श्राद्धम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
श्राद्धकर्म

श्राद्धकर्म हिन्दूधर्मस्य अनुसारं, प्रत्येकं शुभकार्यस्य प्रारम्भे पितृभ्यः, पूर्वजेभ्यः च नमस्कारम् उत प्रणामं कर्तुम् आचर्यते। पूर्वजानां वंशपरम्परायाः कारणेन एव सन्ततिः अद्य एतत् जीवनं पश्यति। एतस्य जीवनस्य आनन्दं प्राप्नोति च। एतस्मिन् धर्मे ऋषयः वर्षे एकं पक्षं पितृपक्षस्य कृते निश्चितवन्तः, यस्मिन् पक्षे सन्ततिः स्वपितॄणां श्राद्धं, तर्पणं च कृत्वा तेषां मुक्तिहेतवे विशेषक्रियाः कृत्वा तेभ्यः अर्घ्यं समर्पयन्ति। यदि केनापि कारणेन तेषाम् आत्मा मुक्तिं न प्रापत्, तर्हि सन्ततिः तेषां शान्त्यै विशिष्टकर्म करोति, यत् 'श्राद्ध' इति प्रसिद्धम्। वसु-रुद्र-आदित्य-श्राद्धस्य देवताः मन्यन्ते।

व्याख्या[सम्पादयतु]

ब्रह्मपुराणे श्राद्धस्य परिभाषाः प्रदत्ताः सन्ति। 'यत्किमपि उचितकालस्य, पात्रस्य, स्थानस्य अनुसारम् उचितेन (शास्त्रानुमोदितेन) विधिना पितृभ्यः लक्ष्यीकृत्य श्रद्धापूर्वकं ब्राह्मणेभ्यः दीयते, तत् श्राद्धम् इति उच्यते।'

देशे काले च पात्रे च श्रद्धया विधिना च यत्।

पितृनुद्दिश्य विप्रभ्यों दत्तं श्राद्धमुदाह्रतम्।।[१]

मिताक्षरा मध्ये प्राप्यते –

'श्राद्धं नाम्तदनीयस्य तत्स्यानीयसय वा द्रव्यस्य प्रेतोद्देशेन श्रद्धया त्यागः।'[२]

श्राद्धकल्पतरुः मध्ये एतादृशम् उच्यते –

'एतेन पितृनुद्दिश्य द्रव्योत्यागो ब्राह्मणस्वीकरणपर्यन्तं श्राद्धस्वरूपं प्रधानम्।'[३]

श्राद्धक्रियाकौमुद्याः कथनमस्ति –

'कल्पतरुलक्षणमय्यनुर्वादय सन्यासिनामात्मश्राद्धे देवश्राद्धे सनकादिश्राद्धे चाव्याप्ते:।'[४]

श्रीदत्तकृत-पितृभक्तौ प्राप्यते –

'अत्र कल्पतरुकार: पितृनुद्दिश्य द्रव्यपातो ब्राह्मणस्वीकरणपर्यन्ती हि श्राद्धमित्याह तदयुक्तम्।'

दीपकलिका (याज्ञवल्क्यस्मृतिः 1/128) कल्पतरोः मतम् अङ्गीकरोति। श्राद्धविवेकः निम्नतया कथयति –

'श्राद्धं नाम वेदवोधितपात्रम्भनपूर्वकप्रमीतपित्रादिदेवतोद्देश्यको द्रव्यत्यागविशेष:।'[५]

श्राद्धप्रकाशः कथयति यत् –

'अत्रापस्तम्बादिसकलवचनपर्यालोचनया प्रमीतमात्रोद्देश्यकान्नत्यागविशेषस्य ब्राह्मणद्यधिककरण प्रतिपत्त्ययंगकस्य श्राद्धपदार्थत्वं प्रतीययते।'[६]

श्राद्धविवेकस्य कथनम् अस्ति यत्, 'द्रव्यत्यागः' वेदस्य शब्दद्वारा विहितम् (वेदबोधतम्) अस्ति। त्यक्तवस्तु सुपात्राय ब्राह्मणाय (पात्रालम्भनपूर्वकं) दीयते। श्राद्धप्रकाशे 'प्रतिपत्ति'शब्दस्य अर्थः अस्ति यत्, यज्ञे प्रयुक्तस्य कस्यापि वस्तोः अन्तिमपरिणतिः, यथा - दर्शपूर्णमासयज्ञे 'सह शाखया प्रस्तरं प्रहरति' वाक्यं प्राप्यते। अत्र 'शाखाप्रहरणं' 'प्रतिपत्तिकर्म' अस्ति,[७] न तु अर्थकर्म। एवम् आहिताग्निना सह तस्य यज्ञपात्राणाम् अपि दाहप्रतिपत्तिकर्म अस्ति (अनेन सह यज्ञपात्राणां सम्बन्धः अस्ति)।

मिताक्षरा[८] श्राद्धं निम्नतया परिभाषितं करोति - 'पितॄणाम् उद्देश्यं (तेषां कल्याणाय) श्राद्धापूर्वकं कस्यापि वस्तोः उत तत्सम्बद्धस्य द्रव्यस्य त्यागः एव श्राद्धम् इति उच्यते।' कल्पतरोः परिभाषा निम्नानुसारम् अस्ति, 'पितॄन् उद्देश्य (तेषां लाभाय) यज्ञीयवस्तोः त्यागद्वारा, ब्राह्मणद्वारा च तस्य ग्रहणप्रधानः श्राद्धस्वरूपः अस्ति।' इति। रुद्रधरस्य श्राद्धविवेकः, श्राद्धप्रकाशः च मिताक्षरास्य मतम् एव पुष्टयति, किन्तु तत्र परिभाषा मिश्रिता अस्ति। याज्ञवल्क्यस्मृतेः[९] कथनम् अस्ति यत्, पितरः, यथा–वसुः, रुद्रः, आदित्यः च। एताः श्राद्धस्य देवताः सन्ति, श्राद्धात् सन्तुष्टिं प्राप्य मानवानां पूर्वपुरुषेभ्यः ते सन्तुष्टिं प्रयच्छन्ति। एतत् वचनं मनोः[१०] उक्तिं स्पष्टयति यत्, मनुष्यस्य त्रयः पूर्वजाः, यथा – पिता, पितामहः, प्रपितामहः क्रमशः पितृ-देवाः, अर्थात् वसूनां, रुद्राणां च आदित्यवत् सन्ति। श्राद्धसमये पूर्वजानां प्रतिनिधयः मन्यन्ते। केषाञ्चन मते श्राद्धेन निम्नविषयाणां निर्देशः भवति - होमः, पिण्डदानं, ब्राह्मणतर्पणः (ब्राह्मणसंतुष्टिभोजनादिना); किन्तु श्राद्ध-शब्दस्य प्रयोगः एतैः सह गौणार्थे उपयुक्तः मन्यते।

