महाशिरा ( पशुपतिनाथक्षेत्रम् )

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


महाशिरा ( पशुपतिनाथक्षेत्रम् ) एतत् शक्तिपीठं नेपालदेशस्य काठ्मन्डुसमीपे पशुपतिनाथक्षेत्रस्य समीपे अस्ति ।

सम्पर्कः[सम्पादयतु]

एतत् स्थानं प्रति भारतस्य बिहारराज्यतः बसयानसौकर्यं सम्यक् अस्ति । अथवा देहलीतः विमानेन आगन्तुं शक्यते । समीपस्थं विमाननिस्थानकं काठ्मण्डु ।

वैशिष्ट्यम्[सम्पादयतु]

पशुपतिनाथक्षेत्रस्य समीपे विद्यमाने गुहेश्वरीसन्निधाने देव्याः द्वे जानुनी पतिते इति ऐतिह्यम् अस्ति । अत्रत्या देवी महाशिरा इति पूज्यते । अत्रत्यशिवः कपालीनाम्ना पूज्यते । अत्र पूर्वं शासनं कुर्वन् राजा प्रतापमल्लः अस्य मन्दिरस्य निर्माणं कारितवान्। सरलभूटानीपगोडाशैल्या(गोपुरम्) निर्मितम् अस्ति एतस्य मन्दिरस्य बाह्यस्वरूपं न तथा आकर्षकम् । ऐतिह्यानुसारं पशुपतिनाथः यदा मृगयार्थं गतवान् तदा तस्य योगक्षेमं चिन्तयन्ती सतीदेवी तम् अनुसृत्य अत्रैव स्थितवती । काचित् अन्या जनश्रुतिः अपि एवम् अस्ति – "अत्र देव्याः योनिभागः पतितः। अतः एवा एतां गुह्येश्वरी इत्यपि अभिजानन्ति” इति ।