दर्शनानि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

दर्शनानि षड्विधानि सन्ति।

वैशेषिकदर्शनम्[सम्पादयतु]

'अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः' इत्यस्मिन् वाक्ये घटकी भूतं 'न्यायविस्तर'-पदं महर्षिकणादविरचितप्राचीनन्याय = वैशेषिकदर्शनपरम् ।

‘काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम्' इत्यत्रापि घटकीभूतं 'काणाद' पदं सुस्पष्टतयैव वैशेषिकदर्शनमेव बोधयति ।

जन्मदातृत्वेन कणादेन पित्रा पालितं लालितं पुत्रवच्च परिवधितं वैशेषिक दर्शनमिदं काणाददर्शनमित्यप्युच्यते। सकलेभ्यो दर्शनेभ्योऽतीव श्रेष्ठमतीव प्राचीनतमञ्चेति सर्वशास्त्रोपकारकमपि–'काणादं पाणिनीयञ्च सर्वशास्त्रोप कारकम् इत्युक्तं प्रागेव । इत्थञ्चानेन प्राचीनाचार्यचरणवचसाऽस्य प्राचीनत्वं सर्वशास्त्रोपकारकत्वञ्च सुस्पष्टमेवाऽनुभवेनापि सिद्धयति ।

अत्र वयं ब्रूमः-शास्त्रं द्विविधम्

१. 'पदशास्त्रम्'।

२. 'पदार्थशास्त्रञ्चे'ति ।

तत्र पदशास्त्रं व्याकरणशास्त्रम्, पदार्थशास्त्रञ्च कणादशास्त्रम् ( वैशेषिकदर्शनम् ) । अन्येषामपि शास्त्राणां विद्यमानत्वेऽपि अनयोर्द्वयोः शास्त्रयोः समक्षं नास्ति तादृशमपेक्षितं वैशिष्टयमन्येषां शास्त्रा णाम् । यतः सर्वतः प्राग् वैशेषिका पदार्थोल्लेखनमेव प्रकुर्वन्ति । यथा -

'द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम् ।

समवायस्तथाऽभावः पदार्थाः सप्त कीर्तिताः' ॥[१]

तत्राऽन्नम्भट्टोऽप्याह 'द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायाऽभावाः सप्त पदार्थाः' ।[२]

इदमेव च कणादशास्त्रम् ( वैशेषिकदर्शनम् ) औलूक्यदर्शनमपि निगद्यते ।

अस्मिन् दर्शने विशेषपदार्थस्याऽङ्गीकारेण अन्यत्र क्वापि च दर्शनेषु तदनङ्गीकारेण 'विशेषस्तु विशेषवान्' इति न्यायेन चाऽन्यदर्शनेभ्योऽस्य वैशेषिकदर्शनस्य महदेव वैशिष्ट्यं समागच्छति ।

प्रमाणानां गणनावसरे प्रत्यक्षमनुमानञ्चेति प्रमाणद्वयमेव चाङ्गीकरोति वैशेषिकदर्शनस्य कृते जन्मदाता महर्षिः कणादः । यथोक्तम्--

'शब्दोपमानयो व पृथक् प्रामाण्य मिष्यते ।

अनुमानगतार्थत्वादिति वैशेषिकं मतम् ।।'[३]

इत्यनेन खल शब्दस्य स्वातन्त्र्येण प्रामाण्यं निरस्य तस्याऽनमानविधयैव प्रामाण्यमभ्युपेयम् । बौद्धप्रभृतयोऽपि दार्शनिका उक्तस्यैव प्रमाणद्वयस्य प्रामाण्यमभ्युपगच्छन्तीत्यत्र प्रमाणविषयमधिकृत्योभयत्र साम्यमेवाऽनुभूयते मया शशिबालागौडेन ।

वैशेषिकदर्शनतः पश्चात्कालीनेन न्यायदर्शनेन सहास्य कणाददर्शनस्य प्रायः आधिक्येन साम्यत्वसम्भवेऽपि आंशिकस्तु क्वाचित्को भेदोऽस्त्येव ।

'विभागे च विभागजे ।' 'यस्य न स्खलिता बुद्धिस्तं वै वैशेषिकं विदुः" ।।[४]

विभागजविभाग इति च संयोगजसंयोगस्याप्युपलक्षणम् ।

पदार्थानां विषयेऽपीदमस्ति यत् नैयायिकानां ये सन्ति प्रमाण-प्रमेयादयः षोडशपदार्थास्तेषां वैशेषिकाभिमतसप्तस्वेव पदार्थेष्वन्तर्भावो बोध्य इत्येव परमार्थः ।।

बौद्धानां वेदान्तिभिः सह प्राय एकवाक्यतायाः सत्त्वेऽपि वैशेषिकैः सह सर्वथा चास्ति विरोधः सर्वांशे केवलं प्रमाणविषयं तथा अतिरिक्ताऽवयवि विचारात्मक विषयं विहायेति बोध्यम् ।

सांख्यदर्शनम्[सम्पादयतु]

इदञ्चास्ति सांख्यदर्शनं सकलभारतीयदर्शनेभ्योऽतीव प्राचीनं दर्शनम्, प्राचीनतमं दर्शनमित्यपि व्याहतुं शक्यते इत्यत्र नास्ति लेशतोऽपि विवादः, इति सर्वेऽपि दार्शनिकाः समभ्युपगच्छन्ति ।

इदञ्च शास्त्रं प्रकृति-पुरुष-तत्संयोगानाञ्च नित्यत्वप्रतिपादनपरं सत् तदतिरिक्तस्य सर्वस्यापि अनित्यत्वं प्रतिपादयतीति द्वैतभेदप्रतिपादकम् अस्ति ।

प्रकृतिश्च सत्त्व-रजस्तमसां साम्यावस्थेति गीयते सांख्यशास्त्रविचारकैः । अस्या एव प्रकृतेर्गणत्रयाणां वैषम्यावस्था जगदुत्पत्तिकारणं भवति । इदञ्च सांख्यदर्शनं सर्वथा चास्ति निरीश्वरवादिदर्शनम् । यतः पुरुषस्य चेतनतत्त्वस्य जीवात्मस्थानीयत्वेनाऽङ्गीकारात् तत्रेश्वरस्य जन्मिनां हेतुत्वेनाऽनङ्गीकाराच्च । प्रकृतिपुरुषयोः संयोगस्यैव जगदुत्पादकत्वं स्वीक्रियते ।

‘द्यावाभूमी जनयन् देव एकः विश्वस्य कर्ता भवनस्य गोप्ता ।'[५]

इत्याद्यागमद्वारा विश्वकर्तृत्वेन भुवनगोप्तृत्वेनेश्वरस्य कृते मान्यतां प्रदत्तवन्तौ नैयायिकवैशेषिको। परन्तु सांख्यस्तन्नाऽङ्गीकरोति ।।

नैयायिकवैशेषिका यथा जीवस्य प्रतिशरीरं भिन्नत्वेनास्तित्वमभ्युप गच्छन्ति, तथैव सांख्या अपि जीवात्मस्थानीयस्य पुरुषस्य नानात्वम् ( अनेकत्वम् ), बहुत्वम् अङ्गीकुर्वन्ति । यथोक्तवान् ईश्वरकृष्णः

'पुरुषबहुत्वं सिद्धम्' । सां० का० १६ बहुत्वकल्पना नेयं काचन विलक्षण कल्पना, यत ऐक्ये स्वीक्रियमाणे 'एकस्मिन् जायमाने सर्वे जायेरन्, एकस्मिन् म्रियमाणे च सर्वे म्रियेरन्' । इत्याद्यापत्तयः समागमिष्यन्तीति विचार्य तस्य पुरुषस्य नानात्वं (बहुत्वम् ) स्वीकृतवान् सांख्यः । एवं नैयायिकादयोऽपि सांख्यपुरुषस्थानीयस्य जीवात्मनो नानात्वमङ्गीकृतवन्तः ।

प्रकृतिपुरुषयोर्भेदाग्रह एव पुरुषबन्धनहेतुः, तयोर्भेदग्रहश्च बन्धननिवृत्ति रूपमोक्षहेतुश्चास्तीति सर्वेऽपि सांख्याः समभ्युपगच्छन्ति ।

महामुनिः श्रीकपिलः ई० पू० २००० तमे वर्षे स्वास्तित्वं लभमानः सांख्यशास्त्रं रचितवान् । तत्रापि सांख्यदर्शनस्य सूत्रद्वयं समुपलब्धमस्तीत्यपि श्रूयते । तत्र सूत्रद्वयेषु चास्त्येकं खलु

१. 'तत्त्वसमासः' इति सूत्रं प्रथमम् ।

२. 'सांख्यप्रवचनम्' इति च सूत्रं द्वितीयम् ।

एतेषां महामुनिश्रीकपिलमहोदयानां प्रथमशिष्य 'आसुरि'रासीदिति कर्णा कर्णिकया श्रूयते । अस्य च मुनेरासुरेनहि कोऽपि ग्रन्थः समुपलभ्यते, वचनानि त्ववश्यमेव ग्रन्थान्तरेषूपलभ्यन्ते ।

अस्य चाऽऽसुरिमुनेः शिष्यः श्रीपञ्चशिखाचार्य आसीत् । श्रूयते यदस्य पञ्चशिखाचार्यस्य मुनेः केवलमेक एव स्वयं लिखितः 'षष्टितन्त्र' नामको ग्रन्थः स्वास्तित्वसम्पन्नः पूर्वकालावच्छेदेन श्रूयते । परन्तु सोऽप्यधुना नोपलभ्यते इत्यस्ति महत्खेदास्पदीभूतोऽयं विषयः ।।

तथा चोक्तं महाभारते मोक्षधर्मे -

'सांख्यस्य प्रवक्ता कपिलः परमर्षिः पुरातनः' ।[६]

तथोपलब्धि गता ये सन्ति सांख्यदर्शनसम्बन्धिनो ग्रन्थास्तेषु निम्नो ल्लिखिता एव ग्रन्थाः समुपलभ्यन्ते । तथाहि -

१. 'साख्यकारिका' ईश्वरकृष्णरचिता ।

२. 'सांख्यतत्त्वकौमुदी' षड्दर्शनाचार्य-श्रीवाचस्पतिमिश्रविरचितष्टीका त्मको ग्रन्थः । यश्चास्ति साक्षात् सांख्यकारिकाया उपरि ।

३. 'सांख्यप्रवचनभाष्यम्' ।

४. 'सांख्यसार' प्रभृतीन् नानाविधान् ग्रन्थान् श्रीविज्ञानभिक्षुरपि विरचि तवान् ।

५. 'सांख्यतत्त्वयाथार्थ्यदीपनम्' टीकास्वरूपं ग्रन्थं सर्वथा विलिख्य सांख्यशास्त्रसम्बन्धिनो विचारगर्भितान् सिद्धान्तान् प्रचुरान् कृतवान् ।

एवं महाविद्वाननिरुद्धोऽपि खलु सांख्यसूत्राणामुपरि टीकास्वरूपां 'वृत्तिम्' विलिख्य सांख्यदर्शनसम्बन्धिनः सिद्धान्तान्-तत्र प्रस्फोरयामास, शास्त्रञ्च

विशदीकृतवान् ।

६. 'सांख्यसूत्रवृत्तिसारम्' इति ग्रन्थं लिखितवान् सांख्यशास्त्रस्य प्रकाण्ड पण्डितो महादेवः ।

७. 'लघुसांख्यसूत्रवृत्तिम्' रचितवान् श्रीनागेशोऽप्यमूल्यं ग्रन्थरत्नमिदम् ।

८. 'युक्तिपादिकाभाष्यम्' अपि रचितवान् श्रीगौडपादाचार्यः अनेनापि भाष्येण महानेवोपकारो जातः सांख्यशास्त्रस्य ।

९. 'सांख्यचन्द्रिका' नाम्नी अपि एका सांख्यदर्शननिष्ठवैशद्यविधायिनी पुस्तिका मिलति श्रीनारायणतीर्थस्य । इयमपि पुस्तिका महती प्रसिद्धि गता सती महदेव महत्त्वं सूचयति सांख्यदर्शनस्येति विदाङकुर्वन्तु भवन्तः ।।

इमे च सांख्यदार्शनिकाः पञ्चविंशति संख्याकान् तत्त्वान् समभ्युप गच्छन्ति । ते च तत्त्वभूताः प्रभूताः सन्ति पदार्थाः

१. 'प्रकृतिः' इत्येकं तत्त्वम् ।

२. 'महत्तत्वम्' इति च द्वितीयं तत्त्वम् ।

३. 'अहङ्कारः' इति च तृतीयं तत्त्वम् ।

४. 'पञ्चज्ञानेन्द्रियम् ।

५. 'पञ्चकर्मेन्द्रियम्।

६. 'पञ्चतन्मात्राणि' ।

७. 'मन'श्चैकं तत्त्वम् ।

८. 'पञ्च महाभूतानि' च ।

९. 'पुरुष'श्चैकं तत्त्वम्, स च पुरुषः कूटस्थो नित्योऽपरिणामी च । एवं क्रमेण पञ्चविंशतितत्त्वानि मिलित्वा भवन्ति । तथा चोक्तम् -

'प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् गणश्च षोडशकः ।।

तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि' ॥[७]

एतेषां प्रानिरूपितानां पञ्चविंशति-तत्त्वानां साधकानि सन्ति सांख्य नये त्रीणि प्रमाणानि । तथाहि

'दृष्टमनुमानमाप्तवचनञ्च सर्वप्रमाणसिद्धत्वात् ।

त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि' ।।[८]

१. 'दृष्टम्'–प्रत्यक्षं प्रमाणम् ।

२. 'अनुमान'ञ्च द्वितीयं प्रमाणम् ।

३. 'आप्तवचन'ञ्चेति तृतीयं प्रमाणम् ।

अत्र कार्यकारणभावे जायमाने चतुर्धा विप्रतिपत्तिर्जायते । असतः सज्जा यते इति च बौद्धाः समुगिरन्ति ।

नैयायिकप्रभृतयो दार्शनिकाः सतोऽसज्जायते इति च वदन्ति ।

अद्वैतवादिनो वेदान्तिनश्च सतोऽसज्जायते, अर्थात् सतो ब्रह्मणो विवर्तः कार्यजातं न वस्तु सत् इति वदति ।

सांख्यास्तु पुनः सतः कारणात् सदेव कार्य जायते इति कारणमपि सत्, कार्यमपि च सदेवेति विज्ञेयम् ।

इमे सांख्याचार्याः पञ्चभिर्हेतुभिः सदेव कार्यं साधयन्ति । तथाहि

'असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् ।

शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ॥[९]

अर्थात् कार्यत्वावच्छिन्नं पक्षीकृत्य -

कार्यं सत् असदकरणात्, उपादानग्रहणात् इत्यादिक्रमेण पञ्चभिहेतुभिः सत्त्वं साधनीयम् इति ।

योगदर्शनम्[सम्पादयतु]

इदं दर्शनं सेश्वरसांख्यदर्शनमप्युच्यते । इतः पूर्व निरूप्यमाणस्य सांख्य दर्शनस्य निरीश्वरवादिदर्शनत्वात् । अस्मिन् योगदर्शने योगस्यैव प्राधान्यमनु भूयते । योगश्चास्ति-'चित्तवृत्तिनिरोधः' इति ।

अर्थात् चित्तस्य ( मनसः = अन्तःकरणस्य ) वृत्तेः सर्वतोभावेन निरोधः ( अवरोध ) एव योगः । इदमेव खल दर्शनं प्राधान्येन भारतस्य भारतीयतायाः प्रकाशको विस्तारको ग्राहकोऽनुग्राहकश्चेति वेदितव्यम् । .

तात्त्विकदृष्ट्या विचार्यमाणे इदमेव खल दर्शनञ्चास्ति प्राधान्येन भारत वर्षस्याऽऽध्यात्मिकोन्नतेः परम्परया साधनतावच्छेदकत्वेन कारणतावच्छेदकं, तदवच्छेदकं वेति विज्ञेयम् ।

सर्वैरेव खल्वास्तिक-नास्तिकप्रभृतिदानिकरस्य योगदर्शनघटकीभूतस्य योगस्योपयोगो विधीयते, उपयोगिता वा सम्पाद्यते । अधुनापि वर्तमाने विकराले कलिकालेऽस्य योगस्योपयोगं विदधानश्चास्ति महेशयोगी महात्मा, यश्च भावातीतध्यानपूर्णात्मकयोगाङ्गभूत-समाधि समुपदिशति, देशे विदेशे प्रचारयति, अग्रे प्रसारयति विस्तारयति च योगम् ।

'योगः कर्मसु कौशलम्'-गीता ।

'योगस्थः कुरु कर्माणि'-गीता ।

इति प्राचीनाचार्यचरणोक्तदिशा योगस्य महत्त्वं तत्त्वं वा बुद्धिगुहायां सन्निविष्टं सद् विज्ञायते ।

अस्य योगस्य क्रियात्मको भागोऽतीव जटिलः कठिनो दुष्करोऽपि सन् सर्वैरेव दार्शनिकैर्बुद्धिगुहायां सन्निविष्टं तदीयं महत्त्वं स्वीक्रियते गीयते समा द्रियते चेति विज्ञेयम् । यत आत्मज्ञानोपयोगित्वेनाऽङ्गीकृतस्य निदिध्यासनस्य सम्पादकत्वेन समपेक्षितानां यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा ध्यान-समाधीनां योगेनैव सम्भवो भवितुमर्हति नान्यथेति योगस्य तदीयमहत्त्व स्य च सर्वदार्शनिकसाधारणत्वमवगम्यते । तत्रापि ज्ञानांशमधिकृत्य सांख्यदर्शन स्यैव चास्ति साम्यमित्यवधेयम् ।

अस्य योगदर्शनस्य प्रमाणादीनां प्रमेयादिपदार्थानाञ्च विचारचर्चा सांख्य दर्शनतुल्यैव मन्तव्येति परन्तु तथापि योगदर्शने ईश्वरस्याऽङ्गीक्रियमाणत्वेन तत्साक्षात्कारार्थं यम-नियम-प्रभृतयोऽष्टौ योगाङ्गा अपेक्ष्यन्ते एतावांस्तु विशेषः अन्यत् सर्वं समानमेवेति ध्येयम् ।

केचन दार्शनिका विद्वांसोऽस्य सांख्यदर्शनस्य सेश्वर-निरीश्वरभेदेन द्विधा विभज्य तन्निरूपयन्ति । अत एव योगदर्शनघटकीभूतं 'योगम्' 'योगश्चित्तवृत्ति निरोधः' इति सूत्रेण वर्णयन्ति । महाभारतेऽप्युक्तम्

'हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः ।'[१०]

इत्यस्माद्-महाभारतवचनाच्च हिरण्यगर्भस्य योगवक्तृत्वं अन्यस्य चेतन तत्त्वस्य व्यक्तिविशेषस्य योगनिषेधकर्तृत्वं योगदर्शनस्य पुरातनत्वञ्च सिद्धयति, तथा योगदर्शनस्य हिरण्यगर्भ एवास्ति खलु प्राथमिकस्तावदाचार्य इति चाऽर्थत एवाऽऽयाति । अपि च याज्ञवल्क्योऽपि योगशास्त्रवेत्तृषु चास्ति प्राथम्येन पंरिगणित इत्यपि नूनं विदाकुर्वन्तु वेत्तारः ।

पतञ्जलिः[सम्पादयतु]

महर्षिप्रवरश्रीपतञ्जलिना विनिर्मितोऽयं प्राचीनतमो 'योगदर्शन'-नामको ग्रन्थ एवाऽस्मिन् दर्शने सर्वप्राथम्येन समुपलभ्यते । योगसूत्राणामुपरि श्रीव्यास विनिर्मितं भाष्यमपि मिलतीत्यपि सुनिश्चितमस्ति, सर्वैरेवाऽनुभूयते चापि । अयञ्च महर्षिप्रवरः श्रीपतञ्जलि: शेषावतारभूतः प्रभूतो विद्वान् व्याकरण महाभाष्यकारश्वासीत् ।