श्राद्धं पितरश्च[सम्पादयतु]

श्राद्धस्य पितृभिः सह अविच्छिन्नः सम्बन्धः अस्ति। पितॄन् विना श्राद्धस्य कल्पना भवितुं नार्हति। श्राद्धं पितृभ्यः आहारं प्रेषयितुं किमपि माध्यमम् अस्ति। मृतजनाय यत्किमपि श्रद्धायुक्ततया तर्पणं, पिण्डं, दानं च भवति, तदेव श्राद्धत्वेन परिगण्यते। यस्य 'मृतजन'स्य एकवर्षं यावत् सर्वाणि और्ध्वदैहिकक्रियाकर्माणि सम्पन्नानि भवन्ति, तस्य एव 'पितृ'-संज्ञा भवति।

श्राद्धम् इत्युक्ते किम्?[सम्पादयतु]

श्राद्धप्रथा वैदिककालोत्तरम् आरब्धा। उचितसमये शास्त्रसम्मतविधिद्वारा पितृभ्यः श्रद्धाभावेन मन्त्रैः सह यत् दियते (दान-दक्षिणा-आदि), तदेव श्राद्ध-नामकं भवति। 20 अंशरेतसः (सोम) 'पितृॠण'म् इत्युच्यते। 28 अंशरेतसरूपेण 'श्रद्धा'-नामकेन मार्गेण प्रेष्यमाणादीनां 'पिण्डानां', 'जलादीनां' च दानम् एव श्राद्धम् इत्युच्यते। एतस्य श्रद्धायुक्तमार्गस्य सम्बन्धः मध्याह्नकाले श्राद्धस्य विधानेन सह अस्ति।

श्राद्धं किमर्थम्[सम्पादयतु]

प्रत्येकं जनस्य त्रयः पूर्वज-पितरः पिता, पितामह, प्रपिता च क्रमशः वसोः, रुद्रस्य, आदित्यस्य च समानाः सन्ति। श्राद्धस्य समये ते एव अन्येषां सर्वेषां पूर्वजानां प्रतिनिधयः मन्यन्ते। एवं मन्यते यत्, ते श्राद्धकर्तॄणां शरीरे प्रवेशं कृत्वा योग्यतया परम्परानुसारं कृतात् श्राद्ध-कर्मणः तृप्ताः भूत्वा ते स्ववंशधरेभ्यः सपरिवारस्य सुख-समृध्देः, स्वास्थ्यस्य च आर्शीवादान् यच्छन्ति। श्राद्ध-कर्मणि उच्चारितमन्त्रान्, आहुतीः च ते अन्यान् सर्वान् पितॄन् यावत् नयन्ति।

श्राद्धस्य प्रकारः[सम्पादयतु]

श्राद्धस्य त्रयः प्रकाराः सन्ति -

  • नित्यम् - एतत् श्राद्धदिनेषु मृतकस्य निधनस्य तिथौ क्रियते।
  • नैमित्तिकम् - विशेषेषु पारिवारिकेषु उत्सवावसरेषु, यथा - पुत्रजन्मदिने पितॄणां स्मरणम्।
  • काम्यम् - एतत् श्राद्धं मानतायै कृतिका-नक्षत्रे उत रोहिणी-नक्षत्रे भवति।

श्राद्धानुपयोगितायाः खण्डनम्[सम्पादयतु]

नन्दपण्डितकृतं श्राद्धकल्पं (अनुमानितया 1600 ई.) विरोधिनां (नास्तिकानां) विरोधस्य विस्तृततया प्रत्युत्तरं प्रयच्छति। नास्तिकानां कथनम् अस्ति यत्, पितृभ्यः स्वविशिष्टकर्मणाम् अनुसारं स्वर्गस्य उत नरकस्य उत अन्यस्थितेः प्राप्तिः भवति, अतः श्राद्धसम्पादनस्य कोऽपि अर्थः एव नास्ति इति। नन्द-पण्डितः पृच्छति यत् – १) 'श्राद्धं किमर्थम् अनुपयोगि अस्ति?'

२) यतः एतस्य सम्पादनस्य अपरिहार्यतायै किमपि व्यवस्थितं विधानं नास्ति? उत

३) यतः श्राद्धात् फलानां प्राप्तिः न भवति?

४) यतः सिद्धं नास्ति यत्, पितृगणः श्राद्धेन सन्तुष्टिं प्राप्नोति उत न?

प्रथमप्रश्नस्य उत्तरम् अस्ति यत्, 'विज्ञजनैः स्वशक्त्यनुसारं श्राद्धकर्म अवश्यमेव करणीयं भवति' – एतादृशानि वचनानि श्राद्धस्य अनिवार्यतां घोषयन्ति। एवं प्रकारेण द्वितीयविरोधः अपि अनुचितः अस्ति, यतः याज्ञवल्क्यस्मृतिः[११] श्राद्धफलम् अपि घोषयति। यथा - दीर्घजीवनादिकम्। एवमेव प्रकारेण तृतीयविकल्पः अपि स्वीकारयोग्यः नास्ति। श्राद्धकृत्येषु एवं नास्ति यत्, केवलं 'देवदत्त'-आदि-नामयक्तः पूर्वजः एव प्राप्तिकर्ता भवति। स एव पिता, पितामहः, प्रपितामहः इत्येतैः शब्दैः लक्षितः भवति। प्रत्युत वसु-रुद्र-आदित्यानां तानि नामानि अधीक्षकदेवताभिः सह द्योतितानि भवन्ति। यथा देवदत्तादिभिः शब्दैः यत् लक्षितं भवति, तैः न केवलं शरीराणाम् (यथा नामानि दत्तानि सन्ति), अपि तु आत्मनाम् अपि द्योतनं कुर्वन्ति। प्रत्युत तत् शरीरेभ्यः विशिष्टिकृतस्य व्यक्तिगतस्य आत्मनः परिचायकम् अस्ति। एवं पितृ-आदि-शब्दः अधीक्षकदेवताभिः (वसुः, रुद्रः, आदित्यः) सह 'देवदत्त'स्य, अन्येषां च सम्मिलितरूपेण द्योतनं कारयति। अतः वस्वादि अधीक्षकदेवतागणः पुत्रादिद्वारा प्रदत्तेभ्यः भोजन-पानेभ्यः सन्तुष्टाः भूत्वा तेभ्यः, अर्थात् देवदत्तादिभ्यः सन्तुष्टान् कुर्वन्ति। श्राद्धकर्त्रे सन्ततिः, पुत्रं, जीवनं, सम्पत्तिः आदिकं फलत्वेन प्रयच्छन्ति। यथा गर्भवती माता देहादरूपेण (गर्भवतीदशायां स्त्रिणां विशिष्टेच्छा) अन्यजनैः मधुर-अन्न-पानादिद्वारा स्वयं सन्तुष्टिं प्राप्नोति, गर्भस्थितबालम् अपि सन्तुष्टिं प्रयच्छति, तथैव दोहद-अन्नादिकं प्रदायकाय प्रत्युपकारकफलं प्रयच्छति, तथऐव पितृशब्देन द्योतितः पिता, पितामहः, प्रपितामहः वसोः, रुद्राणां, आदित्यानां च रूपाणि सन्ति, ते केवलं मानवरूपे उच्यमानानां देवदत्तादीनां समानाः न सन्ति। अनेन एव एषः अधिष्ठाता देवतागणः श्राद्धे कृतानां दानादीनां प्राप्तिकर्ता भवति, श्राद्धेन तर्पितः (सन्तुष्टः) भवति, एवञ्च मनुष्यस्य पितॄन् सन्तुष्टान् करोति।[१२] श्राद्धकल्पलता मार्कण्डयपुराणात् १८ श्लोकानाम् उद्धरणं ददाति। यथा गोवत्सः गोषु विद्यमानां स्वमातरं परिचिनोति, तथैव श्राद्धे उक्ताः मन्त्राः प्रदत्तभोजनं पितॄन् यावत् प्रापयन्ति।

