भ्रामरीदेवी (नासिक्)
दिखावट
भ्रामरीदेवी (नासिकम्)
एतत् शक्तिपीठं भारतस्य महाराष्ट्रराज्यस्य नासिकमण्डले जनस्थाने अस्ति ।
सम्पर्कः
[सम्पादयतु]नासिकनगरात् गोदावरीनद्याः तीरम् आगत्य एतत् स्थानं प्राप्तुं शक्यते । मुम्बयीनगरात् बसयानसौकर्यं सम्यक् अस्ति । समीपस्थं विमानस्थानकं नासिक् । एतत् प्रमुखं वाणिज्यकेन्द्रम् अपि ।
वैशिष्ट्यम्
[सम्पादयतु]ऐतिह्यानुसारम् अत्र सतीदेव्याः कपोलौ पतितौ इति विश्वासः । अत्रत्या देवी भ्रामरी तथा धारादेवीनाम्ना अत्रत्यशिवः विकृतेशनाम्ना पूज्यते । (एतस्य शक्तिपीठास्य विषये भिन्नाभिप्रायाः सन्ति । केषाञ्चनमतानुसारं प्राचीननासिकनगरस्य भद्रकालीमन्दिरम् एव शक्तिपीठम्) । समीपे एव पञ्चवटीप्रदेशः अस्ति । अत्र काळाराम इत्यत्र शिवस्य गुहामन्दिरम् अस्ति । एतत् शिवलिङ्गं रामः सपरिवारं पूजितवान् इति कथा अस्ति । स्थलपुराणानुसारं रामः खरं दूषणं १४००० राक्षसान् च अत्रैव संहृतवान् ।