केषाञ्चिद्विदुषामिदमप्यस्ति कथनं यद्-योगसूत्राणामुपरि भाष्यकर्ता चास्ति व्यासो मुनिः । व्यासयोश्च द्वित्वसंख्यावत्त्वेनाऽयं निर्वचनविषयीभूतो व्यासो मुनिः पुराणमहाभारतादिनिर्मातासाद् भिन्न इति निर्धाय

अश्वत्थामाबलिप्सो हनूमांश्च विभीषणः ।

कृपः परशुरामश्च सप्तैते चिरजीविनः ॥'[११]

इति वचनानुसारतश्चास्त्येक एव व्यासः स चाऽजरोऽमरश्च स एव चास्ति योगसूत्रभाष्यरचयिता तथाऽष्टादशपुराणवेत्ता निर्माता चेत्यत्र नास्ति लेशतोऽपि विवादः ।

षड्दर्शनाचार्यः श्रीवाचस्पतिमिश्रोऽपि योगभाष्योपरि 'तत्त्ववैशारदी'ति नाम्नी टीकां रचितवान्, येन खलु भाष्यमवश्यमेव विशदीकृतं समभूत् । अयञ्च श्रीमिश्रः ८४१ ईसवीये इमामतीव वैदुष्यपूर्णां 'तत्त्ववैशारदी'-नाम्नी टीका निर्माय महतीं लोकोत्तरप्रतिभाशालिनी प्रसिद्धि प्राप्तवान् । । ।

एवं योगसूत्राणामुपरि चास्त्येका ‘राजमार्तण्डे'त्याख्या टीका श्रीभोजराज विरचिताऽतीव प्रशस्तेति गीयते । अयञ्च किल भोजराजो धीरेश्वरो वा जगदीश्वरो वा दिल्लीश्वरो वा रणरङ्गमल्लेश्वरो वेति नाधुनातनकालावच्छेदे नापि निश्चेतुं यथार्थतः शक्यते इति ।

विज्ञानभिक्षुः १६०० ईसवीये 'योगवात्तिकम्'-नामकं खल्वेकं योग दर्शनस्य ग्रन्थं लिखितवान् । तदनन्तरञ्च यतिप्रवरः श्रीरामानन्दः १७०० ईसवीये 'मणिप्रभा'-नाम्नी टीकामकरोत् ।

'प्रदीपम्' इति च भावागणेशो विरचितवांस्तदुपरि टीकाम् । तथैव महा पण्डितः श्रीनागेशोऽपि १७०० ईसवीये वर्षे योगसूत्रवृत्ति लिखितवान् । तदनन्तरञ्च श्रीअनन्तदेवो महामनीषी १८०० ई० योगसूत्राणामुपरि 'चन्द्रिका'-नाम्नी टीकां विहितवान् ।

मीमांसादर्शनम्[सम्पादयतु]

मीमांसादर्शनं पूर्वोत्तरमीमांसाभेदेन चास्ति भिन्नं द्विविधञ्च । तत्र पूर्व मीमांसादर्शनञ्चास्ति खलु जैमिनिमुनिना प्रणीतम् । उत्तरमीमांसां ज्ञानकाण्ड स्वरूपां रचितवान् चिरजीवनसम्पत्तिमान् भगवान् व्यासः ।

तत्र वेदान्तर्गतयज्ञयागादिस्वरूपकर्मकाण्डसम्बन्धे स्वास्तित्वेन समुपस्थि तानां विरोधिवचननिचयस्वरूपाणां वाक्यानां समन्वयात्मिक्या दृष्ट्या चास्येक वाक्यता संस्थापनमेवाऽस्य दर्शनस्य मुख्यमुद्देश्यम् ।

'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ।'[१२]

इति चास्ति कर्ममार्गप्रदर्शकमिदं पूर्वमीमांसादर्शनसम्बन्धावच्छिन्नं सर्वथा ऽविच्छिन्नं मन्त्रात्मकं वाक्यम् ।

अस्मिन् मते कर्मण एवाऽभ्युदयनिःश्रेयसयोः समवाप्तिजनकत्वेन तस्यैव प्राधान्येन सर्वतोभावेन च निरूपणीयत्वमवगम्यते । कर्मणा समुत्पन्नं धर्माऽ धर्मापरपर्यायभूतमपूर्व मेव साक्षात् कर्मजन्यफलजनकं भवतीति निर्वादितमिदं विषयजातम् ।

विचारस्यास्य सर्वत्रैव पूर्वमीमांसादर्शनग्रन्थेषु निरूपणीयत्वेन विशेषतोऽयं विचारः सर्वप्राथम्येनाऽस्माभिस्तत्रैवाऽनुभूतो दृष्टिपथे स्मृतिपथे च नीयते । अयञ्च खलु मीमांसाशब्दोल्लेखोऽपि संहिताब्राह्मणग्रन्थेष्वेव मिलतीत्यपि न तिरोहितमस्ति केषामपि पूर्वमीमांसाविदुषाम् ।

जैमिनिः[सम्पादयतु]

'मीमांसाकृतमुन्ममाथ सहसा हस्ती मुनि जैमिनिम् ।'[१३]

इति पद्यात्मकवाक्यघटकीभूत- जैमिनि' इति नामपदजन्यबोधविषयतां गतो जैमिनिमुनिः मीमांसाशास्त्रस्य जन्मदातृत्वेन सर्वतः प्राक् ( ई० पू० ५०० ) कालावच्छेदेन मीमांसासूत्राणि विरचितवान् ।

इमानि च सूत्राणि पूर्वमीमांसादर्शनशास्त्रस्य समुपलब्धग्रन्थेष्वतीव सन्ति प्राचीनानीत्यवश्यमेव मन्तव्यम् । अत एव 'चोदना' इति सूत्रस्य श्लोक वात्तिके कुमारिलस्वामीत्थं प्रोट्टङ्कितवान्–

'यद् वा वक्तुरभावेन न स्युर्दोषा निराश्रयाः' ।[१४]

अपि च--

'यदा स्वतः प्रमाणत्वं तदाऽन्यन्नैव मृग्यते ।

निवर्तते हि मिथ्यात्वं दोषाऽज्ञानादयत्नतः' ।[१५]

एतेन कुमारिलस्वामी 'चोदना' इति सूत्रमधिकृत्यैव वेदस्याऽपौरुषेयत्वं व्याख्यातवान् । यतः पुरुषप्रणीते एव वस्तुनि भ्रम-प्रमादादिदोषाः सञ्जायन्ते सम्भाव्यन्ते वेति वेदस्याऽपौरुषेयत्वमङ्गीकृतवान् मीमांसाशास्त्रीति पुरुषा ऽप्रणीते च वेदे कुतस्तत्सम्भवः ।

मीमांसादर्शनशास्त्रस्य प्रथमाध्यायस्य पञ्चमसूत्रीयभाष्यानुसारेणापि शबरमुनिः वेदाऽपौरुषेयत्वमङ्गीचकार, तदेव प्रस्फोरयति । तथाहि -

'तस्मात् कारणादवगच्छामो न कृत्वा सम्बन्धं व्यवहारार्थ केनचिद् वेदाः प्रणीताः ।' इति ।[१६]

पूर्वकालवतिनामपि आत्रेय-आश्मरथ्य-ऐतिशायन-लाबुकायन-कार्णाजिनि कामुकायन-बादर्यादीनां प्राचीनाचार्यचरणानां पूर्वमीमांसादर्शनशास्त्रिणा. मेतेषां सूत्रीयोल्लेखदर्शनात् तत्र बोधायनभाष्यमप्यासीत् सल्लिखितं यच्च साम्प्रतं नैवोपलभ्यते इति ।

पूर्वमीमांसाशास्त्रस्य सर्वतः प्राचीनास्तावदाचार्या वृत्तिकारत्वेन सन्ति प्रसिद्धि लभमानाः 'श्रीउपवर्ष'-नामानो मीमांसाशास्त्रपारङ्गता इति । एतेषां मतस्य साधारणतयोल्लेखं कृतवान् मीमांसाभाष्ये शाबरभाष्ये च श्रीशबर स्वामी तथा शारीरकभाष्ये श्रीशङ्कराचार्यः ।

श्रीकुमारिलभट्टः[सम्पादयतु]

कुमारिलभट्टनये ज्ञानसामान्यमेव चास्त्यतीन्द्रियम् । तदपि लौकिकविषयता शून्यमेव विज्ञेयम् । तथा च आत्मसमवेतलौकिकविषयतासम्बन्धेन प्रत्यक्षत्वा वच्छिन्नं प्रति धर्मादिवत् तादात्म्येन ज्ञानस्य प्रतिबन्धकत्वं वाच्यमित्य भिप्रायः ।

ज्ञानेन खल विषये 'ज्ञातता'-नामकः कश्चिद्धर्मो जन्यते । स च धर्मो 'मया ज्ञातो घटः' इति प्रतीतिसाक्षिको विषयताविशेषः प्रत्यक्षसिद्धो विज्ञेय इति । अत एव सा ज्ञातता ज्ञानजन्या प्रत्यक्षेति गीयते, तया च प्रत्यक्ष प्रमाण सिद्धज्ञाततया ज्ञानमनुमीयते । तथाहि

'इयं घट-पटादि विषयनिष्ठा ज्ञातता घटत्वप्रकारकघटविशेष्यक ( अयं घटः ) इति ज्ञानजन्या घटनिष्ठज्ञाततात्वात्' इत्यनुमानेन साध्यतावच्छेद ककुक्षि निक्षिप्तं ज्ञानं ज्ञायते, अनुमीयते ।

अयञ्च कुमारिलभट्टः ६२०-७०० ईसवीयकालवर्तित्वेन स्वास्तित्व सम्पन्नो मीमांसादर्शनवात्तिकनिर्माता सन् सुब्रह्मण्यावतारभूतत्वेन परि गण्यते स्म।

अपि च शाबरभाष्यस्य श्लोकवार्तिक-तन्त्रवार्तिक-टुप्टीकानां व्याख्यान रूपाणामपि कर्ता खल्वयमेव कुमारिलभट्टः श्रुयतेऽनुभूयते च द्रविडदेश निवासी चाऽयं भट्टः । अयमेव चास्ति स्वीयमतस्य स्वयमादिप्रवर्तक इत्यपि विज्ञेयम् ।

परिगणितेषु प्रमाणेषु श्रीकुमारिलभट्टः प्रत्यक्षाऽनुमानोपमानशब्दार्था पत्त्यनुपलब्धीनां षण्णां प्रमाणानामङ्गीकुर्वाणश्चास्ति खल्व भिहितान्वयवाद समर्थको नत्वन्विताऽभिधानस्येति ।

अपि चाऽयं कुमारिलभट्टोऽपूर्वार्थविषयकनिश्चिताऽबाधितदोषरहित कारणतो जायमानं लोकसम्मतं यत्तदेव प्रमाणम् इति वदति । तदतिरिक्ता अपि भाट्टास्तदेव समर्थयन्ति ।

श्रीप्रभाकरः[सम्पादयतु]

मीमांसादर्शनशास्त्रवेत्तृषु तथा तत्प्रवर्तकेषु च मीमांसकेषु पूर्णतया प्रसिद्धि लभमानोऽयं ( ६५०-७२० ) ईसवीये काले सर्वथा वर्तमानः 'गुरु'शब्देनोच्य मानः 'गुरु'पदजन्यबोधविषयतां गतो वा श्रीप्रभाकरः स्वीयमीमांसादर्शनशास्त्रे स्वमतस्य स्थलविशेषेषु किमपि वैलक्षण्यं वैजात्यञ्च दर्शितवान् ।

यथा तत्रैव श्रीप्रभाकरः खलु ज्ञानस्य व्यवसायात्मकस्य स्वप्रकाशतां स्वीकरोति । गुरूणां नये ज्ञानमात्रस्य मिति-मातृ-मेयै-तत्त्रितयविषयकत्वमङ्गी कृतमस्ति । अत एव प्रभाकरमते इन्द्रियसंयोगाद्यनन्तरं 'घटमहं जानामि' इत्याकारकं प्रत्यक्षं जायते।

तन्मते ज्ञानसामान्यस्यैव प्रमात्वेनाऽप्रमास्वरूपं ज्ञानमेव नास्ति अतः या कारणकूटात्मिका सामग्री ज्ञानं समुत्पादयति सैव सामग्री तादृशज्ञाननिष्ठं प्रामाण्यम् -प्रमात्वम् -याथार्थ्यमपि गृह्णाति इत्यतो ज्ञानस्य स्वप्रकाशत्वं ज्ञान ग्राहकसामग्रया गृह्य माणत्वेन साधु सङ्गच्छते ।

ज्ञानस्य तनिष्ठप्रामाण्यस्य च ज्ञानान्त रग्राह्यत्वाङ्गीकारे तादृशज्ञानान्तरस्य ज्ञानार्थं पुनर्ज्ञानान्तरापेक्षायां जायमानायामनवस्थायाः प्रसङ्गभङ्गार्थं ज्ञानस्य स्वप्रकाशतापक्ष एव श्रेयान् ।

अयञ्च श्रीप्रभाकरः स्वनिष्ठगुरुत्वभूषणभूषितः सन्नपि श्रीकुमारिलशिष्यः कारणविशेषवशादेव गुरुत्वमापन्नो निरुच्यमानान् श्रीभट्टाभिमतान् सिद्धान्तान् अंशतोऽनभ्युपगच्छन् प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यात्मकानि पञ्चप्रमाणानि एवाङ्गीकरोति । लघ्वी-बृहती-नामकटीकाद्वयस्य शाबरभाष्यस्योपरि कृतस्य रचयिता चास्त्ययं मीमांसकः श्रीप्रभाकरः ।

श्रोमुरारिमिश्रः[सम्पादयतु]

मुरारिमिश्राणां नयेऽनुव्यवसायेन घटमहं जानामि इत्याकारकेण 'अयं घटः' इत्याकारको ज्ञानरूपो व्यवसायो गृह्यते, तनिष्ठं प्रामाण्यञ्चापि तेनैव गृह्यते । इत्येते त्रयोऽपि मीमांसकाः सन्ति प्रामाण्यस्य स्वतोग्राह्यत्ववादिन इति ।

अयञ्च श्रीमिश्रो मीमांसकः । ११५०-१२२० ) ईसवीये काले सन्तिष्ठ मानः सन् 'मुरारेस्तृतीयः पन्था' इत्युक्ति चरितार्थयन्नासीत् । अत एव श्रीमिश्रो मीमांसाशास्त्रान्तर्गततृतीयसम्प्रदायस्य प्रवर्तकोऽभूदिति प्रसिद्धोऽयं विषयः ।

गङ्गेशोपाध्यायेन तथा तदात्मजेन श्रीवर्धमानोपाध्यायेन स्वीयग्रन्थेषु श्रीमुरारिमिश्रस्य तन्मतस्य च समुल्लेखो व्यधायि । श्रीमुरारिमिश्रः श्रीभव नाथमिश्रस्यापि मतस्य खण्डनं कृतवान् ।।

एवमस्य श्रीमुरारिमिश्रस्य-१. 'त्रिपादीनीतिनयन', २. 'एकादशाध्या याधिकरण'-नामको खल्बधिकरण-विवेचनात्मकौ द्वावेव ग्रन्थावेतावत्काला वच्छेदेन समुपलभ्येते। 'त्रिपादीनीतिनयने'ति नामजन्यबोधविषयतावती मीमांसासूत्राणां प्रथमाध्यायस्य द्वितीयादिचतुर्थपादान्ता 'त्रिपादीनीतिनयन' नाम्नी काचिदस्ति टीका ग्रन्थाकारा या ग्रन्थनाम्नापि व्यवह्रियते च ।

श्रीमण्डनमिश्रः[सम्पादयतु]

अयञ्च श्रीमण्डनमिश्रः कुमारिलभद्रस्य प्रधानशिष्यः ( ८०० ) ईसवीय काल वत्ती मीमांसाशास्त्रीयप्रतिभाभास्वरः सन् मीमांसादर्शनशास्त्रस्य प्रौढ विद्वान् आसीत् । शङ्कराचार्यदिगविजयानुसारमियमस्ति प्रसिद्धिर्यत् श्रीशङ्करा चायण सहास्य शास्त्रार्थो जातस्तत्र पराजयप्राप्त्यनन्तरं तुरीयावस्थाया मयं श्रीमण्डनमिश्रः श्रीशङ्कराचार्य निरूपितां शिष्यतां लेभे इति च नास्ति तिरोहितोऽयं विषयः केषामपि दार्शनिकविदुषाम् । तथाऽयमेव पुनः सुरेश्वरा चार्यनाम्नाऽपि प्रसिद्धि प्राप्तवान् । अस्य ग्रन्थाः-१. 'विधिविवेकः' ( विध्यर्थ विचारापरपर्यायभूतो ग्रन्थः ), २. 'मीमांसानुक्रमणी', ३. 'विभ्रमविवेकः' ( पञ्चानां ख्यातीनां व्याख्यानात्मको विचारः ), ४. 'मीमांसासूत्रानुक्रमणी' ( मीमांसासूत्राणां श्लोकबद्धो विचारः ), ५. 'भावनाविवेकः' ( आर्थीभावनाख्यः मीमांसारूपः ) इत्यादिग्रन्थानामपर्यक्तानां चास्ति विनिर्माणकर्ता श्रीमण्डन मिश्रः । अयञ्चास्ति महानेवोपकारः पूर्वमीमांसाशास्त्रस्य ।

अयञ्च श्रीमिश्री मैथिलब्राह्मणवंशावतंसः पाटलीपुत्रनिवासी चासीत् । श्रीमण्डनमिश्रविरचितविधिविवेकग्रन्थस्योपरि श्रीवाचस्पति मिश्र एका 'न्याय कणिका'-नाम्नी टीका लिखितवान् यया विशदीकृतवान् विधिविवेकम् ।

श्रीशबरस्वामी[सम्पादयतु]

अयञ्च श्रीशबरस्वामी ( २०० ) ईसवीयकालान्तर्वर्ती सन् समस्तद्वादशा ध्यायान्तर्गतसूत्राणामुपरि विस्तृतं प्रामाणिकञ्च भाष्यं यच्च 'शाबरभाष्य' नाम्ना चास्ति प्रसिद्धि गतं विरचितवान् । इदञ्चास्ति भाष्यं सर्वथा मीमांसा शास्त्रीयवैदुष्यपरिपूर्णमिति सर्वेऽपि मीमांसका विदन्ति, वदन्ति च ।

अयञ्चापि शाबरभाष्यनामको ग्रन्थस्तुलनात्मिकया दृष्ट्या विचार्यमाणे महषिपतञ्जलिना विरचितेन महाभाष्येण तथा श्रीशङ्कराचार्यविरचितेन शाङ्करभाष्येण साम्यं खलु विभीति नात्र किमपि विचारणीयमस्ति ।

अस्य श्रीशबरस्वामिविषये यद्यपि चास्ति बहुवक्तव्यमन्यदपि । तथापि तद् बहुवक्तव्यं नात्र प्राकाश्यं नीयते लेख विस्तरभयात् बहुवादिविदुषामसम्मत त्वाच्चेति पुनद्वितीयाद्यावृत्तौ तदुल्लेखो भविष्यति इति ।

इयञ्च मीमांसा द्वादशलक्षणी भवति । तत्र खल परमार्थतो विचार्यमाणे सतीदमेबाऽऽयाति

१. प्रथमाऽध्याये विध्यर्थवाद-मन्त्र-स्मृति-नामधेयार्थकस्य शब्दसमुदायस्य प्रामाण्यं विचारितम् ।

२. द्वितीयाऽध्याये च कर्मभेदरूपः, प्रमाणापवादरूपः, प्रयोगभेदरूपश्चार्थो प्रस्फोरितः ।