यथा गोषु प्रनष्टासु वत्सो विन्दति मातरम्। तथा श्राद्धेषु दृष्टान्तो (दत्रान्नं) मंत्र: प्रापयते तु तम्।।[१३] [१४]

श्राद्धाय अर्हता[सम्पादयतु]

साधारणतः पुत्र एव स्वपूर्वजानां श्राद्धं करोति। किन्तु शास्त्रानुसारं तादृशी प्रत्येकं व्यक्तिः, या मृतकस्य सम्पत्तेः किमपि प्राप्नोति, मृतकं प्रति आदरभावं धारयति, तस्याः व्यक्तेः स्नेहवशः श्राद्धं कर्तुं शक्नोति। विद्यायाः वंशानुसारम् अपि लाभं प्राप्तकर्ता छात्रः अपि स्वदिवङ्गतस्य गुरोः श्राद्धं कर्तुं प्रभवति। पुत्रस्य अनुपस्थितौ पौत्रः उत प्रपौत्रः अपि श्राद्ध-कर्म कर्तुं प्रभवति। निःसन्तानपत्न्यै पतिद्वारा, पितृणा पुत्राय, ज्येष्ठभातृद्वारा अनुजाय पिण्डदानं भवितुम् अर्हति। किन्तु अल्पायोः तादृशः बालकः, यस्य उपनयन-संस्कारः न जातः स्यात्, सः तस्य पित्रे जलं दत्त्वा नवश्राद्धं कर्तुं प्रभवति। शेषकार्यं (पिण्डदानम्, अग्निहोमः) तस्य पक्षतः कुलपुरोहितः कर्तुं प्रभवति।

श्राद्धाय उचितद्रव्याणि[सम्पादयतु]

  • श्राद्धाय उचितद्रव्याणि - तिलः, माषः, तुण्डालाः, यवाः, जलं, मूलानि, (मूलयुक्तशाकः), फलं च।
  • त्रीणि वस्तूनि शुध्दिकारकाणि सन्ति - पुत्र्याः पुत्रः, तिलः, नेपालीकम्बलः।
  • त्रयः प्रशंसनीयाः व्यवहाराः - स्वच्छता, क्रोधहीनता, अत्वरा।
  • श्राद्धे महत्त्वपूर्णाः विषयाः - अपराह्णस्य समयः, कुशाः, श्राद्धस्थल्याः स्वच्छता, उदारतया भोजनादीनां व्यवस्था, योग्यब्राह्मणानाम् उपस्थितिः च।

श्राद्धाय अनुचितविषयाः[सम्पादयतु]

तादृशानि अन्नानि, खाद्यानि च, यानि श्राद्धे न युज्यन्ते - मसूरः, राजमा, कोदों, चणकः, कपित्थः, अलसी, पुरातनभोजनं, समुद्रजलनिर्मितं लवणं च। महिष्याः, हरिण्याः, ऊष्ट्र्याः, अजायाः, खुरयुक्तपशोः च दुग्धम् अपि वर्जितं भवति, परन्तु महिष्याः घृतं वर्जितं नास्ति। श्राद्धे दुग्धं, दधि, घृतं च पितृभ्यः विशेषतुष्टिकारकं मन्यन्ते। श्राद्धं कस्याऽपि अपरस्य गृहे, अपरस्य भूमौ च न कर्तव्यम्। यस्यां भूमौ कस्यापि स्वामित्वं न भवति, सार्वजनिकस्थानं भवति, एतादृशौ भूमौ श्राद्धं कर्तुं न शक्यते।

भाद्रपदे एव श्राद्धं किमर्थम्[सम्पादयतु]

अस्माकम् एकः मासः चन्द्रमसः एकस्य अहोरात्रस्य तुल्यः भवति। अतः ऊर्ध्वभागे निवासकर्तृभ्यः कृष्णपक्षः उत्तमः भवति। कृष्णपक्षस्य अष्टमी-तिथ्यौ दिनानाम् उदयः भवति। अमावस्यायां तेषां मध्याह्नं भवति, शुक्लपक्षस्य अष्टम्यां च तेषां दिनं भवति। धार्मिकमान्यता अस्ति यत्, अमावस्यायाः दिने कृतं श्राद्धं, तर्पणं, पिण्डदानं च तेभ्यः सन्तुष्टिम्, ऊर्जां च प्रयच्छति। ज्योतिषशास्त्रस्य अनुसारं पृथ्वीलोके देवताः उत्तरगोलार्धे विचरणं कुर्वन्ति, दक्षिणगोलार्धे भाद्रमासस्य पूर्णिमायाः दिने चन्द्रलोकेन सह पृथ्व्याः समीपात् गच्छति। एतस्य मासस्य प्रतीक्षाम् अस्माकं पूर्वजाः आवर्षं कुर्वन्ति। ते चन्द्रलोकस्य माध्यमेन दक्षिणदिशायां स्वमृत्युतिथौ स्वगृहस्य द्वारे उपस्थिताः भवन्ति, तत्र च ते स्वसम्मानं प्राप्य प्रसन्नतापूर्वकं स्वनवीनाय वंशाय आर्शीवादान् दत्त्वा प्रतिगच्छन्ति। एतादृशं वर्णनं श्राद्धमीमांसायां प्राप्यते। एवं पितृॠणात् मुक्त्यै श्राद्धकाले पितॄणां तर्पणं, पूजनं च क्रियते। भारतीयसंस्कृतौ, भारतीयसमाजे च स्वपूर्वजेभ्यः, दिवङ्गतेभ्यः पित्रोः स्मरणं श्राद्धपक्षे कृत्वा तान् प्रति असीमश्रद्धया सह तर्पणस्य, पिण्डदानस्य, ब्राह्मणेभ्यः भोजनदानस्य च प्रावधानम् अस्ति। पितृभ्यः कृतं श्राद्धं द्वयोः तिथ्योः भवति। प्रथमश्राद्धं तु मृत्योः उत क्षयस्य तिथौ। द्वितीयश्राद्धं पितृपक्षे। यस्मिन् मासे, तिथौ च पितृणां मृत्युः जातः अथवा यस्यां तिथौ तेषां दाहसंस्कारः जातः, वर्षे आयोः तिथौ कृतं श्राद्धं एकोदिष्टश्राद्धम् उच्यते।

