भ्रामरीदेवी (नासिक्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भ्रामरीदेवी (नासिकम्) एतत् शक्तिपीठं भारतस्य महाराष्ट्रराज्यस्य नासिकमण्डले जनस्थाने अस्ति ।

सम्पर्कः[सम्पादयतु]

नासिकनगरात् गोदावरीनद्याः तीरम् आगत्य एतत् स्थानं प्राप्तुं शक्यते । मुम्बयीनगरात् बसयानसौकर्यं सम्यक् अस्ति । समीपस्थं विमानस्थानकं नासिक् । एतत् प्रमुखं वाणिज्यकेन्द्रम् अपि ।

वैशिष्ट्यम्[सम्पादयतु]

ऐतिह्यानुसारम् अत्र सतीदेव्याः कपोलौ पतितौ इति विश्वासः । अत्रत्या देवी भ्रामरी तथा धारादेवीनाम्ना अत्रत्यशिवः विकृतेशनाम्ना पूज्यते । (एतस्य शक्तिपीठास्य विषये भिन्नाभिप्रायाः सन्ति । केषाञ्चनमतानुसारं प्राचीननासिकनगरस्य भद्रकालीमन्दिरम् एव शक्तिपीठम्) । समीपे एव पञ्चवटीप्रदेशः अस्ति । अत्र काळाराम इत्यत्र शिवस्य गुहामन्दिरम् अस्ति । एतत् शिवलिङ्गं रामः सपरिवारं पूजितवान् इति कथा अस्ति । स्थलपुराणानुसारं रामः खरं दूषणं १४००० राक्षसान् च अत्रैव संहृतवान् ।

"https://sa.wikipedia.org/w/index.php?title=भ्रामरीदेवी_(नासिक्)&oldid=388918" इत्यस्माद् प्रतिप्राप्तम्