३. तृतीयाऽध्याये च श्रुति-लिङ्ग-वाक्य-प्रकरणादीनां बलाऽवलभावप्रभृतयो विषया विचारिताः ।

४. चतुर्थाध्याये च प्रधानप्रयोजकत्वाऽप्रधानप्रयोजकत्व, राजसूययज्ञाङ्ग भूताऽक्षयूतादिविचारः ।

५. पञ्चमे चाऽध्याये क्रमवोधकश्रुति-अर्थ-पाठादीनां प्राबल्याऽप्राबल्य विचारः ।

६. पष्ठाऽध्याये चाऽधिकारि, तद्धर्माणाम्, अर्थलोपनप्रायश्चित्तस्य, याज्ञिक वह्निविचारः ।

७. सप्तमे घाऽध्याये प्रत्यक्षवचनातिदेश-लिङ्गातिदेशकथनम् इति । ८. अष्टमाऽध्याये च खल स्पष्टाऽस्पष्टप्रबललिङ्गातिदेशापवादकथनम् ।

९. नवमाऽध्याये चास्ति तत्र ऊहविचारारम्भस्य, सामोहस्य, मन्त्रीहस्य चैतेषां विषयाणां विचारः ।

१०. दशमे चाऽध्याये ग्रहादिसामप्रकीर्णनञर्थकथनम् ।

११. एकादशेऽध्याये चापि तन्त्रोपोद्घात, तन्त्रावापतन्त्रपञ्चनावापप्रभृति। विषयाणां विचारः।

१२. द्वादशे चाऽध्याये प्रसङ्गतन्त्रिविनिर्णयप्रभृतीनां विषयाणां विचारः । एवं तत्रैव पुनः 'अथातो धर्मविचारः' इत्यादिसूत्रार्थविचारोपपादनम् ।

तथा तदनन्तरञ्च 'चोदनालक्षणोऽर्थो धर्मः-जै० सू० १।१।२ । इति सूत्रार्थनिर्णयपूर्वकत्वेन विचारः ।

एवं तत्रैव पुनरग्रे वेदानामपौरुषेयत्वशङ्कासमाधानपूर्वकः 'अपौरुषेया वेदाः सम्प्रदायाऽविच्छेदे सति अस्मर्यमाणकर्तृकत्वात् आत्मवदिति विचारः ।

पार्थसारथिमिश्रः[सम्पादयतु]

अयञ्च श्रीपार्थसारथिमिश्रः ११५०-१२२० ईसवीये काले स्वास्तित्व सम्पन्न आसीत् इति श्रूयते । श्रीयज्ञात्माऽऽत्मजो मैथिलवंशावतंसो ब्राह्मण शरीरावच्छिन्नो भाट्टमार्गाऽनुगामी चासीदित्यपि खलु श्रूयते एव । अयं महानु भावो विद्वान् 'टुप्'-टीकायास्तन्त्ररत्ननाम्नी तथैव च श्लोकवात्तिकस्य न्याय रत्नाकरनिभां न्यायरत्नाकराख्यां टीकाम्, एवं मीमांसासूत्राणां द्वादशाध्याया नाञ्च शास्त्रदीपिकाऽभिधानी टीकां रचयामास ( लिखितवान् ) ।

अपि च 'न्यायरत्नमाला'ऽप्यस्ति पार्थसारथिमिश्रविरचिता, यत्र च श्रीमिश्रः स्वतः प्रामाण्यवादस्य व्याप्तिप्रभृतिसप्तविषयाणाञ्च स्वातन्त्र्येण विशदी कृतं समीक्षणं सन्निहितवान् ।

अस्यैव 'न्यायरत्नमाला'-नामकग्रन्थस्योपरि चास्ति श्रीरामानुजाचार्यस्य 'नाणकरत्न' नामक व्याख्यानं यच्चेदानीमेव प्रकाशितं जातम्, इत्यादि रूपेणाऽस्यापि महानुभावस्य श्रीपार्थसारथिमिश्रस्य मीमांसादर्शनशास्त्रस्य कृते बहु देयमस्तीति स्वयमनुभूयताम् ।

श्रीवाचस्पतिमिश्रः[सम्पादयतु]

एवमेव षड्दर्शनाचार्यः श्रीवाचस्पतिमिश्रः नवमशतकेसवीये ( ९०० ) तत्त्वबिन्दुग्रन्थस्योपरि 'भावनाविवेक'नाम्नी टीकाम्, 'न्यायकणिका'ऽभिधानीञ्च टोकां विरचितवान् मीमांसादर्शनशास्त्रे । अयञ्च श्रीमिश्रः कुमारिलभट्टमार्गा नुगामी आसीदिति श्रूयते, इति महानेव संक्षिप्तोऽयं विषयः ।।

१. शालिकनाथ,

२. वेदान्तदेशिक,

३. माधवाचार्य,

४. खण्डदेव,

५. अप्पयदीक्षित,

६. रामकृष्णभट्ट,

७. आपदेव-प्रभृतीनामपि पूर्वमीमांसादर्शन शास्त्रिणां खल्वस्य शास्त्रस्य कृते बह देयमस्तीति तद् बहुप्रदानं पुनः प्राकाश्यं नेष्यामि द्वितीयाद्यावृत्तौ ।

१. श्रीशालिकनाथः ६९०-७६० ईसवीये सन्तिष्ठमानः प्रभाकरनिरू पितां शिष्यतां बिभ्राणः, स्वकीयगुरोः श्रीप्रभाकरस्य 'लघ्वी'-टीकाया उपरि 'ऋजुविमलां'-नाम्नी टीकां विहितवान्, 'बृहती'-टीकाया उपरि 'दीपशिखा' ऽभिधानी टीकां कृतवान्, तत्र च 'गुरुमतसमर्थनं हृदयतः सुचारुतया च विहितवान् ।

२. वेदान्तदेशिकः १२६९-१३७६ ईसवीये वर्षे स्वीयं शास्त्रीयं जीवनं यापयन् 'वेङ्कटनाथे'त्यपरनामधेयः खलु दाक्षिणात्यकुलभूषणभूषितः मीमांसासूत्राणामुपरि टीकां विदधानः रामानुजसम्प्रदायाचार्यः कश्चिद् विद्वानासीत् ।

३. श्रीमाधवाचार्यः १२९७-१३८६ ईसवीये स्वस्थितिं लभमानः किल वेदभाष्यकर्तृ-श्रीसायणस्य ज्येष्ठभ्राताऽयं 'विद्यारण्ये'त्यपरनामधेयो विविध ग्रन्थनिर्माता 'न्यायमालाविस्तर'-नाम्न्या द्वादशलक्षणवत्याष्टीकायाः प्रसिद्धि प्राप्तष्टीकाकार आसीत् ।।

४. श्रीखण्डदेवः काशीनिवासी दाक्षिणात्यकुले जन्म लभमानो ब्राह्मण शरीरावच्छिन्नः सन् श्रीरुद्रदेवात्मजः पण्डितराजश्रीजगन्नाथस्य पितृचरणश्री पेरुभट्टस्याऽयं साक्षादेव गुरुरासीत् । तथा मीमांसाशास्त्रस्य-१. भाट्टकौस्तुभ, २. भाट्टदीपिका, ३. भाट्टरहस्यानां, त्रयाणामेतेषां ग्रन्थानां रचयिताऽऽसीत् ।

५. श्रीअप्पयदीक्षितः १५२०-१५९३ ईसवीये वर्षे स्वास्तित्वसम्पन्नः सन् 'मीमांसाविधिरसायन'-ग्रन्थनिर्माणकर्ता श्रीरंगराजाध्वरीन्द्र धुरीणपुत्रो ब्राह्मणत्वजात्यवच्छिन्नो दाक्षिणात्यकुले जन्म लभमान आसीत् ।।

६. श्रीरामकृष्णभट्टोऽपि १७०० ईसवीये वर्षे संस्कृतजनताजनार्दन स्योपकारमावहन् विद्वन्मूर्धन्यः पूर्वकालावच्छेदेन मालवप्रान्ते निवासं विदधा नस्तदनन्तरकालावच्छेदेन वाराणसीनिवासी चायं जात इति श्रूयते । तथा 'युक्तिस्नेहप्रपूरणी'-नामिकायाष्टीकायाः कर्ताऽप्यासीत् ।'

७. श्रीआपदेवः १५८०-१६५० ईसवीये काले स्वस्थिति लभमानः स्वास्तित्वं स्वीयं जीवनञ्च सूचारुतया निर्वहन् 'मीमांसान्यायप्रकाशम्' मौलिक ग्रन्थ रचितवान् । अस्य ग्रन्थस्य 'आपोदेवी'त्यपि चास्ति खल्वपरं नामधेयम् । एकनाथमहात्मनो वंशे स्वजनिं लभमानो दाक्षिणात्यकले जातो ब्राह्मणत्वजात्यवच्छिन्नोऽनन्तस्य पुत्रोऽयं विद्वान् काशीवास्तव्य आसीत् । विशेषस्तु पुनरिति ।

वेदान्तदर्शनम्[सम्पादयतु]

सर्वाण्येव दर्शनानि-आध्यात्मिकताप्रतिपादनपरत्वेनाऽऽध्यात्मिकशास्त्राणि गायन्ते । वेदान्तस्यापि तथात्वेनाऽऽध्यात्मिकशास्त्रत्वमक्षण्णमेवेति बोध्यम् ।

वदान्तो नामोपनिषत्प्रमाणम् । तदुपकारीणि शाराारकसूत्रा स्यान्ते ज्ञानस्यैव निरूपणीयत्वेन ज्ञानं ब्रह्मेति सिद्धम् । वेदान्तशास्त्रे पदार्थस्य जड-चेतनभेदेन द्वैविध्यमङ्गीकृतमस्ति । तत्र चेतनपदजन्यबोधविषयतावद् ब्रह्म । तदन्यश्च सर्वोऽपि जडपदार्थः । मायाया मायाकार्यस्य च सर्वस्यापि जगतो जड पदार्थत्वेन तदतिरिक्तं किमपि नास्त्येवेति ध्येयम् इति ।

एवं वेदान्ते सत्यमिथ्याभेदेन पदार्थो द्विविध इत्यपि वक्तुं शक्यते । तत्र सत्यपदार्थो ब्रह्म। तदतिरिक्तं सर्वं माया, मायाकार्य च सर्वमेव जगच्चास्ति मिथ्याभूतं जडात्मकं चेति ।

इत्थञ्च वेदान्तदर्शनशास्त्र द्वयोरपि पदार्थयोरेक एव ब्रह्मपदार्थो मुख्य स्तस्य चेतनत्वात् वस्तुत्वाच्च । स च ब्रह्मपदार्थो ज्ञानरूपः । तथाहि -

'सत्यं ज्ञानमनन्तं ब्रह्म।'

'नित्यं विज्ञानमानन्दं ब्रह्म।'

'प्रज्ञानं ब्रह्म ।'

इत्यादिश्रुतयः सर्वा अपि ब्रह्मणो ज्ञानरूपतां प्रतिपादयन्ति । ज्ञानातिरि क्तस्य सर्वस्य चाऽवस्तुत्वं, जडत्वम्, अज्ञानरूपत्वम्, अज्ञानकार्यत्वञ्च सिद्धयति । अत एव ज्ञानातिरिक्तस्य सर्वस्याप्यन्धकाररूपता स्वतः सिद्धयति ।

एतावता प्रबन्धेन निखिलदृश्याकारपरिणतमायायास्तत्कार्यस्य च आश्रय भूतत्वात् सर्वप्रकाशकत्वाच्च ब्रह्मण एव परमार्थतस्त्रिकालाऽबाध्यत्वरूपं सत्य त्वमायातीति चिदात्मब्रह्मणोऽतिरिक्तं सर्वमेव मायिकमत एव स्वाप्निकम् ( स्वप्नतुल्यम् ) अत एवाऽज्ञानकल्पितम्।

कल्पितस्य च सर्वस्यापि सांसारिकपदार्थस्य मिथ्यात्वेन परमार्थतः स्वास्तित्वविहीनत्वं निश्चीयते। केवलं संसारस्य सांसारिकपदार्थानां च व्यावहारिकत्वेन ते व्यवहाराय कल्प्यन्ते ।

नो चेदयमस्ति वेदान्तसिद्धान्तः सोऽपि श्रुतिप्रतिपाद्यः, ब्रह्मसूत्रप्रतिपाद्य स्तदीयभाष्यसमर्थितो भगवद्गीताऽनुमोदितश्च-'ब्रह्मवेदं सर्वम् ।'–बृ० उ० २।५।१; 'आत्मैवेदं सर्वम् ।'-छा० उ० ७।२५।२; 'सच्चिदानन्दरूपमिदं सर्वम् ।'-नृ० ता० उ० ७; 'अहमेव जगत् सर्वम् ।'—तेजोबि० उ० ६।४३; इत्ययं सिद्धान्तो भज्येत । अत एवैतादृश सिद्धान्तभङ्गप्रसङ्गेऽद्वैतहानिरूपाऽप सिद्धान्तापत्तिरूपो दोषोऽपि प्रसज्येत ।

अत ज्ञानातिरिक्तस्य सर्वस्याऽवस्तत्वं, जडत्वम् अज्ञानरूपत्वं स्वास्तित्व विहीनत्वञ्चाऽङ्गीकुर्वाणो वेदान्ती 'सत्यं ज्ञानमनन्तं ब्रह्म', 'नित्यं विज्ञानमा नन्दं ब्रह्म' इत्यादिश्रुतीः समाश्रित्यैव केवलं स्वसत्ताकस्य शुद्ध-बुद्ध-मुक्तस्व भावस्य त्रिकालाऽबाध्यस्य ब्रह्मणो ज्ञानरूपतापक्षस्यैव श्रेयस्करत्वं ब्रूते

'ज्ञानाद् ऋते न मुक्तिः ।'

'ज्ञानादेव हि कैवल्यम् ।'

एवम्भूताः श्रुतयोऽपि ज्ञानरूपतापक्षमेव समर्थयन्ति, अनुमोदयन्ति, प्रति पादयन्ति च ।

अष्टविधभाग्यकारविवेचनम्[सम्पादयतु]

व्यासविरचितस्य ब्रह्मसूत्रस्योपरि अष्टविधाऽऽचार्यप्रवराः प्रसिद्धि प्राप्ता भाष्यकारा मिलन्ति । ते च यथा -

१. श्रीशङ्कराचार्यः-श्रीशङ्करावतारभूतः ।

२. श्रीभास्कराचार्यः-भेदाभेदमतप्रवर्तकः सर्वथा सगुणब्रह्मवादी चायम् ।

३. श्रीरामानुजाचार्यः-श्रीभाष्यस्य निर्माता, तथा विशिष्टाद्वैतमत प्रवर्तकः ।

४. श्रीमध्वाचार्यः–पूर्णप्रज्ञाऽऽनन्दतीर्थाऽपरनामधेयः, 'वासुदेवे'ति च बाल्यावस्थाया नाम।

५. श्रीनिम्बार्काचार्यः–वेदान्तपारिजातसौरभनामकब्रह्मसूत्रस्य भाष्यस्य निर्माता।

६. श्रीश्रीकण्ठः, श्रीकण्ठाचार्यो वा ( १२८० ईसवीयः )-ब्रह्मसूत्रस्य शैवभाष्यविनिर्माता।

७. श्रीश्रीपतिः ( १४०० ईसवीयः )-श्रीकरभाष्यं विनिर्मितवान् ब्रह्म सूत्रस्य ।

८. श्रीवल्लभाचार्यः ( १५०० ईसवीयः )—वैष्णवसम्प्रदाये पुष्टिमार्ग प्रवर्तकः, ब्रह्मसूत्रस्य व्याख्याने अणुभाष्यं निर्मितवान् ।

अद्वैतवेदान्तस्य प्रमुखा आचार्याः[सम्पादयतु]

१. श्रीआत्रेयः-आत्रेयमतानुसारं कर्मजन्यं फलं यजमानस्यैव भवति ।

२. श्रीआश्मरथ्यः-अस्य मते विज्ञानात्म, परमात्मनोश्चास्ति 'भेदाऽभेद सम्बन्धः' इति ।

३. श्रीऔडुलोमिः-संसारदशायाञ्चास्ति जीवेश्वरयोर्भेदः । मोक्षाऽवस्था याञ्चाऽभेद इति बोध्यम् ।

४. श्रीकाष्र्णाजिनिः-अस्यापि महाविदुषः स्वकीयं विशिष्टं मतमस्ति ।

५. श्रीकाशकृत्स्नः-एतन्मते परमेश्वर एवाऽस्मिन् संसारे चास्ति जीव रूपेण सन्तिष्ठमानः स एव च चराचरात्मकं जगदिदं चालयति । जीवश्च नास्ति परमात्मनो विकारः ।

६. श्रीजैमिनिमुनिः–प्रसिद्धोऽयं श्रीव्यासशिष्यो महात्मा, पूर्वमीमांसाया जन्मदाता ।

७. श्रीवादरिः-एतन्मते वैदिककर्मानुष्ठाने चास्ति सर्वेषामेवाधिकारः परन्तु जैमिनिना तन्निरस्य शूद्रव्यक्तिरिक्तानामधिकारस्तत्र व्यवस्थापितः स्थिरीकृतश्चेति ।

८. श्रीआचार्यकश्यपः-अस्यापि खल आचार्यप्रवरस्य कश्चित् सूत्रग्रन्थ आसीत् । तत्र चास्य भेदवादो मिलतीति भेदवादी चायं कश्यपः सुस्पष्टं प्रतीयते इति ।

अद्वैतमतम्[सम्पादयतु]

श्रीव्यासोदितस्य श्रीशङ्कराचार्यद्वारा परिवधितस्य चाऽद्वैतवेदान्तस्य सम्य क्त्वेन तज्ज्ञानशीलानाञ्च विदुषां वेदान्तशास्त्रमर्मज्ञानामयमस्ति सिद्धान्तः ।

यथा-अधिष्ठानाऽज्ञानवशाद् रज्जौ सर्पत्वप्रकारकः 'अयं सर्पः' इति भ्रमो जायते । रज्जुस्वरूपाऽधिष्ठानसाक्षात्काराच्च स निवर्तते ।

तथैव कर्मणा वृद्धि प्राप्तमज्ञानमधिष्ठानस्वरूपब्रह्मात्मज्ञानेन ( ब्रह्मसाक्षा त्कारेण आत्मसाक्षात्कारेण ) नश्यति, तदनन्तरञ्चात्मा यथार्थत एव प्रतीयते । यथा भगवद्भास्करोदयेऽन्धकारमात्रं सर्वथा नश्यति, तथैव ब्रह्मात्मस्वरूप ज्ञानोदये प्रकाशोदये वाऽज्ञानं सर्वथा नश्यति । अज्ञाननाशे सति सर्वं जगत् ब्रह्ममयं सदेव दृष्टिगोचरीभूतं भवति । यथोक्तम्

'कृत्वा ज्ञानमयी दृष्टि पश्येद् ब्रह्ममयं जगत् ।'

परन्तु तावतापि अज्ञानकार्याणि शरीरेन्द्रियाणि तिष्ठन्त्येव । अत्र कुमारी औषधी एको दृष्टान्तः, धूमस्तु द्वितीयः, इषुवेगश्च तृतीयो दृष्टान्तः । अर्थात् कुमारी स्वकारणभूतमूलकारणनाशानन्तरमपि तिष्ठत्येव, एवं धूमोऽपि स्व कारणीभूताऽग्निनाशानन्तरमपि सन्तिष्ठमानो भवत्येव, एवमिषुनिष्ठो वेगाख्य संस्कारोऽपि स्वकारणभूताऽऽकर्षणसंयुक्तज्या इषुसंयोगनाशानन्तरमपि इषुनिष्ठो वेगाख्यः संस्कारः खलु तिष्ठत्येव ।