एकोदिष्टश्राद्धे केवलम् एकस्य पितुः सन्तुष्ट्यै श्राद्धं भवति। तत्र एकपिण्डस्य दानं, एकब्राह्मणभोजनं च कारणीयं भवति। यदि कोऽपि पूर्वजस्य मृत्युतिथिं न स्मरति, तर्हि सः अमावस्यायाः दिने ज्ञात-अज्ञातानां पूर्वजनां विधि-विधानेन सह पिण्डदानं, तर्पणं, श्राद्धं च कर्तुं प्रभवति। एतस्मिन् दिने कृतं तर्पणं १५ दिनानां तर्पणवत् पुण्यं प्रयच्छति। गृहे, परिवारे, व्यवसाये, आजीविकायां च विशेषोन्नतिः प्राप्यते। यदि परिवारस्य कस्यापि जनस्य अकालमृत्युः जातः, तर्हि पितृदोषस्य निवारणाय शास्त्रीयविध्यनुसारं तस्य आत्मशान्त्यै तस्मिँश्चित् पवित्रस्थले श्राद्धं करणीयं भवति। सामर्थ्यनुसारं केनापि सुयोग्येन कर्मनिष्ठेन ब्राह्मणेन श्रीमद्भागवतपुराणस्य कथा स्वपितॄणाम् आत्मशान्त्यै कारणीया भवति। एवं विशेषपुण्यफलस्य प्राप्तिः भवति। एतस्य फलतः परिवारात् अशांतिः, वंशवृद्धौ अवरोधः, आकस्मिकरोगः, निर्धनता, सुविधायां सत्याम् अपि मनसि अशान्तिः, असन्तुष्टिः च व्यपगच्छति।

मातामहश्राद्धम्[सम्पादयतु]

मातामहश्राद्धं किञ्चन श्राद्धम् अस्ति, यत् पुत्री स्वपितृभ्यः, पुत्रः स्वमातृपक्षस्य पितृभ्यः च कर्तुं प्रभवति। एतत् श्राद्धं सुखस्य, शान्तेः च प्रतीकं मन्यते, यतो हि एतत् श्राद्धं कर्तुं काश्चन शरव्यताः भवन्ति। अतः तदनुसारम् एव एतत् श्राद्धं कर्तव्यं भवति। ताः शरव्यताः एवं सन्ति - मातामहश्राद्धं तस्याः महिलायाः पितुः एव भवितुम् अर्हति, यस्याः पतिः, पुत्रः च जीवितः स्यात्। यदि तथा नास्ति, तयोः उत एकस्य निधनं जातम् अस्ति, तर्हि मातामहश्राद्धस्य तर्पणं भवितुं नार्हति। एवम् एतत् मन्यते यत्, मातामहश्राद्धं सुखस्य, शान्तेः, सम्पन्नतायाः चिह्नम् अस्ति। अत्र ध्यातव्यम् अस्ति यत्, कश्चन जनः स्वजीवनकाले स्वपुत्र्याः गृहस्य जलम् अपि न पिबति, तत्कृत्यं वर्जितं मन्यते। परन्तु मृत्योः अनन्तरं तस्मै तर्पणं तस्य दोहित्रः कर्तुं शक्नोति इति शास्त्रसङ्गतम् अस्ति।

श्राद्धे कुशस्य, तिलस्य च महत्त्वम्[सम्पादयतु]

दर्भः उत कुशः जलस्य, वनस्पतेः च सारः मन्यते। एतदपि मन्यते यत्, कुशः, तिलः च विष्णोः शरीरात् निर्गतौ स्तः। गरुडपुराणस्य अनुसारं, त्रयः देवताः ब्रह्मा, विष्णुः, महेशः च कुशे क्रमश: मूले, मध्ये, अग्रभागे च निवसन्ति इति। कुशस्य अग्रभागः देवतानां, मध्यभागः मनुष्याणां, मूलभागः पितॄणां च मन्यते। तिलः पितृभ्यः प्रियः अस्ति। तिलात् दुष्टात्मनः दूरे धावन्ति। मान्यता अस्ति यत्, विना तिलं विकीर्य श्राद्धं क्रियते, तर्हि दुष्टात्मनः हविं गृह्णन्ति।

अल्पव्यये श्राद्धम्[सम्पादयतु]

विष्णुपुराणस्य अनुसारं दरिद्रजनः केवलं अन्नस्य, वन्यशाकस्य, पत्तानां, फलानां, न्यूनतमधनस्य च दक्षिणां दातुं शक्नोति। तदपि शक्यं नास्ति चेत्, सप्त उत अष्ट अञ्जलियावत् जलं नीत्वा ब्राह्मणाय दातव्यानि भवन्ति उत गवे आदिनं ग्रासं भोजयितुं शक्नुवन्ति। अन्यथा हस्तम् उन्नीय दिक्पालेभ्यः, सूर्यात् च याचना करणीया भवति यत् हे! प्रभो अहं मे हस्तौ वायौ उन्नितवान्, मम पितरः मम भक्त्या सन्तुष्टाः भवेयुः।

काकानां महत्त्वम्[सम्पादयतु]

मन्यते यत्, मृत्योः अनन्तरं सर्वप्रथमम् आत्मा काकस्य योनौ जन्मति। काकेभ्यः अन्नदानं पितॄन् प्रति गच्छति। अत एव श्राद्धपक्षे काकानां विशेषं महत्त्वं वर्तते। प्रत्येकं श्राद्धकाले पितृभ्यः भोजनदानत्वेन काकेभ्यः भोजनदानं भवति। यः जनः श्राद्धकर्म करोति, सः स्थालिकायां सर्वं भोज्यं प्रस्थाप्य स्वगृहस्य छदि उच्चस्वरेण "काकवासः" इति वदतु। यदि भोजनस्थापनोत्तरं काकः समायाति, तर्हि तस्मै भोजनेन सह जलपात्रम् अपि प्रदातव्यम्। काकस्य आगमनेन एव मन्यते यत्, यस्य पूर्वजस्य श्राद्धम् अस्ति, सः एव भोजनाय, जलपानाय च समागतः इति। काकानां विलम्बः उत भोजनाय न आगमनं सङ्केतत्वेन मन्यते यत्, पितरः खिन्नाः सन्ति इति। ततः तान् मोदयितुं प्रयासाः भवन्ति। तस्मिन् समये कस्यापि दोषस्य कृते क्षमायाचना करणीया भवति।

पिण्डस्य अर्थः[सम्पादयतु]

