सुनन्दादेवी (शिकारपुर)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


सुनन्दादेवी (शिकारपुर) एतत् शक्तिपीठं बाङ्ग्लादेशस्य बारीसाल्नगरस्य समीपे शिकारपुर इत्यत्र अस्ति ।

सम्पर्कः[सम्पादयतु]

बारीसाल् नगरात् २० की.मी.दूरे सोन्दानदीतीरे अस्ति । बाङ्ग्लादेशस्य राजधान्याः ढाकातः वाहनसौकर्याणि उत्तमानि सन्ति । तथापि नौकया गमनं वरम् ।

वैशिष्ट्यम्[सम्पादयतु]

ऐतिह्यानुसारम् अत्र सतीदेव्याः नासिका पतिता इति विश्वासः । अत्रत्या देवी सुनन्दादेवी इति पूज्यते । अत्रत्यशिवः त्र्यम्बकनाम्ना पूज्यते । एतस्य गोपुरं गोलाकारशैल्या अस्ति । देवालये स्थिता देवी इत्यपि आहूयते । मार्चमासे शिवचतुर्दशीदिने अत्र असङ्ख्याकाः शिवभक्ताः आगत्य दर्शनं प्राप्नुवन्ति । केचन शिवाराधकाः अत्र शिवोपासनां कुर्वति।