तद्वदेव दार्टान्तिके देहेन्द्रियादीनां कारणीभूताऽज्ञाननाशेऽपि देहेन्द्रियादीनि सन्तिष्ठमानानि भवन्त्येव । तेषां विनाशो कदा जायते इति चेत् ? शरीरेन्द्रिय विनाशार्थं नास्ति कश्चन नियमः । प्रारब्धं यदा नश्यति, तदैव देहेन्द्रियादि विनाशो जायते नान्यथा ।

अत्र ईश्वरकृष्णोऽपि स्वीयां सम्मतिं प्रययच्छति, प्रमाणयति च । तथाहि -

'सम्यग् ज्ञानाधिगमाद्धर्मादीनामकारणप्राप्तौ ।

तिष्ठति संस्कारवशाच्चक्रभ्रमवद्धृतशरीरः ॥'[१७]

इत्थञ्च स्वप्रकाशचिदात्मनो व्यतिरिक्तं सर्वमेव चास्ति मिथ्याभूतं कल्पि तञ्च । अत एव तत् सर्वं स्वाप्निकं मायिकञ्चाऽज्ञानकल्पितमिति स्वास्तित्व विहीनन्तत् । ब्रह्माद्वैते चास्ति श्रुतीनां प्रामाण्यम् -

'तत्त्वमसि ।' 'अहं ब्रह्मास्मि ।' 'सच्चिदानन्दरूपमिदं सर्वम्'-नृसिंहोत्तरता, प० ७ । 'ब्रह्मैवेदं सर्वम्'–बृहदारण्यकोप० २।५।१ ।

इत्यादि श्रुतयः सर्वा अपि तस्य नित्य-शुद्ध-बुद्ध-मुक्तस्वभावस्य निर्गुणस्य निष्कलस्य. निविशेषस्य च स्वप्रकाशचिदात्मनो ब्रह्मणोऽद्वैतं प्रतिपादयन्ति 'एकमेवाद्वितीयं ब्रह्मेति च समुद्घोषयन्ति, इति तु परमार्थः ।

अन्ततो गत्वाऽयमेव वेदान्तनिष्कर्षः प्रदर्यते यद् वेदान्तः सकलचरा चरात्मकजगतो मूलन्त्वादिकारणञ्चास्ति अध्यासो वाऽविद्या वेति । अयञ्चा ऽध्यासोऽविच्छिन्नप्रवाहरूपो नैसर्गिको मिथ्याप्रत्ययलक्षणः, कर्तृत्वभोक्तृत्वरूपो लोकव्यवहारप्रवर्तकः । तथा चोक्तम्

‘एवमनादिरनन्तो नैसर्गिकोऽध्यासो मिथ्याप्रत्ययरूपः कर्तृत्वभोक्तृत्व प्रवर्तकः लोकव्यवहारहेतुः । अध्यासबलेनैव प्रमाणप्रमेयरूपसमस्तलोकव्यवहारः प्रवर्तते।'[१८]

स चाऽध्यास अतस्मिस्तबुद्धिरूपः, अविद्याशब्देनापि कथ्यते । अयमेवा ऽविद्यालक्षणलक्षितोऽध्यासो रज्जौ सर्पत्वप्रकारकम् 'अयं सर्पः' इत्यारोपं जन यति । एवं शुक्तौ रजतत्वप्रकारकमिति । तदनन्तरकालावच्छेदेनैव रज्जौ सर्पत्वप्रकारिका बुद्धिः, शुक्तौ च रजतत्वप्रकारिका बुद्धिरुदेति । तन्निवृत्तौ च तन्निवृत्तिरिति वास्तविकं ज्ञानं जायते ।

अज्ञानस्वरूपविचारः[सम्पादयतु]

स्वस्वरूपाऽज्ञानमेव अज्ञानस्वरूपम् । तत्र केऽपि स्वस्वरूपं न जानन्तीति चेन्न जानन्तु ते, परन्तु ये जानन्ति ते स्वस्वरूपं किमिति जानन्तीत्युक्ते अहं मनुष्यः, अहं ब्राह्मणः, अहं पुरुषः, अहं क्षत्रियः, अहं वैश्यः, अहं हरिजनः, इत्यादिप्रकारैः स्वस्वरूपं जानन्तीति ज्ञानमेवाऽज्ञानम् । तस्मात् केऽपि स्वरूपं न जानन्तीति स्वस्वरूपाऽज्ञानमेवाऽज्ञानस्य स्वरूपमिति पर्यवसितम् ।

ननु मनुष्यः स्वीयं स्वरूपं मनुष्यत्वेन जानाति 'अहं मनुष्यः' इति जानाति बलिवई इति न जानाति । एवं स्त्री स्त्रीत्वेन स्वीयं स्वरूपम्, 'अहं स्त्री'ति जानाति न तु पुरुषत्वेन स्वं पुरुषः किल जानाति, नाऽपि पिशाच इति । एवम् सर्वेऽपि प्राणिनः स्वं स्वं प्रमात्वेनैव जानन्तीति स्वस्वरूपं न जानन्तीति वक्तुं नहि शक्यते ।

तन्न समीचीनम्, सर्वथा स्वयं मनुष्य एव भवेत् गतजन्मन्यपि मनुष्य एव भवेत्, आगामि जन्मन्यपि मनुष्य एव भवेत्, एवं गतजन्मन्यपि देवो वा यक्षो वा किन्नरो वा स्थावरो वा भवेदिति को वेद ? स्वस्य मनुष्यत्वमेव स्वतः सिद्धं चेत् । अग्रिमजन्मसू देवादिशरीराणि ममापेक्षितानीति अस्मिन् जन्मनि केऽपि स्वेष्टदेवस्य प्रसन्नताजनकीभूतोपासनाजनकीभूतयागादिक्रियां न कुर्युः कुर्वन्ति च । तस्मात् स्वस्वरूपं मनुष्यादिरूपेण ते जानन्ति तत्स्वरूपज्ञानं न भवति ।

ननु शास्त्रवेत्तारो विद्वांस आत्मस्वरूपमीदृशमीदृशमिति दृढनिश्चयवन्तस्ते कथन्न जानन्तीत्युच्यते चेत्, शास्त्रज्ञेषु चार्वाकः स्थूलशरीरमनात्मस्वरूपमेव आत्मेति जानाति इति सः शास्त्रज्ञोऽपि सन्नवाऽऽत्मनः स्वरूपं न जानाति ।

एवमन्येऽपि चार्वाकाः सन्ति प्राणोपासका, इन्द्रियोपासका, मनसः आत्म त्वेन समुपासकास्तेऽपि अनात्मस्वरूपं प्राणादिकमेव आत्मत्वेन जानन्ति, अतः शास्त्रज्ञा अपि आत्मनः स्वरूपं नैव जानन्ति ।

तथैवाऽन्येऽपि बौद्धाः शशविषाणतुल्यत्वेनाभिमतं शून्यमेव आत्मेति विदा कूर्वन्तीति ते शास्त्रज्ञा अपि आत्मनः स्वरूपं नैव विदन्ति । तथा सति आस्तिका ये सन्ति शास्त्रज्ञा मीमांसकादयः रामानुजाश्च माध्वाश्च ते एवा ऽऽत्मस्वरूपं जानन्त्विति चेन्न ।

मीमांसकादयः परिपूर्णमात्मानमणुपरिमाणत्वेन जानन्ति इत्यतस्ते शास्त्रज्ञा अपि आत्मस्वरूपं नैव जानन्ति ।

एवं नैयायिक-वैशेषिकप्रभृतयोऽपि आत्मनश्चैतन्यं विभुत्वमभ्युपगच्छन्ति तावतापि ते आत्मनो नानात्वं चैतन्यञ्चाङ्गीकुर्वन्ति । जडभिन्नस्य तस्यात्मन श्चित्वं गुण इति चाङ्गीकुर्वन्ति, निर्गुणस्यात्मन इच्छादयो गुणाश्च स्वीकुर्वन्ति, दकस्वरूपस्याऽऽत्मनो दृश्यत्वञ्च मन्यन्ते इत्यत इमे शास्त्रज्ञाः सन्तोऽप्यात्मनः स्वरूपं नैव जानन्ति ।

एवं साङ्ख्यमतानुयायिनः, योगमतानुयायिनश्चाऽऽत्मनो विभुत्वं सच्चिदा नन्दस्वरूपत्वम् असङ्गत्वञ्चाङ्गीकुर्वन्ति तावतापि पुनः नानात्वं जगतश्च सत्यत्वं स्वीकुर्वन्ति । तत्रापि सन्ति साङ्ख्या निरीश्वरवादिनः, योगाः पातञ्जला जीवेश्वरयोर्भेदमभ्युपगच्छन्तीति ते शास्त्रज्ञाः सन्तोऽपि आत्मस्वरूपं नैव जानन्ति ।

न जानन्तु नाम, वेदान्तशास्त्रवेत्तारो वेदान्तिन एवाऽऽत्मानं जानन्ति इति चेत्तेऽपि मुमुक्षवोऽमुमुक्षवश्चेति सन्ति द्विविधाः । तेषु अमुमुक्षवश्चतुर्विधाः ।

ते के इति पृष्टे—

१. प्रयोजनार्थ केचन पठन्ति ।

२. पूजार्थं केचन पठन्ति ।

३. केचन आत्मीयलोकप्रसिद्धयर्थमेव केवलं पठन्ति ।

४. इतरमतप्रविष्टाः सन्तो वेदान्तशास्त्रमर्मज्ञानार्थं दूषयितुञ्च वेदान्तशास्त्र केचित् पठन्ति ।

एते चतुष्टवसङ्ख्यावन्तोऽपि वेदान्तशास्त्रज्ञा आत्मस्वरूपं नैव जानन्ति ।

इदानीमत्रैवाऽज्ञानस्वरूपं लेखविस्तरभयात् परिसमाप्यतेऽतोऽन्ततोगत्वा स्वस्वरूपाऽज्ञानमेव चास्ति खल्वज्ञानस्वरूपमिति कृत्वा मया विरम्यते इति ।

श्रीगौडपादाचार्यः[सम्पादयतु]

श्रीगौडपादाचार्यो महान् वेदान्तशास्त्रवेत्ता ५५० ईसवीये वर्षे स्वास्तित्व सम्पन्नः खलु माण्डूक्यकारिकां रचितवान् । अयमेव श्रीगौडपादाचार्यः सर्वतः प्राग् अद्वैतवादस्य संस्थापनं विहितवान् इति सर्वेऽपि विदाङकुर्वन्ति प्राचीनाचार्यचरणाः । अस्यामेवास्य माण्डक्यकारिकायां विशेषतो मायावादस्य समुल्लेखोऽनुभूयते ।

अस्ति श्रीगौडपादाचार्यः खल्वद्वैतवेदान्तस्य सन्मार्गगामित्वानुसारी, अद्वैत वेदान्ततत्त्वाऽनुकारी, आचार्यमूर्धन्य आसीत् । स च सत्ताविहीनस्य सांसारिक पदार्थपुञ्जस्य कारणीभूता मायेति वदति । माययैव खलु मनोऽपि स्पन्दन क्रियावद् भवति । अतः सचराचरं यत्किमपि द्वैतं भासमानं भवति तत् सर्वं मनोदश्यमिदं न तु वास्तवमिदम् । मनसोऽमनीभावे सति सर्वमेव द्वैतं नैवोप लभ्यते पुनः । तथा चोक्तम् -

'असतो मायया जन्म तत्त्वतो नैव जायते ।

वन्ध्यापुत्रो न तत्त्वेन मायया वाऽपि जायते' ॥ [१९]

'यथा स्वप्ने द्वयाभासं स्पन्दते मायया मनः ।

तथा जाग्रद् द्वयाभासं स्पन्दते मायया मनः' ।।[२०]

अतः सर्वमेव चराचरात्मकं मनोदृश्यमानं द्वैतं मायिकमाविधिकं तस्मात् सर्वं मिथ्येति ब्रह्माऽद्वैतसिद्धान्त एव सर्वथा सत्यः पारमार्थिकश्चेति विज्ञेयम् । उक्तञ्च -

'मनोदृश्यमिदं द्वैतं यत् किञ्चित् सचराचरम् ।

मनसो ह्यमनीभावे द्वैतं नैवोपलभ्यते' ॥[२१]

अन्ते चाऽस्माभिः श्रीगौडपादाचार्याभिमतं माण्डक्यकारिकायां समुल्लिखितं सत्-चित्-आनन्देति स्वरूपलक्षणलक्षितं तदद्वैततत्त्वं यत्र किञ्चिन्न जायते नापि किञ्चिदवशिष्यते तदेवोत्तमं सत्यञ्चेति । तथा चोक्तम्

'न कश्चिज्जायते जीवः सम्भवोऽस्य न विद्यते।

एतत्तदुत्तमं सत्यं यत्र किञ्चिन्न जायते ॥[२२]

अपि च—

'स्वप्नमाये यथा दृष्टे गन्धर्वनगरं यथा ।

तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः ॥[२३]

अन्यच्चापि-

'घटादिषु प्रलीनेषु घटाकाशादयो यथा ।

आकाशे सम्प्रलीयन्ते तद्वज्जीवा इहात्मनि ॥[२४]

इत्थञ्चाऽद्वैतवेदान्तदर्शनस्य मूर्धन्य आचार्यो भगवान् शङ्करो यदद्वैततत्त्व मङ्गीकरोति तदेव गौडपादाचार्याणामप्यभिमतमिति भावः ।

श्रीशङ्कराचार्यः[सम्पादयतु]

श्रीशङ्करावतारभूतः श्रीशङ्कराचार्यः ७८८-८२० ईसवीये काले स्वकीयां स्थिति समुपलभमानस्तैत्तिरीयशाखाऽध्ययनप्रवृत्तिशीलतया तत्र पारङ्गतः सन् दाक्षिणात्यवंशावतंस आसीत् । शिवगुरुपुत्रश्चायमाचार्य आसीदित्यपि श्रूयते एव ।

शारीरिकभाष्यापरपर्यायभूतस्य आहोस्वित् 'शारीरिकभाष्य'-पदजन्य बोधविषयतां गतस्य ब्रह्मसूत्रशाङ्करभाष्यस्याऽयमेवास्ति निर्माणकर्ता श्रीशङ्करा चार्यः । अयमेव खलु आचार्यमहोदयः श्रीमद्भगवद्गीताया उपरि तथोप निषदामुपरि भाष्यात्मिकां टीकां लिखितवान् रचितवांश्च । अस्मिन्नद्वैतवेदान्ते ऽयमेवाऽऽचार्यपादो मायावादस्य समुल्लेखं प्रवेशञ्च विहितवान् । दी

तात्त्विकदृष्ट्या विचार्यमाणे श्रीशङ्कराचार्यस्य समयनिर्धारणविषये सहज प्रयासभूताः साधनीभूतास्तर्का एव सन्ति उपायाः ।

१. तत्र 'केरलोत्पत्ति'-नामकग्रन्थानुसारं श्रीशङ्कराचार्यस्य समयश्चास्ति ४०० ईसवीयवर्षः, परन्त्वेतन्मतानुसारं श्रीशङ्कराचार्यस्य शरीरपरित्यागः अष्टत्रिंशद् ( ३८ ) अवस्थायामेव सञ्जात इत्येव प्रतीयते । एतेन द्वात्रिंशदवस्थायां शरीरपरित्यागविषयिणी प्रतीतिमिथ्याभूता जाता जायते वा ।

२. द्वारिकामठाधीश्वरानुसारं तथा काञ्चीकामकोटिपीठाधीश्वरानुसारं श्रीशङ्कराचार्यस्य जन्मकाल: पञ्चशतकं ( ई० पू० ५००) प्रतीयते ।

३. तैलङ्गदृष्ट्या चाऽऽचार्यप्रवर-श्रीशङ्करस्याऽस्तित्व काल: स्थितिकालो वा षष्ठशताब्द्या अन्तिमो भागो वर्तते इति ।

४. एवं सर आर० जी० भण्डारकरः श्रीशङ्कराचार्यस्य जन्मकालं ६८० शताब्द्याः पूर्वकालं वदितुं कामयते ।

५. 'वर्नेल'-महोदयस्तथा 'सिवैल'-महोदय आचार्यप्रवरस्य जन्मकालं सप्तमीं शताब्दी स्वीकुर्वन्ति, वर्णयन्ति चेत्यपि विज्ञेयम् । एवंविधा अन्या अपि सन्ति अनेका विरुद्धोक्तयः, विस्तरभयान्नाऽत्र प्रदर्श्यन्ते इति ।

किन्तु एवं स्थिते श्रोशङ्कराचार्यस्य जन्मकालविषये स्थितिकालविषये च नानाविधविरुद्धोक्तिदर्शनात् तदीयो जन्मकाल: स्थितिकालो वा यथावनिर्णतुं नैव शक्यतेऽतः प्रागुपर्युक्तशङ्कोपशङ्कात्मकविवेचनानुसारं मतमतान्तरोपर्शित विप्रतिपत्त्यनुसारञ्च सर्वा अप्यसङ्गतीश्च विचारयन् द्वात्रिंशद्वर्षस्य पूर्णायुः कालञ्च निर्धारयन्-अहं 'शशिबालागौडः' इतिहासलेखनपरः मन्ये यत् ७८८-८२० ईसवीयकाल एव सर्वथा समुचितो वर्तते ।

अपि च सर्वेष्वेव दार्शनिकेषु इयमेव प्रबलतमा दार्शनिकी दृष्टिरासीत् यदिदं दुःखपङ्कनिमग्नं जगत् कथं कदा चास्माद् दुःखपङ्कात् समुद्धतं स्यादिति । स च समुद्धारो मोक्षापरपर्यायभूतोऽस्ति प्रभूतो विषयः ।।

तत्र दार्शनिकप्रवर-श्रीशङ्कराचार्यः खलु ब्रह्माद्वैतसिद्धान्तं सर्वतः प्राक् समुपस्थापितवान् । मायावादसिद्धान्तञ्चापि व्यवस्थापितवान । मायावादसिद्धान्तमाश्रित्य प्रचलितस्य विषयानन्दस्य तुच्छतां सम्पाद्य ब्रह्मानन्दस्यैव पारमार्थिकतां समर्थितवान् पुष्टीकृतवांश्चेति ध्येयम् ।

श्रीसुरेश्वराचार्यः[सम्पादयतु]

अयञ्च श्रीसुरेश्वराचार्यः ८०० ईसवीये वर्षे स्वास्तित्वं लभमानः खलु 'नैष्कर्म्यसिद्धि'-नाम्नी पुस्तिकां स्वयं स्वेनैव रचितवान् श्रीसुरेश्वराचार्यः । तथा मानसोल्लासादिग्रन्थानां बहूनां निर्माणे कृतभूरिपरिश्रमः सन् जनिप्रदान कर्ताऽप्यस्तीति ।।

अनन्तरकालावच्छेदेन तस्यामुपरि बह्वयष्टीकाः सजाता विभिन्नाचार्यद्वारा इति । यथा-श्रीचित्सुखाचार्यः ( १२०० ईसवीये वर्षे ) 'भगवत्तत्त्वप्रकाशिका' नाम्नी टीकां रचितवान् ।

एवं वेदान्तशास्त्रानुशीलनपरो विद्वान् श्रीज्ञानोत्तमः ( ११०० ईसवीये वर्षे ) 'चन्द्रिका'-नाम्नी टीकां निर्मितवान् । एवं कश्चन महात्माऽखिलात्मा नामा तदुपरि 'नैष्कर्म्यसिद्धि विवरण'ञ्च रचयामास । तथा तत्रैव चास्ति श्रीज्ञानामृतशास्त्रिविनिर्मिता, ज्ञानामृतवर्षिणी 'विद्यासुरभि' नाम्नी काचन महती टीका इति । एवं क्रमेणोपरि निर्दिष्टाभिष्टीकाभिर्बहुमानप्राप्तोऽयं ग्रन्थो ऽपूर्वविभूतिभूषितो मया दर्शनेतिहासलेखिकया स्वयमेवाऽनुभूयते इति ।