श्राद्ध-कर्मणि पक्वतण्डुलान्, दुग्धं, तिलान् च मिश्रीकृत्य यः पिण्डः निर्मीयते, तस्य नाम 'सपिण्डीकरणम्' इति उच्यते। पिण्डस्य अर्थः अस्ति शरीरम् इति। कश्चन पारम्परिकः विश्वासः वर्तते, यस्य विज्ञानम् अपि समर्थनं करोति। प्रत्येकं वंशेषु मातृकुलस्य, पितृकुलस्य च मिश्रिततया पूर्वजानां समन्वितं 'गुणसूत्रम्' उपस्थितं भवति। पक्वतण्डूलानां पिण्डः पितुः, पितामहस्य, प्रपितामहस्य च शरीराणां प्रतीकमात्रं भवति। प्रतीकात्मकतया येषां जनानां श्राद्धं भवति, तेषां गुणसूत्राणि (gene) श्राद्धकर्तॄणां स्वस्य देहे एव सन्ति, तेषां तृप्तिः भवति। सः पिण्डः गोभ्यः, काकेभ्यः च दानात् प्राक् पिण्डदानकर्तृणा तस्य आघ्राणं कर्तव्यम्। भारतवर्षे आघ्राणम् अर्धभोजनं मन्यते। अतः श्राद्धकर्त्ता पिण्डदानात् पूर्वं स्वपितॄणाम् उपस्थितिम् आत्मनि एव गृह्णन्ति।

पिण्डदानम्[सम्पादयतु]

पिण्डः वामहस्ते स्वीकरणीयम्। मन्त्रेण सह पितृतीर्थ-मुद्रया दक्षिणाभिमुखेन भूत्वा पिण्डः कस्यामपि स्थालिकायाम् उत पत्रपात्रे क्रमशः स्थापयतु।[१५]

पिण्डदानम्
क्रमाङ्कः पिण्डः श्लोकः
1 प्रथमपिण्डः देवतायाः निमित्तः

ॐ उदीरतामवर उत्परास, ऽउन्मध्यमाः पितरः सोम्यासः।
 असुं यऽईयुरवृका ऋतज्ञाः, ते नोऽवन्तु पितरो हवेषु।- 19.49

2 द्वितीयपिण्डः ऋषीणां निमित्तः

ॐ अंगिरसो नः पितरो नवग्वा, अथवार्णो भृगवः सोम्यासः।
 तेषां वय सुमतौ यज्ञियानाम्, अपि भद्रे सौमनसे स्याम॥ - 19.50

3 तृतीयपिण्डः दिव्यमानवानां निमित्तः

ॐ आयन्तु नः पितरः सोम्यासः, अग्निष्वात्ताः पथिभिदेर्वयानैः।
 अस्मिन्यज्ञे स्वधया मदन्तः, अधिब्रवन्तु तेऽवन्त्वस्मान्॥- 19.58

4 चतुर्थपिण्डः दिव्यपितॄणां निमित्तः

ॐ ऊजरँ वहन्तीरमृतं घृतं, पयः कीलालं परिस्रुत्।
  स्वधास्थ तपर्यत मे पितृन्॥ - 2.34

5 पञ्चमपिण्डः यमस्य निमित्तः

ॐ पितृव्यः स्वधायिभ्यः स्वधा नमः, पितामहेभ्यः स्वधायिभ्यः स्वधा नमः, प्रपितामहेभ्यः स्वधायिभ्यः स्वधा नमः।
 अक्षन्पितरोऽमीमदन्त, पितरोऽतीतृपन्त पितरः, पितरः शुन्धध्वम्॥ - 19.36

6 षष्ठपिण्डः मनुष्य-पितॄणां निमित्तः

ॐ ये चेह पितरो ये च नेह, याँश्च विद्म याँ२ उ च न प्रविद्म।
 त्वं वेत्थ यति ते जातवेदः, स्वधाभियर्ज्ञ सुकृतं जुषस्व॥ - 19.67

7 सप्तमपिण्डः मृतात्मनां निमित्तः

ॐ नमो वः पितरो रसाय, नमो वः पितरः शोषाय, नमो वः पितरो जीवाय, नमो वः पितरः स्वधायै, नमो वः पितरो घोराय,
 नमो वः पितरो मन्यवे, नमो वः पितरः पितरो, नमो वो गृहान्नः पितरो, दत्त सतो वः पितरो देष्मैतद्वः, पितरो वासऽआधत्त। - 2.32

8 अष्टमपिण्डः पुत्रदाररहितानां निमित्तः

ॐ पितृवंशे मृता ये च, मातृवंशे तथैव च। गुरुश्वसुरबन्धूनां, ये चान्ये बान्धवाः स्मृताः॥
  ये मे कुले लुप्तपिण्डाः, पुत्रदारविवजिर्ताः। तेषां पिण्डो मया दत्तो, ह्यक्षय्यमुपतिष्ठतु॥

9 नवमपिण्डः उच्छिन्नकुलवंशयुक्तानां निमित्तः

ॐ उच्छिन्नकुलवंशानां, येषां दाता कुले नहि।
  धमर्पिण्डो मया दत्तो, ह्यक्षय्यमुपतिष्ठतु॥

10 दशमपिण्डः गभर्पातेन मृतानां निमित्तः

ॐ विरूपा आमगभार्श्च, ज्ञाताज्ञाताः कुले मम।
  तेषां पिण्डो मया दत्तो, ह्यक्षय्यमुपतिष्ठतु॥

11 एकादशमपिण्डः अग्नौ दग्धानां जीवानां निमित्तः

ॐ अग्निदग्धाश्च ये जीवा, ये प्रदग्धाः कुले मम।
  भूमौ दत्तेन तृप्यन्तु, धमर्पिण्डं ददाम्यहम्॥

12 द्वादशमपिण्डः एतस्य जन्मनः उत अन्यजन्मनः बन्धूनां निमित्तः

ॐ ये बान्धवाऽ बान्धवा वा, ये ऽन्यजन्मनि बान्धवाः।
  तेषां पिण्डो मया दत्तो, ह्यक्षय्यमुपतिष्ठतु॥

यदि तीर्थश्राद्धस्य, पितृपक्षस्य च मध्ये एकाधिकपितॄणां सन्तुष्ट्यै पिण्ड-दानं करणीयं भवति, तर्हि निम्नदत्तेषु वाक्येषु पितॄणां नाम-गोत्रादिकं योजयित्वा वाञ्छितसङ्ख्यायां पिण्डदानं कर्तुं शक्नोति।

........... गोत्रस्य अस्मद् ....... नाम्नो, अक्षयतृप्त्यर्थम् इदं पिण्डं तस्मै स्वधा॥

पिण्डसमपर्णस्य अनन्तरं पिण्डेषु क्रमशः दुग्झं, दधि, मधु च अर्पयित्वा पितॄणां तृप्तेः प्राथर्ना क्रियते।

