः अनुजः एव भरद्वाजः। अयं बृहस्पतेः ममतायां सञ्जातः।[३]

मन्त्राः[सम्पादयतु]

अनेकेषां प्रसिद्धानां मन्त्राणां दृष्टा दीर्घतमाः। एकं सद्विप्रा बहुधा वदन्ति इत्यस्य प्रसिद्धः ऋग्वेदमन्त्रः दीर्घतमसा दृष्टः। वृत्ते ३६० डिग्रि भवन्ति इति अंशः अपि दीर्घतमसा दृष्टे मन्त्रे विद्यते इति विदुषाम् अभिप्रायः[उद्धरणं वाञ्छितम्]ऋग्वेदस्य प्रथमे मण्डले दीर्घतमसा अयं मन्त्रः दृष्टः।

उपस्तुतिरौचथ्यमुरुष्येन्मा मामिमे पतत्रिणी वि दुग्धाम् ।
मा मामेधो दशतयश्चितो धाक्प्र यद्वां बद्धस्त्मनि खादति क्षाम् ॥
न मा गरन्नद्यो मातृतमा दासा यदीं सुसमुब्धमवाधुः ।
शिरो यदस्य त्रैतनो वितक्षत्स्वयं दास उरो अंसावपि ग्ध ॥[४]

एतेन मन्त्रेण प्रभाविताः भारतीयाः शवस्य दाहनं विहाय खननम् आरब्धवन्तः इति पाश्चात्यविद्वांसः अभिप्रयन्ति। [उद्धरणं वाञ्छितम्]

उल्लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=दीर्घतमाः&oldid=447960" इत्यस्माद् पुनः प्राप्तिः