अस्य श्रीसुरेश्वराचार्यस्य महादार्शनिकस्य इयञ्चास्ति किंवदन्ती यदयमेव गृहस्थाश्रमे मण्डनमिश्ररूपतां दधानस्तुरीयाश्रमे संन्यासाश्रमे श्रीसुरेश्वराचार्यो जातः । अनेन 'नैष्कर्म्यसिद्धि'-लेखनातिरिक्तमन्यदपि लेखनकार्य कृतम् । तथाहि

१. 'बृहदारण्यकभाष्यवार्तिकम् ।' २. 'तैत्तिरीयोपनिषद्भाष्यवार्तिकम् ।'

३. आचार्यप्रवर-श्रीशङ्करकृत-दक्षिणामूर्त्यष्टकस्तोत्रस्य व्याख्यारूपो मान सोल्लासः ।

अयञ्च श्रीसुरेश्वराचार्यो भावाऽद्वैतस्य, शब्दाऽद्वैतस्य, सत्ताऽद्वैतस्य च सर्वथा समर्थक आसीत् ।

अयं सत्यम्, शिवम्, शान्तमद्वैत सिद्धान्तं मन्यमानो ब्रह्माद्वैत सिद्धान्तमेव सम्पुष्टीकरोति श्रीआचार्यः । तथाहि-

'न तु तद् द्वितीयमस्ति ।[२५]

अर्थात् तस्माद् ब्रह्मणो द्वितीयं ( भिन्नम् ) किमपि नास्तीत्यर्थः । यच्च द्वितीयत्वेन भासमानं भवति तत सर्व व्यवहारान्तर्गतमेव सत् प्रतीयते अतः सर्वमेव दृश्यमानं मायामात्रमेव न तु परमार्थतस्तत् प्रतीयते । तथा चोक्तम् -

'मायामात्रमिदं द्वैतमद्वैतं परमार्थतः।

अपि च-

'अद्वैतसिद्धान्तमेव हि सत्यं शिवं सुन्दरं सिद्धान्तमस्ति ।'[२६]

शान्तं शिवमद्वैतं चतुर्थ मन्यते स आत्मा।' -तत्रैव ।

एवम्—'अयमात्मा ब्रह्म ।'

–बृ० उ० ४।५।१९। 'अहं ब्रह्मास्मि ।'

. -तत्रैव, १।४।१०। 'ब्रह्मवेदं सर्वम् ।'

तत्रैव, २।५।१ । 'सच्चिदानन्दरूपमिदं सर्वम् ।' -नृसिंहोत्तरतापनीयोप० ७ । इत्याद्याः सर्वा अपि उपनिषदो ब्रह्माऽद्वैतसिद्धान्तमेव सर्वथा समर्थयन्ति पुष्टीकुर्वन्ति च ।

श्रीवाचस्पतिमिश्रः[सम्पादयतु]

अयमस्ति षड्दर्शनाचार्यः श्रीवाचस्पतिमिश्रो महाविद्वान् ८४१ ईसवीये वर्षे स्वकीयाऽसाधारिण्या स्थित्याऽलङ्कारभूतः प्रभूतो दर्शनवेत्ता खलु ब्रह्मसूत्रशाङ्करभाष्योपरि 'भामती'-नाम्नी टीकां सर्वथा वैदुष्यपूर्णां सुप्रसिद्धां स्वीयपत्न्या नामवतीं विनिर्मितवान् श्रीमिश्रः ।

तदनन्तरकालावच्छेदेनेमां टीकां समधिकृत्य भामतीमतप्रचारपरायण शीलोऽयं श्रीमिश्रः खलु ब्रह्मसिद्धेस्तत्त्वसमीक्षणटीकाकारोऽपि संवृत्तः ।

अस्य महानुभावस्य षड्दर्शनाचार्यस्य विषये खल्वेका किंवदन्ती श्रूयते यदयं श्रीमिश्र एकस्मिन् दिने ब्रह्मसूत्रशाङ्करभाष्योपरि टीकामेकां बाह्यविषये भ्यश्चित्तवृत्तिनिरोधपुरस्सरं लेखनपरायण आसीत् ।।

एकस्मिन् दिने लेखनवेलायां पूर्वरात्रौ 'वत्ती'ति पदाभिधेयतां गतां तां वत्तिकां शैथिल्यं प्राप्तत्वेन समाप्तिं गतामिव समनुभूयमाना 'भामती'-नाम्नी तदीया धर्मपत्नी वधितवती ।

श्रीमिश्रश्चैतावति काले इदमेव विचारयन्नासीत् यदहं पूर्व मनसि समागतं पदार्थजातं सर्वथा लेखेन परिपूर्य पुनर्वत्तिकामग्रे विधास्ये ।

परन्तु तस्मिन्नेवं विचिन्तयत्येव खलु तदीया धर्मपत्नी भामती साक्षात् साकाररूपेण सरस्वतीव सम्मुखे समुपस्थिता सती श्रीमिश्रद्वाराऽनुष्ठेयं तदनित्यं कृत्यं स्वयमेव सम्पादितवती । तदव्यवहितोत्तरक्षणे एव श्रीमिश्रः दृष्टिमुपर्युत्थाय तां विलोक्य ब्रूते-केयं भवतीति निगद्यताम् ।

सा ब्रूते-स्वामिन् ! भवतामेवाऽस्म्यहं धर्मपत्नीति नूनं विज्ञायताम् ।

श्रीमिश्रः प्रोट्टङ्कितवान् त्वदीयं नामधेयमहमजरममरञ्च विधास्येऽत एव तस्याष्टीकाया नामधेयं 'भामती'ति कृतवान् । येनाऽधुनाऽपि दर्शनाध्येतारो जना 'भामती'ति नामधेयं रटन्ति तां पठन्ति च तदीयञ्चेतिहासं स्मरन्ति ।

श्रीसर्वज्ञात्ममुनिः[सम्पादयतु]

श्रीसर्वज्ञात्ममुनिः ९०० ईसवीये वर्षे स्वास्तित्वप्रदर्शनपरायणः सन् सक्षेपशारीरिकस्य रचयिताऽऽसीत् । अस्य च मुनेरपरं नामधेयं 'नित्यबोधा चार्यः' इति च श्रूयते, तथा श्रीसुरेश्वरार्चायनिरूपितां शिष्यताञ्च बिभ्राण श्वासीत् श्रीसर्वज्ञः ।

अस्य सक्षेपशारीरकस्योपरि सन्त्यनेकाष्टीका जायमानाः । ताश्च यथा श्रीविश्वदेवस्य वेदान्तविदुषश्चास्ति सिद्धान्तदीपः, अपि चाऽन्वयार्थप्रकाशिका ऽप्यस्त्येका टीका 'श्रीरामतीर्थस्य' वेदान्तशास्त्रिणो महाविदुष इति । अयञ्च शास्त्री प्रायः १२२५ ईसवीये स्वस्थितिमापन्न आसीदित्यपि च श्रूयते एव केवलम् ।

एवं काशीनिवासी तुरीयाश्रमसेविनां संन्यासिनामग्रगण्यो मूधय॑श्चासीत् अयं महोदयः । अनेन विरचिता चास्त्येका टीका 'सङ्क्षपशारीरकसार सङग्रह'-नाम्नी या च महतीमेव प्रसिद्धि गता वर्तते इति । इत्थञ्च नित्य बोधाचार्यापरनामधेयेन श्रीसर्वज्ञात्ममुनिना विरचिते सक्षेपशारीरके ग्रन्थे सन्ति बह्वयष्टीका इति । ____तथा ब्रह्माऽद्वैतवादसिद्धान्तस्वीकन्यदार्शनिकवदेव खल्वयमपि दार्शनिक शिरोमणिः श्रीसर्वज्ञात्ममुनिरपि अमुमेव तादशसिद्धान्तमुररीकृत्य तादृशसिद्धान्त गभितं 'सङक्षेपशारीरिक'-नामक ग्रन्थं रचितवान् । तत्र छान्दोग्य-तेजोबिन्दु प्रभृतिषुपनिषत्सु प्रतिपादितमेव विषयजातं सक्षेपशारीरिकेऽपि निरूपितवान् श्रीमुनिः । तथा माण्डूक्योपनिषदि च विलोक्यताम् । यथा

'अद्वैतसिद्धान्तमेव हि सत्यं शिवं सुन्दरं सिद्धान्तमस्ति ।'[२७]

अपि च—'शान्तं शिवमद्वैतं चतुर्थ मन्यन्ते स आत्मा'।

श्रीमण्डनमिश्रः[सम्पादयतु]

श्रीमण्डनमिश्रः पूर्वमीमांसाया उत्तरमीमांसायाश्चोभयशास्त्री सन् ८०० ईसवीये वर्षे प्रायः स्वास्तित्वं लभमानो वेदान्तदर्शनशास्त्रस्य महती प्रसिद्धि प्राप्तस्य चतुःसिद्धिसु ब्रह्मसिद्धिग्रन्थस्य निर्माणकर्ता चासीत् ।

अयञ्च श्रीमिश्रः खलु मीमांसासूत्रानुक्रमणी विधिविवेक-भावनाविवेक विभ्रमविवेक-ब्रह्मसिद्धि-प्रभृतिग्रन्थानां निर्माणं कृतवान् ।।

अनन्तरं श्रीशङ्कराचार्य श्रीशङ्करावतारोऽयमिति विज्ञाय, आहोस्विदेतेषां महावैदुष्यं विदाङकुर्वाणः, अथवा कारणान्तरं किमपि वेदनपरायणः श्रीमण्डन मिश्रस्तुरीयावस्थां समनुप्राप्य श्रीशङ्कराचार्यस्य शिष्यो जात इत्यपि श्रूयते ।

बिहारप्रान्तस्थस्य पाटलीपुत्रस्य 'पटना' इत्याख्यस्य निवासी तथा ब्राह्मणत्वजात्यवच्छिन्नो मैथिलब्राह्मणोऽयमासीदित्यवधेयम् ।

अयञ्च श्रीमिश्रः श्रीकुमारिलभट्टस्याऽतीव निकटवर्ती प्रधानभूतोऽन्तेवासी श्रूयते । उभयविधमीमांसाशास्त्रस्य प्रकाण्डपण्डित आसीत् ।

श्रीशङ्करदिग्विजयानुसारं श्रीशङ्कराचार्येण सहाऽस्य महाविदुषो मिश्रस्य शास्त्रार्थोऽभूत् । ततः पूर्वकालावच्छेदेन मण्डनमिश्रस्य गृहगमनावसरे कामपि युवतीं पृच्छति श्रीशङ्करः- 'क्वास्ते मण्डनमिश्रधाम ?' । उत्तरयति

'स्वतः प्रमाणं परतः प्रमाणं कीराङ्गना यत्र गिरो गिरन्ति ।

शिष्योपशिष्यैरुद्गीयमानं जानीहि तन्मण्डनमिश्रधाम' ॥

अपि च पुनः-

'जगद् ध्रुवं स्याज्जगदध्रुवं स्यात् कीराङ्गना यत्र गिरो गिरन्ति ।

शिष्योपशिष्यैरु द्गीयमानमवेहि तन्मण्डनमिश्रधाम' ॥

पूर्वमीमांसायाः प्रौढपाण्डित्यसम्पन्नोऽप्ययं श्रीमिश्रो ब्रह्माऽद्वैतसिद्धान्त मभ्युपगन्ता नियन्ता चासीन्मनीषी । ब्रह्मसिद्धौ खल्वयमेव भावो दर्शितः । तथाहि -

'सर्वप्रत्ययवेद्ये वा ब्रह्मरूपे व्यवस्थिते ।

प्रपञ्चस्य प्रविलयः शब्देन प्रतिपाद्यते ।।

प्रविलीनप्रपञ्चेन तद्रूपेण न गोचरः ।

मानान्तरस्येति मतमाम्नायैकनिबन्धनम् ।।[२८]

अत्र कारिका घटकीभूतेन 'शब्देने'ति पदेन प्रपञ्चस्य प्रविलयः ( प्रपञ्चात्यन्ताभावः ) प्रतिपादितो भवति । एतेनाऽद्वैतवादः ( अभेदवादः ), सतरामेव समागच्छति । अयमेव ब्रह्माऽद्वैतसिद्धान्तः ।

अध्यात्मोपनिषदि चाऽप्ययमेव सिद्धान्तः सुस्पष्टीकृतः । तथाहि-

'एकमेवाऽद्वयं ब्रह्म नेह नानास्ति किञ्चन' ।[२९]

एवम्-

'असङ्गो ह्ययं पुरुषः' । [३०]

'असङ्गो नहि सज्जते'।

-तत्रैव, ४।४।२२। अन्यच्चापि

निर्विकारे निराकारे निविशेषे भिदा कुतः ।'

-अध्यात्मोप० २२ । अपि च—'अयमात्मा सन्मात्रो नित्यः शुद्धो बुद्धो मुक्तः सत्यो निरञ्जनो विभुरद्वयानन्दः परः प्रत्यगेकरसः ।'

-नृसिंहोत्तरतापनीयोप० ९ ।

इत्यादिना सङ्क्षपेण प्रतिपादितोऽयं ब्रह्माऽद्वैतसिद्धान्तोऽपि स्वीकृतः श्रीमण्डनमिश्रेण । यावच्चायं मनीषी पूर्वमीमांसाया प्रौढपाण्डित्यसमन्वित आसीत् तदन्तरं तावतोऽप्यधिकः अर्थात् पूर्णरूपेण ब्रह्माऽद्वैतसिद्धान्तसमर्थको जातः ।

श्रीपद्मपादाचार्यः[सम्पादयतु]

श्रीपद्मपादाचार्यः ८१० ईसवीये वर्षे स्वीयं पाञ्चभौतिकशरीर साहित्या वच्छिन्नं जीवनं यापयन्नयं 'पञ्चपादिका'नामकग्रन्थस्य रचनां विहितवान् । तथा वेदान्तदर्शनशास्त्रे महती प्रसिद्धि प्राप्तयोविवरणमतभामतीमतयोविवरण मतप्रचारकोऽभूदित्यपि चास्ति महदेव वैशिष्ट्यम् । - पञ्चपादिकाया उपरि खल्वनेकाष्टीकाः सन्ति, यथा तासु चास्ति महात्म विदुषा 'श्रीप्रकाशात्मना' विनिर्मितं पञ्चपादिकाविवरणमतीव क्लिष्टतमोऽयं ग्रन्थः । मन्येऽयं ग्रन्थः श्रीप्रकाशात्मना १२०० ईसवीये प्रायो लिखितं वा रचितं वेति ।

अयञ्च 'सनन्दने'त्यपरनामधेयस्तथा 'चोल'देशनिवासी चासीत्, एवमप्या चार्यः श्रीआचार्यपादानां शिष्यः श्रूयते इति । तथा श्रीमाधवस्याऽयमात्मजश्चा सीदित्यपि श्रूयते एव न तु प्रमाणान्तरजन्यज्ञानविषयीक्रियते इति ।

अयमपि श्रीपद्मपादाचार्यः पूर्ववदेव ब्रह्माऽद्वैतसिद्धान्ताऽवलम्बी आसी दिति । अत एव श्रीशङ्कराचार्यसम्प्रदायगुरुवन्दनपरम्परायामेवं भूतायां गुरु नामावल्यां श्रीआचार्येण सहैवाऽस्य श्रीपद्मपादाचार्यस्यापि नाम श्रूयते । तथाहि -

'श्रीशङ्कराचार्यमथास्य पद्मपादं च हस्तामलकञ्च शिष्यम् ।'

अपि च पञ्चपादिकाग्रन्थेऽप्ययमेव ब्रह्माऽद्वैतवादो निरूपितः । सर्वोऽपि द्वैतो भेदश्च व्यावहारिकः । अनन्तरं पारमार्थिक्यामवस्थायां समागतायां ब्रह्मातिरिक्तस्य सर्वस्यैव चराचरात्मकस्य प्रपञ्चस्य बाधान्नहि कस्याप्यस्तित्वं तदानीमनुभवति चेतनः । केवलं तदानीमिदमेवानुभवति चेतनः

'तदेकोऽवशिष्टः शिवः केवलोऽहम् ।'[३१]

उपनिषदादयोऽपि ग्रन्थाः सर्वे ब्रह्माऽद्वैतवादसिद्धान्तं समर्थयन्ति, पूष्टी कुर्वन्ति च । तथाहि -

'तस्मादद्वैतमेवाहुर्मुनयः परमार्थतः ।' [३२]

अपि च -

'सोऽहं स च त्वं स च सर्वमेतत् आत्मस्वरूपं त्यज भेदमोहम्' ।[३३]

'परात्मनो मनुष्येन्द्र ! विभागोऽज्ञानकल्पितः ।'[३४]

अन्यच्चापि -

'उपादानं प्रपञ्चस्य ब्रह्मणोऽन्यन्न विद्यते ।

तस्मात् सर्वप्रपञ्चोऽयं ब्रह्मैवास्ति न चेतरः ॥'[३५]

सादौ रज्जुसत्तेव ब्रह्मसत्तैव केवलम् ।

प्रपञ्चाधाररूपेण वर्ततेऽतो जगन्नहि ॥'[३६]

एवं श्रीपद्मपादाचार्यस्येदमप्यस्ति कथनं यद् द्वैतभेदयोर्व्यवहारगतत्वेन पारमार्थिक्यामवस्थायां तयोरनन्तर्गतत्वात् इति ब्रह्माऽद्वैतवादसिद्धान्तः सुतरा मेव सुदृढीभूतो भवतीति भावः ।

श्रीमधुसूदनसरस्वती[सम्पादयतु]

अस्यैव श्रीमधुसूदनसरस्वतीमहोदयस्यापरं नाम 'मधुसूदनवाक्पति'रपि यत्र तत्राऽनुभूयते । अस्यैकेनैव 'अद्वैतसिद्धि'-नामकेन ग्रन्थेन महदद्भुतं विलक्षणं वैदुष्यं वेदान्तदर्शनशास्त्रे समनुभूयते ।

मया शशिबालागौडेन तु केवलम् -

'मायाकल्पितमातृतामुखमृषाद्वैतप्रपञ्चाश्रयः ।'[३७]

इत्येकमेव तदीयं पद्यमधिकृत्य विचार्यते यत् कीदृशमस्य महोदयस्यास्ति महाविदुषो वेदान्तदर्शने वैदुष्यम् ( पाण्डित्यम् ) इति ।

अस्य श्रीसरस्वतीत्युपाह्वस्य विषयेऽन्या अपि बह्वयः किंवदन्त्यः श्रूयन्ते यदेतस्य महानुभावस्य बङ्गलादेशान्तर्गत-नदियाप्रान्ते यदा प्रवेशो जातस्तदा तत्रैव सन्तिष्ठमानो मथुरानाथतर्कवागीशश्चकम्पे, एवं तत्रैव तदानीन्तनकाला वच्छेदेन स्वस्थितिं लभमानो गदाधरोऽपि श्रीसरस्वतीत्युपाह्वस्याऽऽगमनश्रवण मात्रेण कातरोऽभूत् इति । उक्तञ्च--

'नवद्वीपे समायाते मधुसूदनवाक्पतौ।

चकम्पे तर्कवागीशः कातरोऽभूद् गदाधरः' ॥

इत्यादिप्रामाणिकोक्त्याऽप्यस्य वाक्पतेः श्रीमधुसूदनस्य महावैदुष्यं प्रतीयते ।

अपि चाऽयं महानुभावः 'अद्वैतसिद्धिग्रन्थातिरिक्तान्' सिद्धान्ततत्त्वबिन्दु वेदान्तकल्पलतिकाप्रभृतीन बहन् ग्रन्थान् रचयामास ।