  • निम्नमन्त्रेण पिण्डे दूध अर्पणीयम् - ॐ पयः पृथिव्यां पयऽओषधीषु, पयो दिव्यन्तरिक्षे पयोधाः। पयस्वतीः प्रदिशः सन्तु मह्यम्।
  • पिण्डदाता निम्नाङ्कितमन्त्रांशस्य पुनरावृत्तिं कुर्यात् - ॐ दुग्धम्। दुग्धम्। दुग्धम्। तृप्यध्वम्। तृप्यध्वम्। तृप्यध्वम्॥
  • निम्नांकितमन्त्रेण पिण्डे दधि अपर्णीयम् - ॐ दधिक्राव्णे ऽअकारिषं, जिष्णोरश्वस्य वाजिनः। सुरभि नो मुखाकरत्प्रण, आयुषि तारिषत्।
  • पिण्डदाता निम्नाङ्कितमन्त्रांशस्य पुनरावृत्तिं कुर्यात् - ॐ दधि। दधि। दधि। तृप्यध्वम्। तृप्यध्वम्। तृप्यध्वम्।
  • अधः दत्तैः मन्त्रैः सह पिण्डेषु मधु अर्पणीयम् - ॐ मधुवाताऽऋतायते, मधु क्षरन्ति सिन्धवः। माध्वीनर्: सन्त्वोषधीः।
    ॐ मधु नक्तमुतोषसो, मधुमत्पाथिर्व रजः। मधु द्यौरस्तु नः पिता।
    ॐ मधुमान्नो वनस्पतिर, मधुमाँ२ऽ अस्तु सूयर्:। माध्वीगार्वो भवन्तु नः।
  • पिण्डदानकर्त्ता निम्नाङ्कित-मन्त्रांशस्य पुनरावृत्तिं कुर्यात् - ॐ मधु। मधु। मधु। तृप्यध्वम्। तृप्यध्वम्। तृप्यध्वम्

पिण्डदानस्य सिद्धान्तः[सम्पादयतु]

कर्मणः, पुनर्जन्मनः, कर्मविपाकस्य च सिद्धान्ते सुदृढविश्वासकर्तारः जनाः अनेन सिद्धान्तेन सह पिण्डदानं कृत्वा त्रयाणां पूर्वपुरुषाणाम् आत्मसन्तुष्टिम् इच्छन्ति। पुनर्जन्मनः[१६] सिद्धान्तस्य अनुसारम् आत्मा एकं शरीरं त्यक्त्वा नवीनं शरीरं प्रविशति। किन्तु त्रयाणां पूर्वपुरुषाणां पिण्डदानस्य सिद्धान्तः स्पष्टयति यत्, त्रयाणां पूर्वपुरुषाणां ५० उत १०० वर्षाणाम् उपरान्तमपि वायौ सन्तरणं कृत्वा तण्डूलानां पिण्डानां सुगन्धः उत सारतत्वं वायव्यशरीरद्वारा ग्रहणकरणे समर्थं भवति। एतस्य अतिरिक्ततया याज्ञवल्क्यस्मृतिः, मार्कण्डेयपुराणे[१७], मत्स्यपुराणे[१८] अग्निपुराण[१९] च उल्लेखः प्राप्यते यत्, पितृश्राद्धे अर्पितेन पिण्डेन स्वयं सन्तुष्टाः भूत्वा स्ववंशजेभ्यः जीवनं, सन्ततिं, सम्पत्तिं, विद्यां, स्वर्गं, मोक्षं, सर्वसुखं च यच्छन्ति इति। मत्स्यपुराणे[२०] ऋषिद्वारा पृच्छते एकः प्रश्नः यत्, (श्राद्धे आमन्त्रित) ब्राह्मणः यत् भोजनं खादति, उत अग्नौ आहूतिरूपेण प्रदीयते, तत् पितरः प्राप्नुवन्ति उत न। एवञ्च ते पितरः मृत्योः अनन्तरं स्वकर्मानुसारं शरीरं धृतवन्तः स्युः, तर्हि ते कथम् एतत् अन्नं प्राप्नुयुः इति। मत्स्यपुराणे[२१] एतस्य उत्तरं दत्तम् अस्ति यत्, पिता, पितामहः, प्रपितामहः च वैदिक-उक्तीनाम् अनुसारं, क्रमेण वसूनां, रुद्राणाम्, आदित्यानां च समानरूपे स्वीकृताः सन्ति। ये नाम्नः, गोत्रस्य (श्राद्धसमये वर्णितस्य), उच्चरितमन्त्रस्य, श्रद्धायाः च आधारेण आहुतीः पितॄणां समीपे नयन्ति। तत्र यदि कस्यापि पिता (स्वकर्माधारेण) देवता जातः, तर्हि श्राद्धे प्रदत्तं भोजनम् अमृतं भवति। तच्च अन्नं देवत्वस्य स्थित्यां तस्य आत्मनः अनुसरणं करोति। यदि सः दैत्यः (असुरः) जातः अस्ति, तर्हि तस्य (श्राद्धे दत्तं भोजनं) तस्य पार्श्वे विविधानन्दरूपेण अनुसरणं करोति। यदि सः पशुः जातः अस्ति, तर्हि तदन्नं तस्मै आत्मने भोजनस्य स्वरूपं स्वीकरोति। यदि सः सर्पः जातः अस्ति, तर्हि श्राद्धभोजनं वायुना भूत्वा तस्य सेवां करोति इत्यादिकम् अवगन्तव्यम्। श्राद्धकल्पतरुः[२२] मत्स्यपुराणस्य[२३] श्लोकान् मार्कण्डयपुराणस्थान् उक्त्वा उद्धृतवान्। विश्वरूपः[२४] अपि उपर्युक्तं विरोधम् उपस्थितं कृत्वा स्वयम् उत्तराणि दत्तवान्। तेषु अन्यतमम् उत्तरम् एवम् अस्ति – एषः विषयः पूर्णतया शास्त्राधारितः अस्ति। अतः यदा शास्त्रं कथयति यत्, पितरः सन्तुष्टाः भवन्ति, श्राद्धकर्त्ता मनोवाञ्छितं फलं प्राप्नोति च, तर्हि कोऽपि विरोधः नोद्भवेत्। द्वितीयम् उत्तरम् अस्ति यत् – वसुः, रुद्रः, आदित्यः इत्येते तादृशाः देवाः सन्ति, ये सर्वत्र व्याप्ताः सन्ति, अत: पितरः यत्रापि सन्ति, ते तान् सन्तोषयितुं शक्नुवन्ति। विश्वरूपः प्रश्नकर्तॄन् नास्तिकान् कथयति।

श्राद्धपक्षस्य वैज्ञानिकपक्षः[सम्पादयतु]

