कामाख्या (गुवाहटी)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कामाख्या देवी मन्दिरम्
कामाख्या देवी मन्दिरम्
भौगोलिकस्थितिः: २६°०९′५९″उत्तरदिक् ९१°४२′२०″पूर्वदिक् / 26.166426°उत्तरदिक् 91.705509°पूर्वदिक् / २६.१६६४२६; ९१.७०५५०९
नाम
इतरनामानि: Shakti Peeth
शुद्धनाम: Kamakhya Temple
अवस्थितिः
देशः: India
राज्यम्: Assam
मण्डलम्: Kamrup
अवस्थितिः: Nilachal Hill, Guwahati
स्थापत्यकला संस्कृतिश्च
मुख्यदेवः/देवी: Kamakhya
प्रमुखोत्सवः: Ambubachi Mela
स्थापत्यशैली: Stone architecture
मन्दिराणि: 6
स्मारकानि: 6
इतिहासः
निर्माणदिनाङ्कः:
(वर्तमानप्रारूपम्)
1564-63
स्रष्टा:

First - Prehistoric, Second - During Varman period

and current second structure above ancient base - Chilarai

कामाख्या (गुवहाटी)- एतत् शक्तिपीठं भारतस्य असमराज्यस्य गुवाहाटीनगरे अस्ति कामाख्याक्षेत्रम् । एतत् शक्तिपीठं विश्वासाचारयोः मेलनस्य प्रतीकम् इति वक्तुं शक्नुमः । यतः शक्तिपथस्य मूलम् अस्ति योनिपूजा । सा पूजा अत्र अक्षरशः आचरणे अस्ति । अत्र वामाचारस्य बलिपूजा तथा कौलपूजा प्रचलति ।

सम्पर्कः[सम्पादयतु]

गुवहाटी नगरं प्रति देशस्य नानाभागेभ्यः सम्पर्कः अस्ति । गुवाहटीतः ७ की.मी.दूरे नीलाचलपर्वते अस्ति । समीपस्थं विमानस्थानकं गुवाहटी । समीपरेलस्थानकं नीलाचलम्।

वैशिष्ट्यम्[सम्पादयतु]

ऐतिह्यानुसारम् अत्र सतीदेव्याः योनिभागः पतितः इति विश्वासः । अत्रत्या देवी त्रिपुरसुन्दरी, त्रिपुरभैरवी, ललिताम्बा इत्यादिभिः नामभिः, अत्रत्यशिवः उमानन्दनाम्ना च पूज्यते । अस्य मन्दिरस्य अपरं वैशिष्ट्यं नाम भक्ताः अत्र स्वयं पूजां कर्तुं शक्नुवन्ति । अत्र प्राणिबलिः प्रचलति । किन्तु पुम्मृगान् एव बलिरूपेण अर्पयन्ति । अस्य क्षेत्रस्य विषये काचित् कथा प्रचलिता अस्ति ।

कथा[सम्पादयतु]

बहुपूर्वं कौचित् राजकुमारौ मृगयार्थम् आगतवन्तौ आस्ताम् । पिपासितौ तौ अत्रत्यां काञ्चित् वृद्धां जलं दातुं प्रार्थितवन्तौ । सा वृद्धा समीपस्थं निर्झरं प्रदर्श्य "अस्मिन् प्रदेशे देव्याः योनिभागः पतितः आसीत् । अत्र देवालयस्य निर्माणं कुरुताम्” इति संसूच्य अदृश्या अभवत् । राजकुमारौ तस्य स्थलस्य परिशीलनं क्रुतवन्तौ । योनिरूपस्य शिला तस्मिन् निर्झरे दृष्टा । शिलां परितः जलं प्रवहति स्म । चकितौ तौ तत्र मन्दिरस्य निर्माणं कृतवन्तौ ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कामाख्या_(गुवाहटी)&oldid=473533" इत्यस्माद् प्रतिप्राप्तम्