भ्रमणपरायणत्वेऽप्ययं महानुभावः प्रामाणिकस्वास्तित्वतः काश्यामेव स्व कीयं निवासं लभमान आसीदिति श्रूयते । तुरीयाश्रममापन्नानां संन्यासिनाञ्चायं समूहाग्रणीरासीदित्यपि प्रमाणम् । एवमयं १६०० ई० वर्षे स्वास्तित्वसम्पन्न आसीत् ।

श्रीविद्यारण्यः[सम्पादयतु]

अयञ्च श्रीविद्यारण्यः १३५० ईसवीये वर्षे सन्तिष्ठमानस्तदानीन्तनेस वीयवर्षावच्छेदेन स्वकीयशारीरिकस्वास्थ्यसाधुत्वं लभमानः खलु 'सर्वदर्शनम्' 'विवरणप्रमेयसङ्ग्रहः', 'पञ्चदशी', 'जीवन्मुक्तिविवेक'-प्रभृतिग्रन्थानां रचनां चकार ।

अस्य श्रीविद्यारण्यस्य विदुषोऽपरं नाम माधवाचार्योऽप्यासीत् । इदमेव 'माधवाचार्य'ति नाम मया शशिबालागौडेन 'सर्वदर्शनसंग्रह'-नामक ग्रन्थस्य सर्वप्रथमपृष्ठेऽपि पठ्यते समनुभूयते च ।

विद्यास्वरूपेऽरण्ये विहरन्नेवाऽयं महामनीषी श्रीविद्यारण्यः ‘विवरणप्रमेय सङ्ग्रह'-नामके ग्रन्थे सर्वत्रैवाऽद्वैतसिद्धान्तम् ( ब्रह्माऽद्वैतसिद्धान्तम् ) एव सन्नि

वेशितवान् पुष्टीकृतवांश्च । तथाहि -

'आकाशादिस्वदेहान्तं तैत्तिरीयश्रुतीरियम् ।

जगन्नास्त्यन्यदानन्दादद्वैतब्रह्मता ततः ।।'[३८]

तस्माद्वा एतस्मादात्मनः आकाशः सम्भूतः' इत्यादि श्रुत्या तैत्तिरीयोप निषदुक्तया खल्विदमेवाभिधीयते यत् 'नित्यं विज्ञानमानन्दं ब्रह्म' इत्यादि श्रुत्या प्रतिपादिताऽऽनन्दस्वरूपब्रह्मणोऽन्यत् ( पृथक् ) किमपि नास्त्येवेति 'अद्वैतब्रह्मता' ( अद्वैतं ब्रह्म ) स्वयमेव सिद्धयति । अद्भुतरामायणेऽपि तथा -

'तस्मादद्वैतमेवाहर्मुनयः परमार्थता' ।

'अभेददर्शनं ज्ञानम्'[३९]

'सर्वं खल्विदं ब्रह्मा नेह नानास्ति किञ्चन'। -निरालम्बाप

'एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ।' [४०]

इत्याद्यपनिषदोऽपि तस्यैवाऽऽनन्दस्वरूपस्य ब्रह्मणोऽद्वैततां गायन्ति । अर्थादात्मानन्दस्य ब्रह्मणोऽद्वितीयत्वं समुगिरन्ति परमार्थतः ।

अपि च पुनस्तत्रैव -

आनन्दादेव तज्जातं तिष्ठत्यानन्द एव तत् ।

आनन्द एव लीनं चेत्युक्तानन्दात् कथं पृथक् ॥[४१]

आनन्दस्वरूपाद् ब्रह्मणोऽन्यत् किमपि नास्त्येव यथोक्तम् -

'स्वतःसिद्धाऽद्वयानन्दः स्वयमेव विभाति च ।'[४२]

'मयि जीवत्वमीशत्वं कल्पितं वस्तुतो नहि ।'[४३]

अपि च -

'मय्यखण्डसुखाम्भोधौ बहुधा विश्ववीचयः ।

उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात्' ।

अर्थात् यथा-रज्जुरूपेण सन्तिष्ठमानस्य रज्जुस्वरूपस्य द्रव्यस्य सर्वात्मना प्रतीतिर्जायते, तथैव आनन्दस्वरूपस्य ब्रह्मणोऽवस्थितस्यैव जगदात्मनाऽवभास मानं भवतीति भावः । तत्र जीवत्वमीशत्वं चादयो धर्माः सन्ति सर्वेऽपि कल्पिताः यतस्तस्य निर्गुणत्वाद् निर्धर्मकत्वाच्च ।

अपि च -

'ततो निरंशे आनन्दे विवर्ती जगदिष्यताम् ।

मायाशक्तिः कल्पिका स्यादैन्द्रजालिकशक्तिवत्' ।।[४४]

भेदाभेदमतम्[सम्पादयतु]

अस्य भेदाभेदमतस्याऽऽदिप्रवर्तको जन्मदाता आचार्यप्रवरः श्रीभास्कर एव श्रूयते । अयञ्च श्रीभास्कराचार्यः ( ८२० ईसवीये वर्षे ) व्यासोदितस्य ब्रह्म सूत्रस्य भास्करभाष्यकर्तृत्वेन प्रसिद्धि लब्धवान् ।

श्रीभास्कराचार्यमते वेदान्तमतसिद्धसगुणनिगुर्णभेदवत् घटाकाशमहाकाश वत् खण्डकालमहाकालवत् प्राच्यादिदिङमहादिग्वच्च यथास्ति अविद्योपाधि रूपकारणवशादेव दृष्टान्तगतो भेदस्तथैव दार्टान्तस्थलेऽपि चास्ति जीवात्मपर मात्मनोरुपाधिकृतो भेद इति नूनं विभाव्यताम् ।

तात्त्विकदृष्ट्या विचार्यमाणे तु अविद्योपाधौ निराकृते सति 'जीवो ब्रह्मैव नापरः' इति शङ्कराचार्यसिद्धान्त एव समागच्छति । 'भेददृष्टिरविद्येयम्' इति श्रुति रपि जीवपरमात्मनोरभेदमेव प्रतिपादयति बोधयति च । तस्मादविद्यो पाधिनिरसनं नितान्तमावश्यकम्, तस्मिन् सति अर्थत एवाऽभेदो जायते इति मन्तव्यम् ।

एवमेतस्मिन् मते ज्ञानकर्मसमुच्चयवादोऽङ्गीकृतो वर्तते, यत एतस्मिन् मते 'समुच्चिताभ्यामेव ज्ञानकर्मभ्याम विद्यानिवृत्तिद्वारेण अपवर्गो व्यज्यते नान्य तरेण' इति ।

अस्मिन् मतेऽविद्याया अनादित्वेन तस्या नाशाऽसम्भवेन ब्रह्मणः सदैव सगुणत्वधर्मावच्छिन्नत्वेन सगुणत्वमेव विज्ञेयं न तु निर्गुणत्वमपि ।

तात्त्विकदृष्ट्याऽऽनुभविकदृष्टिकोणतो विचार्यमाणे चैतन्मते तत्त्वद्वयमेव खल स्वीक्रियते--१. स्वतन्त्रं तत्त्वमेकम्, २. परतन्त्रं तत्त्वं च द्वितीयम् ।

तत्रापि स्वतन्त्रतत्त्वभूतः प्रभूतो भगवान् विष्णुः, स्वतन्त्रतत्त्वञ्च जीव इति । उक्तञ्च -

'स्वतन्त्रं परतन्त्रं च द्विविधतत्त्वमिष्यते ।

स्वतन्त्रो भगवान् विष्णुनिर्दोषोऽशेषसद्गुणः' ॥[४५]

विशिष्टाऽद्वैतमतम् ( रामानुजाचार्यः ) विशिष्टाद्वैतमित्यस्य केनचिद् विशेषणेन विशिष्टोऽद्वैतरूप ईश्वर एव विशिष्टाद्वैतपदाभिधेयतां गच्छति । प्रकृते च जीव-जगद्रूपविशेषणेन विशिष्टः ईश्वरो वर्तते । स च सर्वेषामाधारभूतः, जगन्नियन्ता, सर्वशक्तिमान्, अनादि रनन्तश्च, एवम्भूतो राम एव चास्ति ईश्वरः । रमन्ते योगिनोऽस्मिन्नसौ रामः, स एव चाष्टविधैश्वर्यशालित्वादीश्वरः परमेश्वर इति च गीयते ।।

अस्य च विशिष्टाद्वैतमतस्याऽऽदिप्रवर्तकत्वेन जन्मदाता चास्ति साक्षात स्वयं श्रीरामानुजाचार्यः । अयञ्च श्रीरामानुजाचार्यः ११०० ईसवीये वर्षे स्वकीयां स्थितिं लभमानः 'श्रीभाष्य'स्य रचनां कृतवान् इति सर्वेऽपि वैष्णव सम्प्रदायविदो विदन्ति वदन्ति च । अयमेव चास्त्यस्य रामानुजसम्प्रदायस्य प्रथमाचार्यः । _अस्यास्ति जन्मदातुः पितुर्नाम श्रीकेशवभट्टः, माता च कान्तिमती। त्रिचनापल्लीप्रान्तान्तर्गत-'भूतपुरी'-ग्रामनिवासी चाऽयं श्रूयते । अनेन विर चिताः केचन ग्रन्था अधस्तात् प्रदर्श्यन्ते-

१. 'वेदान्तसारः',

२. 'वेदान्त दीपः',

३. 'वेदार्थसारः' इत्यादि बहूनां ग्रन्थानां निर्माणकर्ता आसीत् ।

एवं श्रीमद्भगवद्गीताग्रन्थस्योपर्यपि टीकां रचितवानित्यपि श्रूयते एव न तु मया स्वयं शशिबालागौंडेन समनुभूयते इति ।

अनेन विरचितस्य श्रीभाष्यस्योपरि १४०० ईसवीये वर्षे विराजमानः 'श्रीसुदर्शनभूरि'-नामको दार्शनिको विद्वान् 'श्रुतप्रकाशिका'-नाम्नी टीका लिखितवानित्यपि श्रूयते एवेति बोध्यम् । दक्षिणदेशीयलाभकरत्वेनायं ब्राह्मणत्व जात्यवच्छिन्नो दाक्षिणात्यब्राह्मणः समनुभवगोचरतां प्रयाति । प्रत्यक्षानुमान शब्दाश्चेति त्रीण्येव प्रमाणान्यङ्गीकृतवान् श्रीरामानुजाचार्यः ।

द्वैतमतम् (श्रीमध्वाचार्यः)[सम्पादयतु]

द्वैतमतावलम्बि-श्रीमध्वाचार्यमते जीवस्तु सर्वथैव सदैव चास्ति तस्माज्ज गनियन्तुर्जगदीश्वरतो भिन्नः । जीवस्याऽल्पज्ञत्वधर्मावच्छिन्नत्वेन, परमेश्वरस्य च सर्वज्ञत्वधर्मावच्छिन्नत्वेन भेदस्तयोः सुस्पष्ट एवेति सार्वजनीनोऽयं विषयः ।

'जीवो ब्रह्मैव नापरः' इति शाङ्करवेदान्तसिद्धान्तानुसारं नास्त्यनयोर्जीवा त्मपरमात्मनोस्तादात्म्यम्, प्रागुक्तविभिन्नधर्मावच्छिन्नत्वदर्शनात् । श्रुतेस्तु सार्थक्यं 'पुरोहितोऽयं राजा संवृत्तः' इतिवद् विधेयमिति न कश्चिद् दोषः ।

अनयोः श्रीमध्वाचार्यः सेव्यसेवकभावसम्बन्धमङ्गीकरोति, आहोस्वित् पूज्यपूजकभावसम्बन्धं स्वीकरोति, अथवा दास्यदासकभावसम्बन्धोऽपि भवितुम हंतीत्यपि कदाचित्तुल्यवित्तिवेद्यन्यायेन वक्तुं शक्यतेऽतो नहि कदापि तयोस्ता दात्म्यम् ( एकत्वम् ) स्यात् । ____ श्रीमध्वाचार्यमते सेव्यतावच्छेदककुक्षिनिक्षिप्तः, पूज्यतावच्छेदककुक्षि निक्षिप्तो वा चास्ति शङ्खचक्र-गदाधारी मानवमात्रहृदयकूजविहारी परमेश्वर पदाधिकारी, मुरारिः, पीताम्बरवेषभूषाधारी श्रीविष्णुरेव । स च भगवान् विष्णु रुक्मिणीयुतपाण्डुरङ्गाऽपरनामधेयश्चास्ति सर्वथा लक्ष्मीयुक्तः । ।।

अयञ्च श्रीमध्वाचार्यः १३०० ईसवीये वर्षे पाञ्चभौतिकशरीरेण विराज मानः पूर्णप्रज्ञः, आनन्दतीर्थापराऽभिधानः केनेरी-प्रान्तान्तर्गतपङ्कजप्रदेशे स्वीयां जनि लब्धवान् ।

अस्य श्रीमध्वाचार्यस्य पितुर्नाम श्रीमध्यगेह आसीत्, मातुश्च 'वेदवती' इति । अस्यैव बाल्यावस्थाकालीनं नाम 'वासुदेव' इत्यासीत् । .

अयञ्च महाविद्वान् महापण्डितो वायोरवतारभूतः प्रभूतः श्रीमाधवाचार्या परनामधेयः श्रीपूर्णप्रज्ञः स्वीयमतस्य पुष्टि-तुष्टिकारणीभूतानि निम्नोल्लिखि तानि ग्रन्थजातानि स्वीयग्रन्थलेखनकलाकौशलपूर्वकं स्वयं रचितवान् । तथाहि

१. 'गीताभाष्यम्'- स्वमतसमर्थकम् ।

२. 'सूत्रभाष्यम्'–पूर्णप्रज्ञसंज्ञकम् ।

३. 'महाभारततात्पर्यनिर्णयः' ।

४. 'श्रीमद्भागवततात्पर्यनिर्णयः' ।

इत्यादि नानाविधाः स्वमतपोषकाः स्वीयवैष्णवसम्प्रदायविकासकरा इतोऽति रिक्ता अपि बहवो ग्रन्थाः अनेन महाविदुषा विरचिताः । दक्षिणदेशीयशरीरा वच्छिन्नस्यास्य मध्वाचार्यापरनामधेयस्य श्रीपूर्णप्रज्ञस्य वायोरवतारभूतत्वेन वर्णनं मिलति । तथाहि

'प्रथमस्तु हनूमान् स्याद् द्वितीयो भीम एव च ।

पूर्णप्रज्ञस्तृतीयश्च भगवत्कार्यसाधकः' ।

इत्यनेन प्रमाणभूतेन पद्यात्मकेन श्लोकेन सुस्पष्टमिदं विज्ञायते यत् श्रीहनु मद्भीमयोः साक्षाद् वायुभूत्वेन पूर्णप्रज्ञस्यापि तथाविधत्वं विज्ञेयम् । एवम् अनेन विरचितस्य सूत्रभाष्यस्योपरि चास्ति 'तत्त्वप्रदीप'-नाम्नी टीका या १४०० ईसवीये वर्षे 'श्रीत्रिविक्रमपण्डिताचार्य'-द्वारा विरचिता वर्तते ।

अयञ्च महानुभावो विद्वान् प्रत्यक्षमनुमानञ्चेति प्रमाणद्वयमेवाऽभ्युप गच्छति । अस्मिन् मते परमेश्वरपदजन्यबोधविषयतावद् अखण्डब्रह्माकारा कारिताऽन्तःकरणवृत्तिविषयत्वेन प्रमाणविषयत्ववदङ्गीक्रियते इति ।

द्वैताऽद्वैतवादः ( श्रीनिम्बार्काचार्यः)[सम्पादयतु]

अस्मिन् द्वैताऽद्वैतवादि-श्रीनिम्बार्काचार्यमते व्यवहारकाले जीवेश्वरयोर्भेदः पारमाथिकावस्थायाञ्चाऽभेदः । तत्रापि द्वैताद्वैतयोः समीचीनत्वाऽसमीचीनत्व विषयकप्रश्न विषयाऽवसरे समुपस्थिते द्वैतं पारमार्थिकम्, अद्वैतञ्चास्ति खल्वौ पचारिकम्, 'राहोः शिरः' इतिवत् । अस्मिन् मते परमेश्वरः, परमेश्वरपदजन्य बोधविषयतावद् वा ब्रह्म चास्ति सच्चिदानन्द आनन्दकन्दमथुराचन्द्रः श्रीकृष्ण चन्द्र एवेति नूनं विभाव्यताम् ।।

१२५० ईसवीये वर्षे स्वास्तित्वसम्पत्तिमान् विद्वान् श्रीनिम्बार्काचार्यः खलु बहून् ग्रन्थान् लिखितवान् । ततः केचन ग्रन्था मया शशिबालागौडेन नामोल्लेख पुरस्सरं प्रदर्श्यन्ते । तथाहि

१. 'ब्रह्मसूत्रभाष्यम्'–वेदान्तपारिजातसौरभ-नामकम् एकम् ।

२. 'रहस्यषोडशी'- इति द्वितीयं पुष्पम् ।

३. 'वेदान्तकामधेनुः' इति चास्ति तृतीयं तदीयं पुष्पम् ।

एतदनन्तरकालावच्छेदेन १५०० ईसवीये वर्षे श्रीनिवासाचार्यो अस्य निम्बार्कभाष्यस्य 'वेदान्तकौस्तुभ'-नाम्नी टीकां कृतवान् ।

तत्पश्चात्कालावच्छेदेनैव च १६०० ईसवीये काले स्वीयं जीवनं सफलं कर्तुकामः श्रीकेशवभट्टः 'वेदान्तकौस्तुभ'-नाम्न्याः श्रीनिवासविरचिताया मृताया व्याख्यास्वरूपायाष्टीकाया उपरि-

१. 'कौस्तुभप्रभा'-नाम्नी टीका

२. 'श्रुत्यन्तसुरद्रुमः'-श्रीपुरुषोत्तमाचार्यस्य,

३. 'सिद्धान्तजाह्नवी' श्रीदेवाचार्यस्य,

इत्यादिरूपेणेमे सर्वेऽपि ग्रन्थाः सन्ति श्रीनिम्बार्काचार्योदितस्य द्वताऽद्वैतवादस्य प्रवर्धकाः पुष्टिकरास्तुष्टिकराश्चेति विज्ञेयम् । एवमन्येऽपि सन्ति एवंविधा ग्रन्थाः । तथापि सर्वे तु नैतादृशाः ।

शुद्धाऽद्वैतवादः (श्रीवल्लभाचार्यः)[सम्पादयतु]

शुद्धाऽद्वैतवादि-श्रीवल्लभाचार्यः प्रायः १५०० ईशवीयकालान्तर्गतः सन् ब्रह्मसूत्रस्योपरि खल्वयमणुभाष्यं रचितवान् । आचार्यप्रवरः श्रीवल्लभः पुष्टि मार्गमेव स्वेष्टसाधनीभूतं प्रभूतं मागं मन्यमानस्तस्यैव मार्गस्य समर्थकत्वेन स्वीयं वैष्णवमतमिदं सञ्चालितवान् प्रसारितवांश्चेति विज्ञेयम् ।

अस्मिन् शुद्धाऽद्वैतवादि-श्रीवल्लभाचार्यमते शाङ्करवेदान्तादविशेषतासिद्धये श्रीशङ्कराचार्याऽभिमताऽद्वैतवेदान्तसिद्धान्तसिद्धो मायावादो नाङ्गीक्रियते श्रीवल्लभाचार्येण । यतः खल मायावादमाश्रित्यैव द्वैतवादः भेदवादश्च प्रसतो भवति । एतस्य श्रीआचार्यप्रवरस्य मते मायावादं समुज्झित्य सर्वञ्चास्ति सर्वत्रा ऽद्वैतवादवदेवेति विज्ञेयम् ।

अस्मिन् मते प्राधान्येन ज्ञानविज्ञानस्थानीया भक्तिरेव चास्त्यात्मस्वरूप परिचायिका सती तुरीयपुरुषार्थमोक्षदायिका इति । यथोक्तम् -

'भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः ।[४६]