सूक्ष्मशरीराय सः संस्कार एव उपयोगि भवति, यः जन्मतः पूर्वम् एवञ्च जन्मसमये च स्थूलशरीराय भवति स्म। अतः शास्त्रं पूर्वजन्मनः आधारेण एव कर्मकाण्डे श्राद्धादिकर्मणः विधानम् उपस्थापयति।

जन्मनः, मृत्योः च रहस्यम् अतीव गूढम् अस्ति। वेदेषु, दर्शनशास्त्रेषु, उपनिषत्सु, पुराणादिषु च अस्माकम् ऋषयः, मुनयः च एतस्मिन् विषये विस्तारेण विचारम् उपास्थापयन्। श्रीमद्भगवद्गीतायाम् अपि स्पष्टतया उक्तम् अस्ति यत्, जन्मधारकस्य मृत्युः, मृतस्य जन्म निश्चितं भवति इति। एषः एव प्रकृतेः नियमः अस्त। शरीरं नष्टं भवति, परन्तु आत्मा न कदाऽपि नष्टा भवति। सः तु पुनः जन्मति, पौनःपुन्येन जन्म स्वीकरोति च। एतस्य पुनर्जन्मनः आधारेण एव कर्मकाण्डे श्राद्धादिकर्मणां विधानं कृतम् अस्ति। स्वपूर्वजेभ्यः प्रदत्तानि वस्तूनि वास्तव्येन ते प्राप्नुवन्ति उत न इत्येतस्मिन् विषये अधिकांशजनाः सन्दिग्धाः सन्ति। अस्माकं पूर्वजाः स्वकर्मानुसारं कस्यां योनौ जनिं प्राप्तवन्तः इति यदि वयं न जानीमः, तर्हि तेभ्यः प्रदत्तान् पदार्थान् ते कथं प्राप्नुवन्ति? किं ब्राह्मणभोजनेन अस्माकं पूर्वजानां सन्तुष्टिः भवितुम् अर्हति? एतादृशाः अनेके प्रश्नाः विद्यन्ते। तेषां सर्वाषां प्रश्नानां स्पष्टोत्तरं न दृश्यते, यतः वैज्ञानिकमापदण्डाः सृष्टेः प्रत्येकं विषयवस्तौ प्रभावयितुं न शक्यन्ते। विश्वस्मिन् अनेके विषयाः सन्ति, येषां प्रमाणानि न सन्ति, तथाऽपि तेषु विश्वासः करणीयः भवति।

तत्र श्राद्धकर्म उदाहरणम् अस्ति। श्राद्धं सूक्ष्मशरीरेभ्यः तादृशं कार्यं करोति, यत् जन्मनः पूर्वकृताः, जन्मसमये कृताः च संस्काराः स्थूलशरीराय कुर्वन्ति। इतः परलोकं गन्तुं, द्वितीयशरीरं प्राप्तु च जीवत्मनः साहाय्यं कृत्वा मनुष्य स्वकर्तव्यं पूर्णं करोति। अतः एषा क्रिया श्राद्धम् इति उच्यते। श्रद्धया एव श्राद्धं भवति। श्राद्धस्य क्रियाः भागद्वयेषु विभक्ताः सन्ति। प्रेतक्रियाः, पितृक्रियाः च। मन्यते यत्, मृतः जनः एकवर्षं यावत् पितृलोकं प्राप्नोति। अतः सपिण्डीकरणस्य समयः एकवर्षस्य अनन्तरम् एव भवेत्। परन्तु एतानि दिनानि अद्यतनः द्रुतमान् समाजः प्रतीक्षां कर्तुं न शक्नोति। एतादृश्यां स्थित्यां सपिण्डीकरणस्य अवधिः षण्मासं यावत् जाताः। परन्तु सर्वत्र 12 दिनानि यावत् एव अवधिः जातः। अत एव गरुडपुराणस्य श्लोकः आधारः अस्ति-

"अनित्यात्कलिधर्माणांपुंसांचैवायुष: क्षयात्।
अस्थिरत्वाच्छरीरस्य द्वादशाहे प्रशस्यते।।"

अर्थात् कलियुगे धर्मस्य अनित्यतात्वात् पुरुषाणाम् आयुक्षीणता, शरीरक्षणभङ्गुरता च भवति। अतः द्वादशेषु दिनेषु पण्डिदानक्रिया भवितुम् अर्हति इति। वर्णानुसारम् एतत् दिनम् अग्रे अपि सारयितुं शक्यते। द्वादशदिनानि तेभ्यः सन्ति, येषां शुद्धिः दश दिनेषु भवति।

यथा सर्वे संस्काराः प्रकृतेः कार्ये साहाय्यं क्रतुम् उपस्थिताः सन्ति, तथैव प्रेतक्रियायाः अपि उद्देश्यम् एतदेव अस्ति यत्, सा प्राणमयकोशस्य, अन्नमयकोशस्य च यथास्थित्यिसमयं यावत् तस्मिन्नेव अवलम्बित-प्रकृतिं नाशयति। यावत्पर्यन्तं प्रकृतिः स्वसाधारणप्रक्रियायां प्रापयितुम् इच्छति, तं मनुष्यं भूलोके अनेन प्रकारेण धारयेत्। एतस्मिन् विषये सर्वाधिकम् आवश्यककार्यम् अस्ति यत्, अन्नमयकोशस्य नाशः भवेत्। दाहसंस्कारेण अन्नमयकोशस्य नाशः भवति। छान्दोग्योपनिषदि उल्लेखः वर्तते यत् – 'ते प्रेतं दिष्टमितो अग्नय ऐ हरन्ति यत एवेतो यत: संभूतो भवति।' अर्थात् यथा निर्दिष्टम् अस्ति, ते मृतात्मानम् अग्नेः समीपं नयन्ति, यतः सः आगतः आसीत्, यतः सः उत्पन्नः जातः आसीत्।

अन्तमसंस्कारात् पूर्वं दाहकर्ता चितायाः परिक्रमां करोति, शवे निम्नमन्त्रेण जलस्य आसिञ्चनं भवति – 'अयेत वीत वि च सर्पत अतः।' अर्थात् गच्छतु, अपसरणं करोतु, शरीरं त्यक्त्वा गच्छतु। एतत् वाक्यं यावत्पर्यन्तं अग्निदाहः न भवति, तावत्पर्यन्तम् उच्यते। अग्निदाहोत्तरम् अवशिष्ट-अस्थिनां सञ्चयोत्तरं जलप्रवाहे तेषां विसर्जनं क्रियते। ततः मनोमयकोषस्य विश्लेषणस्य कार्यं भवति, तेन मृतात्मा प्रेतात् पितृरूपं धरते। विवाहं त्यक्त्वा सर्वेषु संस्कारेषु श्राद्धम् एव तादृशं धार्मिकं कृत्यम् अस्ति, यस्य जनाः पर्याप्त-धार्मिक-उत्साहेन सह आचरणं कुर्वन्ति। विवाहे अनेके जनाः अमुकविधीनाम् अवगणनाम् अपि कुर्वन्ति, परन्तु श्राद्धकर्मणि नियमानाम् अवगणना न भवति इति सामान्यम्। यतः श्राद्धं मृतात्मने परलोकयात्रायाः सुविधायै भवति।

नियमाः[सम्पादयतु]

  • दैनिकपञ्चयज्ञेषु पितृयज्ञस्य अतीव महत्त्वम् अस्ति। तत्र तर्पणम् अन्तर्भवति। कालान्तरे पिण्डदानस्य अपि प्रावधानम् अस्ति। सम्पूर्णे पितृपक्षे तर्पणादिकं करणीयं भवति।
  • श्राद्धस्य कालखण्डे अन्यशुभकार्याणि उत नवीनानि कार्याणि उत पूजानुष्ठानादिकं न करणीयम्। तस्मिन् समये श्राद्धनियमानां योग्यतया पालनं करणीयं भवति। परन्तु नित्यकर्माणि, देवतानां नित्यपूजादिकं च न त्यक्तव्यं भवति।
  • पितृपक्षे सूतकस्य प्रावधानं न भवति, अपि तु पितॄणां पूजनस्य विशेषं महत्त्वं भवति। पितृकार्याय मध्याह्नस्य समयः अतीव उत्तमः मन्यते। यतः पितृभ्यः मध्याह्नम् एव भोजनस्य समयः भवति।
  • पितृभ्यः पिण्डदानं दक्षिणदिशाभिमुखेन स्थित्वा दक्षिण-अवरोहिण्यां भूमौ करणीयम्।
  • भोजनादिषु ब्राह्मणाणां सङ्ख्या विषमा भवेत्। यथा एकं, त्रयः आदिकम्। गृहसूत्रे लिखम् अस्ति यत्, श्राद्धे आहुताः ब्राह्मणाः पवित्राः, वेदज्ञाः च स्युः इति। तेन सह उल्लेकः प्राप्यते यत्, श्राद्धस्य भोजनकर्तारः विप्राः तस्मिन् दिने द्वितीयवारं भोजनं यदि कुर्वन्ति, तर्हि ते कीटयोनिं प्राप्नुवन्ति। मनुस्मृतेः तृतीये अध्याये लिखितम् अस्ति यत् -

'यथोरिणे बीजमृप्त्वा न वप्ता लभते फलम्।
तथाऽनुचे हविर्दत्त्वा न दाता लभते फलम्।।'

अर्थात् यथा उरिणे बीज ऋप्त्वा वप्ता फलं न प्राप्नोति, तथैव वेदविहीनेन जनेन हविदानं हविदात्रे लाभं न करोति।

  • मनुस्मृतेः अनुसारं पित्रादिभ्यः त्रयाणां पिण्डानां निर्माणं करणीयम्। पार्वणे मातामहादिभ्यः अपि त्रयाणां पीडानां निर्माणं करणीयं भवति। पिण्डाः बदरीफलस्य आकारस्य भवेयुः। पिण्डदानोत्तरं ब्राह्मणभोजः कारणीयः भवति।
  • श्राद्धोत्तरं गृहबलिः करणीयः भवति। एतस्मिन् अवसरे समाजैः सह भोजनस्य विधानम् अस्ति। गवां दुग्धस्य, दुग्धस्य पदार्थानां, क्षीरादिनां च श्राद्धे भोजनं कारणीयम् उत्तमं मन्यते।
  • पितृलोकः, प्रेतलोकः च भुवर्लोकस्य भागत्वेन परिगण्येते। भू-लोकस्य प्रभावः तौ लोकौ यावत् प्राप्नोति। पिण्डनिर्माणोत्तरम् अवशिष्टस्य अन्नस्य समर्पणे त्रिभ्यः वंशेभ्यः अर्थात् चतुर्थात् षष्ठयावत् वंशेभ्यः आदान-प्रदानं कृत्वा परस्परं प्रभावं स्थापयितुं शक्नुवन्ति। ते सपिण्डाः उच्यन्ते। तस्योपरितनाः त्रयः वंशाः केवलं समर्पणस्य जलम् एव प्राप्नुवन्ति। ते समानोदकाः उच्यन्ते। दशवंशोत्तरं सगोत्रियाः उच्यन्ते। दशवंशोत्तरं जनेषु तर्पणस्य उत पिण्डदानस्य कोऽपि प्रभावः भवितुं नार्हति। यतः एतवति समये साधारणतया कश्चन मनुष्यः स्वर्गं प्राप्तवान् इति मन्यते।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. ब्रह्मपुराणं (श्राद्धप्रकाशः, पृ. 3 - 6; श्राद्धकल्पलता, पृ. 3; परा. मा. 1/2, पृ. 299)
  2. (याज्ञ. 1/217)
  3. पृ. 4
  4. (पृ. 3-4)
  5. (पृ. 1)
  6. (पृ. 4)
  7. जैमिनि. 4|2|10-13
  8. (याज्ञवल्क्यस्मृति 1|217)
  9. याज्ञवल्क्यस्मृति (1|268=अग्निपुराण 163|40-41)
  10. मनु (3|284)
  11. याज्ञवल्क्यस्मृतिः (1|269)
  12. (श्राद्धकल्पलता, पृ. 3-4)।
  13. मत्स्यपुराणम् (141|76), वायु पुराण (56|85 एवं 83|119-120), ब्रह्मण्डस्य, अनुर्षगपादः (218-90|91)
  14. उपोद्वातपादः (20|12-13); यथा स्मृतिच. (श्रा. पृ. 448) उद्धरति। अधिकज्ञानाय श्रा. क. ल. (पृ. 5)।
  15. "अखिल विश्व गायत्री परिवार" (एचटीएमएल) (in हिन्दी).  Unknown parameter |accessyear= ignored (help); Unknown parameter |accessmonthday= ignored (help)
  16. (देखिए बृहदारण्यकोपनिषद् 4|4|4 एवं भगवदगीता 2|22) अयमात्मेदं शरीरं निहत्याविद्यां गमयित्वान्यत्रवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा मान्धर्व वा दैवं वा प्राजापत्यं वा ब्राह्मां वान्येषां वा भूतानाम्। बृह. उप. (4|4|4); तथा शरीरणि विहाय जीर्णान्यन्यानि संयाति नवानि देही।। गीता (2|22)।
  17. (1|268=मार्कण्डेयपुराण 29|38)
  18. मत्स्यपुराण (19|11-12)
  19. अग्निपुराण (163|41-42)
  20. मत्स्यपुराण (19|2)
  21. मत्स्य पुराण (श्लोक 3-9)
  22. श्राद्धकल्पतरु (पृ. 5)
  23. मत्स्य पुराण (19|5-9)
  24. विश्वरूप (याज्ञ. 1|265)
"https://sa.wikipedia.org/w/index.php?title=श्राद्धम्&oldid=456463" इत्यस्माद् प्रतिप्राप्तम्