'भक्त्या' इत्यस्याऽव्यभिचारिण्या भक्त्येत्यर्थः ।

उक्तञ्च-

'भक्तिरव्यभिचारिणी' ।[४७]

अर्थात् सर्वलोकशरण्ये भगवति जगन्नियन्तरि सर्वात्मनि-अनन्ययोगेन जायमानाऽव्यभिचारिणी भक्तिरेव भवति ज्ञानसाधनम् । एवञ्च सद्गुरुप्रसादात् श्रवणादिना परमतत्त्वं विज्ञाय ये ज्ञानपौष्कल्यसिद्धिसाधनसम्पत्तिमन्तो मतयो योगिनो भक्त्याऽखण्डवृत्त्या परं ब्रह्मपरमेश्वरं भजन्ति ते एव खलु सच्चिदा नन्दैकलक्षणं निविशेषम्, निराभासम्, निराधारम्, शुद्ध-बुद्ध-मुक्तस्वभावम्, निरवद्यम्, निरञ्जनम्, शान्तम्, नित्यम्, निष्क्रियम्, निष्कलम्, निराकारम्, निर्विकारम्, परब्रह्म प्रमाणान्तराबाधितसत्तावत्तया अभिजानन्ति ते सविशेष साकारम्, सविकारं विहाय निविशेषब्रह्मात्मना सुखं सन्तिष्ठन्ते । तथा चोक्तम्

'भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः ।

ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्' ।[४८]

श्रीवल्लभाचार्यस्येदमपि कथनं वर्तते यत् निविशेष-निर्विकल्पब्रह्मज्ञानं भक्तिमन्तरा नहि कदापि कथमपि जायते । तथा चोक्तम् -

'भक्त्या विना ब्रह्मज्ञानं कदापि न जायते'।

-त्रिपाद्विभूतिमहानारायणोप० ८।१ ।

अपि च-

'मयि शत्तिहि भूतानाममृत्वाय कल्पते' ।[४९]

'मद्रूपमद्वयं ब्रह्म आदिमध्यान्तवजितम् ।

स्वप्रभं सच्चिदानन्दं भक्त्या जानाति चाव्ययम् ॥[५०]

एवं सच्चिदानन्द आनन्दकन्दो मथुराचन्द्रः श्रीकृष्णचन्द्रो भगवानेव चास्ति जगन्नियन्ता परमपिता परमेश्वरः । स च सर्वज्ञः सर्वशक्तिमान् शुद्धो बुद्धो मुक्तस्वभावस्तथाऽर्जुनं प्रति गीताश्रावकः । दोग्धा गोपालनन्दनोऽप्ययमेव भगवान् कृष्णः । अयमेव चाऽर्जुनं प्रति ब्रूते-'भक्त्या मामभिजानाति' इति । व्यासोऽपि स्वयं साक्षाद् वदति यत् -

'कृष्णस्तु भगवान् स्वयम्'[५१]

अस्य श्रीवल्लभाचार्यस्याऽऽत्मजः श्रीविठ्ठलनाथ एक 'विद्वन्मण्डल'-नामकं ग्रन्थं व्यरचयत् । एवमस्यैव दर्शनस्य प्राधान्यबोधकास्तथा पुष्टिमार्गसमर्थकाः सन्त्यन्यान्यविद्वन्मण्डलविनिर्मिता ग्रन्थाः । येषां कतिपयग्रन्थानामत्रापि समू ल्लेखो विधीयते । तथाहि -

१. 'भावप्रकाशिका'-श्रीकृष्णचन्द्रविरचिता ।

२. 'प्रमेय रत्नार्णवः' बालकृष्णविनिर्मितः ।

३. 'शुद्धाऽद्वैतमार्तण्डः'-श्रीगिरिधरमहाराजरचितः ।

४. 'अमृततरङ्गिणी'-पुरुषोत्तमनिर्मिता।

एवमन्येऽपि सन्ति बहवो ग्रन्थाः पुष्टिमार्गप्रवर्तकाः । ये च खलु ग्रन्था अमुमेव शुद्धाऽद्वैतमार्गम्, पुष्टिमार्गभूतं प्रभूतं मार्ग समर्थयन्ति प्रकाशयन्ति च । मार्गान्तरञ्च विडम्बयन्ति निर्भर्सयन्ति चेति ।

अयमेव खलु प्रागुक्तं सद्गुरुप्रसादात् श्रवणादिना प्राप्तं परमतत्त्वविषयक ज्ञानमार्गं सम्प्राप्य समुपाश्रित्य च मम परस्य ब्रह्मणः सच्चिदानन्दस्य आनन्द कन्दस्य श्रीकृष्णचन्द्रस्य साधर्म्य ( पूर्णत्वम् = ब्रह्मभावम् ) आगता मुनयो महा मुनयो वा यतयो योगिनो वा सर्गेऽपि नोपजायन्ते, तथा प्रलयेऽपि च न व्यथन्ति ( नहि व्यथां प्राप्नुवन्ति ) अर्थात् ते जनन-मरणात्मकमहादुःखतः सर्वथा विनिर्मुक्ता भवन्ति । तथा चोक्तं भगवता कृष्णेन

'इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।

सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥[५२]

अपि च–'ब्रह्म सम्पद्यते योगी न भूयः संसृति व्रजेत्' । एवं तत्परमतत्त्व विषयकं ज्ञानमुपाश्रित्य योगी ब्रह्म सम्पद्यते, न पुनः प्रलये महाप्रलये वा स संसृति लभते व्रजति वेत्यपि बोध्यम् ।

अत एवेमे मायां नाङ्गीकुर्वन्ति, कथयन्ति च--

'मायामात्रमिदं द्वैतमद्वैतं परमार्थतः'।[५३]

अचिन्त्यभेदवादः ( चैतन्यमहाप्रभुः)[सम्पादयतु]

अस्मिन् अचिन्त्यभेदाभेदवादमङ्गीकर्तृ-श्रीचैतन्यमहाप्रभुनये जीवात्म-पर मात्मनोः ( जीवेश्वरयोः ) भेदाऽभेदौ सर्वथाऽङ्गीकृतौ स्तः ।

तयोश्चापि जीवात्म-परमात्मनो दाऽभेदौ खल्वचिन्त्यरूपेण तत्र विचारितौ।

तथा च हारिणीमिव मनोहारिणी भक्तकामपूरणीमलौकिकी लीलां प्रदर्शन परस्याऽलौकिकशक्तिसम्पन्नस्याऽनन्तगुणगणयुतस्याऽनन्तशक्तिशालिनो वनमा. लिनो भक्तिप्रियस्य गोवर्धनधारिणो माधवस्य तुलसीमालागोपीचन्दनाद्यलकृत प्रतिमावतस्तस्य भगवतः परमेश्वरस्य श्रीकृष्णस्य चराचरात्मकं परमार्थतो

निरात्मकं जगदिदमचिन्तनीया लीलैव चास्तीत्यस्य विशेषतो ज्ञानार्थं श्रीमद्भागवतग्रन्थो विलोक्यतामिति ध्येयम् ।

अत्र श्रीराधया सहितः सच्चिदानन्दो गोकुलचन्द्रः श्रीकृष्णचन्द्र एवास्ति परमेश्वरः । स च 'भक्तिप्रियो माधवः' इति न्यायेन भक्तिलभ्यो भक्तिसाध्यो भक्तिप्रियत्वेन च भक्तानामपि प्रियः । अत एवाऽस्मिन्नये भक्तिरेव तुरीययका साधिका च । अस्मिन्नये ज्ञानजन्यं तुरीयं पुरुषार्थ मोक्षं भक्तिरेव साधयति जनयति च । तुरीयपुरुषार्थमोक्षदायिका भक्तिरिति वादिनामय माशयः यत् चित्तशुद्धिमन्तरा न संसारनिवृत्तिः स्यात् ।।

अतः काम्यकर्माणि सर्वथा परित्यज्य विहित-नित्यनैमित्तिकान्येवेश्वरार्पण बुद्धया करोति, तत्कर्मणा च भक्तिः समुदेति । तद्द्वारा च पुनश्चित्तशुद्धि प्राप्नोति साधको यतिर्वा । ततश्च चित्तशुद्धिं द्वारीकृत्य भक्त्याऽनन्यया परमे श्वरो लभ्यते । तथा चोक्तम् -

'भक्त्या त्वनन्यया 'लभ्यः' ।[५४]

'सच्चिदानन्दरूपमिदं सर्वम्' इत्यादिशास्त्रार्थोपदेशजन्यज्ञानजनिमत्तया खल्वनन्यया भक्त्या ब्रह्ममात्रत्वावगाहिन्या प्रत्ययान्तराऽनवगाहिन्या च तया बहिरन्तःसर्वदेशावच्छेदेन ब्रह्मरूपवस्तुस्वरूपसच्चिदानन्देत्यवगाहिन्या निवि कल्पया भक्त्या यथार्थब्रह्माधिष्ठानभूतवस्तुसन्दर्शनजन्यज्ञानेन ब्रह्मविद् साधको योगी वा यतिर्वा विदाङ्करोति विदाकर्तुं वा पारयति ।

इदमत्रावधेयमस्ति यन्मुमुक्षोर्यतेोगिनो वा अन्तःकरणविशुद्धये सविशेषस्य सगुणस्य सकलस्य ब्रह्मणः समाराधनायां श्रद्धाभक्तिभ्यां नैरन्तर्येण ब्रह्मैवेदं सर्वम् 'भेददृष्टिरविद्येयम्' इत्यनेन श्रुत्यात्मकेन न्यायेन निर्गुणं निर्विकारं निराकारं तत् परं ब्रह्म ज्ञातुं तथा तत्स्वरूपेणाऽवस्थानरूपां विदेहमुक्ति प्राप्त्यर्थं खल्वयमेव चास्ति विषयः ।

एवञ्च प्रशान्तसर्वशत्रुभावो विकारो वा यतिनिर्गुणनिष्कलपरब्रह्मज्ञानेनैव विदेहमुक्ति समवाप्नोति ।

अयमपि श्रीचैतन्यमहाप्रभुः १५०० ईसवीये वर्षे स्वीयं स्वाभिमतं श्रीचैतन्यमतं संस्थापितवान् । तदनन्तरकालावच्छेदेन च तस्य यथाशक्ति प्रचारः प्रसारश्च जातः, इदानीमपि जायते इति ।

अयञ्च बङ्गदेशीय आसीदिति श्रूयत एव केवलम् । तथा बङ्गदेशीयस्य महानैयायिकस्य श्रीवासुदेवसार्वभौमस्य शिष्य आसीदित्यपि श्रूयते एव, तच्च श्रवणं सर्वथा चास्ति प्रामाणिकम् ।

अस्य महानुभावस्याऽयमासीत् सुदृढः सिद्धान्तः—यत् 'भक्त्या त्वनन्यया लभ्यः' इति ।

अनेन श्रीचैतन्यमहाप्रभमहोदयेन राधया सहितः श्रीकृष्णः परमेश्वर एवा ऽहनिशकालावच्छेदेन सेवितः समाराधितश्च, नहि कोऽपि ग्रन्थस्तत्र लिखितः । केवलं शिष्योपदेशमात्रेणैव स्वाभिमतस्याऽस्य मतस्य प्रचार प्रसारञ्च विहित वानयं महानुभावः ।

अहं दर्शनेतिहासलेखनपरायणः । श्रीशशिबालागौडः खलु यावतोऽप्यस्य विदुषो द्वित्रिसङ्ख्याकान् शिष्यान् विदाङ्करोमि तावत एव केवलं नाम्नो ल्लिखामि, तथा तेषां विषयेऽपि किञ्चिद् ब्रवीमि ।

अस्य चैतन्यमतसंस्थापकस्याऽचिन्त्यभेदाऽभेदवादप्रवर्तकस्य श्रीचैतन्यमहा प्रभोरनन्तरकालावच्छेदेन जायमानस्तदीयः शिष्यः 'श्रीरूपगोस्वामी' श्रीगुरो मतप्रचारार्थं स्वीयमतप्रसारार्थं वा १६०० वर्षे निम्नलिखित ग्रन्थद्वयं रचित वान् । तथाहि

१. 'लघुभागवतामृतम्'-श्रीरूपगोस्वामिरचितः ।

२. 'भक्तिरसामृतसिन्धुः'-तत्रैव ।

३. 'वैष्णवतोषिणी'-अस्यैव भ्रात्रा श्रीसनातनगोस्वामिना रचितः ।

४. 'बृहद्भागवतामृत'-तत्रैव ।

५. 'हरिभक्तिविलास'-तत्रैव ।

इतः पश्चात्कालावच्छेदेन १७०० ईसवीये वर्षे 'श्रीकृष्णदासकविराजः । अस्यैव चैतन्यमतस्य संस्थापन-व्यवस्थापनदृष्ट्या 'चैतन्यचरितामृत' नामक ग्रन्थं व्यरचयत् । यत्र चैतन्यजीवनचरित्रनिरूपणं समीचीनं कृतवान् श्रीकविराजः ।

अविभागाद्वैतवादः ( विज्ञानभिक्षुः )[सम्पादयतु]

अविभागाद्वैतवादी श्रीविज्ञानभिक्षः १६०० ईसवीये वर्षे स्वास्तित्वसम्पन्नः खलु विज्ञानामृतभाष्यं रचितवान् ।

एवं सांख्यदर्शनेऽयं महानुभावो भिक्षुः-१. 'सांख्यप्रवचनभाष्यम्', २. 'सांख्यसारम्' तथा योगदर्शनेऽप्ययं महानुभावो भिक्षुः--'योगवात्तिके ति नामक ग्रन्थं रचितवान् ।

तत्र च श्रीविज्ञानभिक्षुमहोदयानामिदमेवास्ति कथनम्-यत् योगदर्शन सांख्यप्रवचनयोर्नास्ति किमपि महदन्तरम् । तत्र सेश्वरसांख्यप्रवर्तको पतञ्जलिः पादचतुष्टयात्मकं योगशास्त्रं प्रणीतवान् । तत्र श्रीपतञ्जलिः प्रथमपादे 'अथ योगानुशासनम' इत्येवं रूपेण योगशास्त्रारम्भविषयिणी प्रतिज्ञां कृत्वैव 'योगश्चित्तवृत्तिनिरोधः' इत्याद्यात्मकं योगलक्षणं कृतवान् । द्वितीये च पादे- 'तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः' इत्यादिरूपेण व्युत्थितस्य क्रियायोगं यम-नियमादीनि, पञ्च बहिरङ्गानि साधनानि निरूपितवान् । तृतीये च पादे 'देशबन्धश्चित्तस्य धारणा' इत्यनेन सूत्रेण महर्षिपतञ्जलिः धारणाध्यान समाधीनां विचारं कृतवान् इति ध्येयम् । चतुर्थे च पादे खलु मर्षिः 'जन्मौषधिमन्त्रतपः समाधिजाः सिद्धयः' इत्यनेन च सूत्रेण सिद्धिपञ्चकम्, ततश्च परमं पुरुषार्थरूपं तुरीयं प्रयोजनं मोक्षं दर्शितवान् इति ।

इत्थञ्च महर्षिः खल्वन्ततोगत्वा 'तस्माच्छान्तोदान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्येत्'–बृ० उ० ४।४।२३ । इत्यादिना ऽविभागाऽद्वैतवादं प्रस्फोरितवान् ।

शैवविशिष्टाऽद्वैतवादः ( श्रीकण्ठाचार्यः)[सम्पादयतु]

अस्मिन् शैवविशिष्टाऽद्वैतवादे शिवस्यैवेश्वरत्वं व्यवस्थापितवान् अङ्गीकृत वांश्च श्रीकण्ठाचार्यः । इमे सर्वेऽपि शैव-वीरशैव-सम्प्रदायानुरोधिनो गले लिङ्ग ( शिवलिङ्ग )-धारिणो भवन्ति ।

तेषामयमाशयः—यत् शिवस्यैव विष्ण्वादिषु सर्वेषु देवेषु चास्ति सर्वोच्च तमं स्थानम् । आयुषोदृष्ट्या, पददृष्ट्या, व्यक्तित्वदृष्ट्या, महत्त्वदृष्ट्या, एव मन्यदृष्ट्याऽप्यस्यैव भगवतः श्रीशङ्करापरनामधेयस्य श्रीशिवस्यैव सर्वथोच्च स्तरत्वं परिगण्यते ।

अयमेवेश्वरकोटौ ‘महेश्वरः' ( महांश्चासौ ईश्वर ) इति निगद्यते । देवकोटौ चायं 'महादेवः' ( महांश्चासौ देव ) इत्येव परिगण्यते । ईशकोटी चायं शिव 'महेशः' ( महांश्चासौ ईश ) इति च व्याह्रियते ।

एवमस्य भगवतः शिवस्य पारिवारिका व्यक्तयोऽपि सन्ति तथाविधा एव । . यथा-'नगेशः' (नगानामीशो) हिमालय इति । 'हिमालयो नाम नगाधिराजः' ।

तथैव मित्रकोटौ सन्निविष्ट: 'धनेशः' ( धनानामीशो धनेशः ) कुबेर इति । तथा तनयकोटौ चास्ति 'गणेशः' ( गणानामीशः ) । सर्वथा शुभकार्येषु पूज्यत्वे नाग्रगण्यः, अर्थात् समस्तपवित्रकार्येषु सर्वप्रथमत एव पूज्यतावच्छेदककुक्षि निक्षिप्तः । उक्तञ्च

'स्वयं महेशः श्वसुरो नगेशः सखा धनेशस्तनयो गणेशः ।

तथापि भिक्षाटनमेव शम्भो ! बलीयसी केवलमीश्वरेच्छा' ।।

आयुषोदृष्ट्याऽप्यस्य महानुभावस्य श्रीशिवस्य सर्वोपरि स्थानं वर्तते, अर्थात् विष्णुप्रभृतिदेवानामपेक्षयाऽयमेव भगवान् शिवश्चास्ति सर्वाधिका ऽऽयुष्मान् ।

केचित्तु निर्विकारम्, निराकारम्, निर्गुणम्, निर्विकल्पम्, निरञ्जनम्, निविशेषम्, निरीहम्, शुद्ध-बुद्ध-मुक्तस्वभावं खल्वमुमेव श्रीशिवमेव वदन्ति । 'शिवो धर्मप्रतिष्ठाता' इत्यनेन साक्षात् श्रीरामवचनेन धर्मप्रतिष्ठातृत्वस्य शिव स्वरूपे ब्रह्मणि विद्यमानत्वेन शिवस्यैव सर्वं महत्त्वं सर्वत्र गीयते इति ध्येयम ।

अयञ्च श्रीकण्ठाचार्यः ( १२८० ईसवीये वर्षे ) ब्रह्मसूत्रस्योपरि शैवभाष्यं लिखितवान् । कश्मीरप्रदेशे तथा दक्षिणप्रदेशान्तर्गतबेंगलूर-बेलगाँवप्रभृतिषु

क्षेत्रेषु चास्य सम्प्रदायस्य महान् प्रचारोऽस्तीति श्रूयते ।

अस्यैव भाष्यस्योपरि श्रीअप्पयदीक्षितरचिता चास्त्येका 'शिवार्कमणि दीपिका'नाम्नी टीका । सा चास्त्यतीव सुप्रसिद्धा टीका इति ।

वीरशैवविशिष्टाद्वैतवादः ( श्रीपतिः)[सम्पादयतु]

अस्मिन् वीरशैवविशिष्टाद्वैतवादि-श्रीपतिमतेऽपि 'शिव' एव चास्ति परमेश्वरः । स एव चास्ति परब्रह्मरूपः । जीवजगदूपविशेषणविशिष्टोऽपि स एवास्ति जगन्नियन्ता जगन्नाथोऽनाथनाथो बाबाविश्वनाथः शिव इति । स च सर्वशक्तिमान्, अनादिरनन्तश्चेति जगन्नियन्ताऽपि ।

अस्मिन् मते श्री श्रीपतिः' १४०० ईसवीये वर्षे स्वास्तित्वसंरक्षणपरायणः श्रीकरभाष्यं रचितवान् ब्रह्मसूत्रस्य ।

अयञ्च वीरशैवसम्प्रदायस्य महान् ज्ञाता श्री-श्रीपतिर्दक्षिणदेश निवासीति तत्रैव सन्तिष्ठमानोऽयं स्वीयसम्प्रदायस्य प्रचारं विशेषरूपेण कृतवान् । ब्रह्मसूत्रस्योपरि कृतस्य. श्रीकरभाष्यस्य पठन-पाठनादिकमाधिक्येन तत्रैव समनुभूयते । विशेषस्तु पुनः ।

दर्शनविचारः[सम्पादयतु]

दश्यते तत्त्वम् आत्मरूपम्, ब्रह्मरूपं वा तत्त्वं येन तद् दर्शनम् । तच्चाऽऽत्म दर्शन-ब्रह्मदर्शनरूपतत्त्वदर्शनमध्यात्मदृष्ट्यैव भवितुमर्हति नातोऽन्यथा इति । यथोक्तम् -

'आत्मा वाऽरे द्रष्टव्यः श्रोतव्यः मन्तव्यो निदिध्यासितव्यः मैत्रेय्यात्मनि खल्वरे दष्टे श्रते मते विज्ञाते इदं सर्व विदितम्'

अपि च प्रमाणान्तरेणापि खल्वयमेव विषयः पुष्टीक्रियते । तथाहि -

'तस्मादात्माऽक्षरः शुद्धो बुद्धो नित्यः सर्वगतोऽव्ययः ।

उपासितव्यो मन्तव्यः श्रोतव्यश्च मुमुक्षुभिः' ॥[५५]

अन्यच्चापि माण्डूक्योपनिषत्प्रमाणान्तरमप्याह -

'अद्वैतसिद्धान्तमेव हि सत्यं शिवं सुन्दरं सिद्धान्तमस्ति' ।

'शान्तं शिवम द्वैतं चतुर्थं मन्यन्ते स आत्मा ।'[५६]

इदञ्चास्ति आत्मदर्शनम् ( अध्यात्मदर्शनम् ) अध्यात्मदृष्टिरपि कथ्यते । अतः सेयमध्यात्मविद्यापरपर्यायभूताऽध्यात्मदृष्टिरेव चास्ति दर्शनम्, दर्शनशास्त्र वेति ।

तत्रापि सर्वेषां दर्शनानामुपरि चास्तीदं मूर्धन्यभूतं प्रभूतं दर्शनं भारतीय दर्शनमिदं परमं प्राचीनम् । तादशप्राचीनकालत एव परस्परभेदावच्छिन्न बाहुल्य-वृद्धि-पुनरुत्थानाऽनुत्थानादिरूपाऽऽरोपितदोषावच्छिन्नं सत् संसरति समागच्छति चेत्यस्ति क्रमपरम्परा । भूयो-भूयोऽपीदमेव भारतीयं दर्शन ससाग रायां धरायां विभिन्नभेदावच्छिन्नेषु च प्रदेशेषु प्रसतेभ्यो दर्शनेभ्योऽतीव श्रष्ठ श्रेष्ठतरञ्च प्राचीनञ्चापि निर्धारितवन्तः ।

अस्य भारतीयदर्शनस्य समद्भवावस्थायां प्रसरति किल-गीतम-कणाद कपिल-व्यासप्रभतीनामाध्यात्मिकी दष्टिर्वाणी वा. वाणीस्वरूपा तथाविधा दष्टिरेवेति मन्तव्यम् । समस्तानामेव भारतीयदर्शनानां समुद्भवः प्रकाश। वाऽनयेव दष्टया जायते नान्यथा नान्यतो वेति सर्वेऽपि समनूभवन्ति दाशानका इति ।

तात्त्विकदष्ट्या विचार्यमाणे खल 'दर्शन'-शब्दार्थः ज्ञाने एव पर्यवस्यति । अत एवोक्तवान् गङ्गशोपाध्यायः

'प्रमाणादीनां तत्त्वज्ञानानिःश्रेयसाधिगमः। -प्रामाण्यवादः ।

एवम्--

'तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् ।

अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥'[५७]

अन्यत्र वेदान्तप्रभृतिष्वपि दर्शनेषु चास्तीयमेव दर्शनस्वरूपा दृष्टिः । तथाहि ृ

'आत्मानं चेद्विजानीयादहमस्मीति पूरुषः ।

किमिच्छन् कस्य कामाय संसारमनुसंसरेत् ॥'[५८]

अपि च पुनर्भागवतेऽपि---

'आत्मानं चेद्विजानीयात् परमज्ञानधुताशयः ।

किमिच्छन् कस्य हेतोश्च देहं पुष्णाति लम्पट:' ॥[५९]

दर्शनानां दार्शनिक्या दृष्टेः, आध्यात्मिक्या दृष्टेश्चैतेसां सर्वेषामेव पर्यायवाचित्वान्नहि कोऽपि भेदस्तत्रानुभूयते । तत्र सच्चिदानन्दो नन्दनन्दनः श्रीकृष्णचन्द्रः खलु ज्ञानदृष्टिलक्षणलक्षितस्य दर्शनस्येत्थं विशेषरूपेण स्वरूप वर्णनं कृतवान् । तथाहि

'नहि ज्ञानेन सदृशं पवित्रमिह विद्यते' ।[६०]

अत्राशङ्कते—यदि राजसूय-अश्वमेधादियज्ञैः, कन्यादिविधेयकपवित्रपुण्यमय दानः, कठिन-जटिल-चान्द्रायणादितपश्चर्यादिभिरेव वा सकलदुरितक्षयसम्भवे काऽऽवश्यकता खलु वर्तते दर्शनस्वरूपस्याऽऽत्मज्ञानस्य । तन्न युक्तम्-औषधवद् यादृशमुद्देशं हृदि निधायाऽश्वमेधादयः सम्पाद्यन्ते तादृशस्यैवोद्देश विषयीभूतस्य पापस्य निवृत्तिजनकीभूतास्ते यागादयो भवन्ति नेतरस्येति कतिपयदुरितविध्वंसने पटुतां गतत्वेऽपि यागादीनाम् ।

तथापि बहुजन्मार्जितपापानां तथा जनन-मरण-जननीजठरे-शयनसम्पादकी भूतकर्मणां सर्वथाऽशक्यत्वमेवावधार्यताम्, अतः सर्वेषामेव कर्मणां क्षयविधाने नास्ति तदीयं तादृशसामर्थ्य मत आत्मज्ञानापरपर्यायभूतस्याऽनुष्ठेयताविधान कथनमेव साधु सङ्गच्छते । तदेवोक्तवान् साक्षाद् भगवान् कृष्णः

'नहि ज्ञानेन सदृशं पवित्रमिह विद्यते'।[६१]

अपि च शिवधर्मोत्तरेऽपि -

से 'यथा वह्निर्महान् दीप्तः शुष्कमाञ्च निर्दहेत् ।

तथा शुभाऽशुभं कर्म ज्ञानाग्निदहते क्षणात् ॥[६२]

एवम् – 'देहे ज्ञानेन दीपिते बुद्धिरखण्डाकाररूपा यदा भवति, तदा विद्वान् ब्रह्मज्ञानाग्निना कर्मबन्ध निर्दहेत्' ।[६३]

अपि च पुनस्तत्रैव

'कर्मणा बध्यते जन्तुविद्यया च विमुच्यते ।

तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः ।।[६४]

तच्च दर्शनात्मकं ज्ञानं गुरूपदेशमन्तरा नहि कल्पकोटिभिरपि समवाप्तुं शक्नोति मुमुक्षुर्यतिर्योगी वा कश्चन शरीरावच्छिन्नो जीवः । उक्तञ्च -

'यथा. जात्यन्धस्य रूपज्ञानं न विद्यते तथा ।

गुरूपदेशेन विना कल्पकोटिभिस्तत्त्वज्ञानं न जायते ॥'[६५]

अपि च गीतायामेव साक्षाद् भगवान् ब्रूते -

'ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति'।[६६]

अर्थात् यस्मात् कारणात् सर्वथाऽविकृतमस्ति खलु आत्मज्ञानरूपं दर्शनम् - तथा नानायोनिषु चरण-विचरण-भ्रमणशीलानां जीवानां कृते नानाविधजन्म जातजनन-मरण-जननीजठरे-शयनरूपमहादुःखप्राप्तिकराणि यान्ति सन्ति पुण्य पापमिश्रितानि नानाकल्पेष्वर्जितानि समस्तानि कर्माणि तानि समूलोन्मूलनं विधत्ते चेदमात्मज्ञानरूपं दर्शनम् । तस्मात् कारणात् तादृशज्ञानरूपसाधनेन सदृशं नास्ति शास्त्रे लोके च किमस्ति वस्त्वन्तरम् ।

एतादृशमविशुद्ध यतिशयदोषानवच्छिन्नं सर्वथा भेदाधनवच्छिन्नं सांसारिक बन्धननिवृत्तिलक्षणलक्षितमोक्षकारणीभूतम् अविद्यान्धकारतत्कार्यविध्वंसनकर दर्शनरूपं ज्ञानमज्ञानतत्कार्याभासशून्यां नित्यनिरतिशयसुखस्वरूपां ब्रह्मात्मना ऽवस्थितिलक्षणलक्षितां परां विदेहात्मिकां मुक्ति प्रयच्छति, प्रापयति चेति विज्ञेयम् । उक्तञ्च -

'सर्वेषां कैवल्यमुक्तिर्ज्ञानमात्रेणोक्ता ।

न कर्म सांख्ययोगोपासनादिभिः ॥[६७]

'ज्ञानादेव तु कैवल्यम्' ।-श्रुतिः ।

'ऋते ज्ञानान्न मुक्तिः' ।। - श्रुतिः ।

अपि च-

'ज्ञानस्वरूपस्यैव दर्शनं महत्त्वं ब्रूते ।

ज्ञानयज्ञः स विज्ञेयः सर्वयज्ञोत्तमोत्तमः ॥'[६८]

'अभेददर्शनं ज्ञानम्' ।[६९]

इत्यादिबहुप्रबलप्रमाणैर्दर्शनस्य ज्ञानरूपा खलु सुस्पष्टैवेति । अत्रैव वेदस्यापि प्रामाण्यमाह -

'अया विष्ठा जनयन् कर्वराणि स हि धणिरुरुर्वरायगातुः ।

स प्रत्युदैद्धरुणं मध्वो अग्रं स्वया तन्वा तन्वमैरयत' ॥[७०]

अर्थात्-धृणिः = ब्रह्मज्ञानरूपतेजोवान् । उरुः= विस्तृतहृदयशाली । गातुः = ज्ञानमार्गोपरि चलनात्मक क्रियाशीलः । सः = स ज्ञानयोगी । अया=अनया । विष्ठा = ( वि+स्था ) विशेषस्थित्या। कर्वराणि = नित्य-नैमित्तिकनिष्काम कर्माणि । जनयन् = कुर्वन् । मध्वः = मधुरज्ञानसम्बन्धिरसम् । धरुणम् = धारणार्थम् । अग्रं प्रति = सर्वतोऽग्रभागे स्थितमुक्त्यै । उदैत् = उपरि समु त्तिष्ठते । हि = यतः । स । स्वया तन्वा । वराय = वरणीयपरमात्मने । तन्वम् = स्वीयं शरीरम् । ऐरयत = प्रेरयतीत्यर्थः ।

अयमाशयः—'आत्मा वाऽरे द्रष्टव्यः' इति श्रुत्यनुसारेणतेनेदमेव ध्वनितं भवति यद् दर्शनलक्षणलक्षितब्रह्मज्ञानरूपतेजोवान् विशालहृदयो ज्ञानमार्गोपरि चलनात्मकक्रियाशीलो ज्ञानयोगी निष्कामभावनया खलु नित्यनैमित्तिककर्माणि समाचरन् वरणीयपरमात्मने समर्पयति तदर्थञ्च स्वात्मानं प्रेरयतीत्यर्थः ।

अपि च प्रमाणान्तरेणाऽप्येतदेव पुष्टीक्रियते -

'एष भूताधिपतिरेष भूतपाल एष सेतुविधरणः एषां लोकानामसम्भेदाय तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन' ।[७१]

अर्थात् एष आत्मा सर्वेषां भूतानां स्वामी वर्तते, एष एव सर्वेषां भूतानां पालकोऽस्ति, एष एव भवसागरतस्तारकः सेतुः, एष एव लोकानां संरक्षणाय तेषां धारकः, अत एव ब्रह्मजिज्ञासवो मुमुक्षवो ब्राह्मणा अनाशकेन, यज्ञेन, दानेन, तपसा, वेदानुवचनेन (ज्ञानद्वारा) ब्रह्मलक्षणलक्षितमात्मानं विविदिषन्ति अर्थात् आत्मदर्शनं विधातुमिच्छन्ति, इदमस्ति सर्वं दर्शनस्यैव माहात्म्यम् इति निश्चप्रचं विज्ञेयम् । दर्शनदृष्टिस्वरूपज्ञानप्लवेनैव भवसागरं सन्तरन्तीत्यत्र नास्ति लेशतोऽपि सन्देहानध्यवसायावसरः ।

चार्वाकदर्शनम्[सम्पादयतु]

पूर्वोक्तषड्विधदर्शनानां मध्ये चार्वाकदर्शनस्याप्यस्त्येकं स्थानम् । चारुः ( सुन्दरम् ) वाको ( वचनम् ) यस्येति यौगिकव्युत्पत्त्या सुन्दरवचनप्रतिपादन परं दर्शनमित्यर्थो लभ्यते इति ।

अस्य चार्वाकदर्शनस्य प्रवक्ताऽऽचार्यो बृहस्पतिरस्तीति अभियुक्तोक्त्या ज्ञायते । अत एवेदं दर्शनं बार्हस्पत्यदर्शनमित्यप्युच्यते, यतोऽस्य दर्शनस्य बृहस्पतेर्जन्मदातृत्वात् ।

लोकायतदर्शनमप्यस्यास्ति नामान्तरम्, इदञ्चास्त्यन्वर्थकं नाम, यतो लोकेषु ( जगत्सु ) सर्वत्र आयतम् ( विस्तीर्णम् ) इति च तदर्थः । इदानीन्तन कालावच्छेदेन सर्वोऽपि लोकः चार्वाकमतं सिद्धान्तञ्चानुसरति । प्रमाणदृष्ट्या विचार्यमाणे प्रत्यक्षप्रमाणस्यैव प्रामाण्यं स्वीकरोति लोकोऽपि । व्यवहारदर्शनेन तु सर्वेऽपि सन्ति प्रायः चार्वाका एव, प्रतीयन्तेऽपि च तथैवेति ।

चार्वाकनये यश्चास्तीन्द्रियजन्यज्ञानस्य विषयः स एव पारमार्थिकः सत्यः ( पारमाथिकसत्तावान् इत्यर्थः )। अनुमानप्रमाणजन्यज्ञानस्य विषयः, एवं शब्दप्रमाणजन्यज्ञानस्य विषयोऽपि तन्मते नास्ति पारमार्थिकसत्तावान् सत्यो वेति ।

चार्वाकसिद्धान्तप्रदर्शनपराणि सूत्राणि साक्षादाचार्यप्रवरः श्रीबृहस्पतिरेव प्रणीतवान् इति श्रूयते प्रामाणिकैर्गुरुकोटिकैरिति तेषां सूत्राणामितस्ततो दर्शनान्तरसम्बद्धग्रन्थेषु श्रवणात् समुल्लेखाद्वा श्रावणप्रत्यक्षविषयतामात्र सम्पाद्यते निश्चीयते च । नहि तानि सूत्राणि अद्यतनकालावच्छेदेनापि कश्चिद् दार्शनिको विपश्चित् निर्मातुं शक्तिधरोऽनुभूयते

'यावज्जीवेत् सुखं जीवेत् ऋणं कृत्वा घृतं पिबेत्' । इति च प्रतिपादनपरं चार्वाकदर्शनं केनचिच्चार्वाकनामकेन दैत्येन प्रणीत मित्यपि केचिद् दार्शनिका वदन्ति विवदन्ते चात्र बहवः ।

चार्वाकाणां बहुत्वात् सन्ति केचन शरीरात्मवादिनः, अपरे चेन्द्रियात्म वादिनः, अन्ये च प्राणात्मवादिनः, इत्यादिरूपेण तेषां वर्णनं वैविध्येन मिलति ग्रन्थान्तरेषु वेदान्तसारप्रभृतिषु ।

चार्वाकस्याऽयमप्याशयः-यद् येषां पदार्थानां प्रत्यक्षप्रमाणातिरिक्ताऽनु मान-शब्दादिभिः प्रमाणैः सिद्धिः क्रियते चार्वाकमते सन्ति ते पदार्थो मिथ्या भूताः स्वास्तित्वविहीनाश्चेति मन्तव्यम् ।

चार्वाकदर्शने प्रथिवी-जल-तेजो-वायवश्चेति सन्ति केवलं चत्वारि द्रव्याणि प्रत्यक्षप्रमाणजन्यज्ञानविषयीभूतानि ।।

एतेषां प्रत्येकं जडभूतानामपि चतुर्णामेव वैजात्यमापन्नानां द्रव्याणां परस्परं सम्मेलनेन सम्पाद्यमाने शरीरे चैतन्यमुपजायते । एवञ्चैतन्मते चैतन्यं शरीर निष्ठमेव अर्थात् शरीरस्यैव धर्मश्चैतन्यमित्यतः शरीरमेवाऽऽत्मा इति चार्वाकोदात, शरारातिरिक्तः कश्चिच्चेतन आत्मा न्यायवैशेषिकाभिमतः. सांख्यप्रभति दार्शनिकाभिमतो वेति नूनं विचार्यताम् ।

पृथिवी-जल-तेजो-वायु-स्वरूपचतूर्द्रव्योत्पन्नं जगदिदं प्रतिभासमानं सत् समनुभूयते । एतेषां चतुर्णा जडपदार्थानां पारस्परिकसंयोगेनैव चैतन्योत्पत्ति र्जायते । यथा-मधुघृतादिष्वेकत्र कृतेषु अर्थात् परस्परं संयुक्तेषु प्रत्येक मध्वादौ स्वास्तित्वविहीना सती काचिदेका शक्तिविजातीया तेषां चतुर्णामेव द्रव्याणां सम्बन्धविशेषमहिम्ना जायते ।

अङ्गनालिङ्गनादिजन्यं केवलमिह लौकिकं सुखमेवं पुरुषार्थः, स एव च स्वर्गपदाभिधेयतां गच्छति ।।

प्रियवस्तुनो वियोगेनाऽप्रियवस्तुनः संयोगेन च जायमानं दुःखमेव चास्ति नरकः । एतन्मते जगति सखस्यैवोपादेयत्वं सिद्धयति निश्चीयते च । यद्यपि सुखस्य सर्वमतेनोपादेयत्वं सिद्धमेव नाऽसिद्धमिति पुनः पूर्वप्रबन्धेन तत्साधने सिद्धसाधनो दोषः समागच्छति ।

परन्तु तथापि चार्वाकमते सन्मार्गेण असन्मार्गेण वा केनापि मार्गेण सुखं जायतामिति सुखप्राप्तिरेव चास्ति सर्वथा जीवनस्य प्रधानोद्देश्यीभूता। तथा चोक्तम् -

'यावज्जीवेत् सुखं जीवेत् ऋणं कृत्वा घृतं पिबेत् ।

हाल भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥[७२]

एवं स्थितेऽङ्गनाऽऽलिङ्गनादिजन्यस्य धर्मादिरूपकारणाजन्यस्य स्वर्ग रूपफलस्य सम्प्राप्तिरेव पुरुषार्थः ।

एतन्मते धर्माधौं नहि सुखदुःखयोः कारणे स्तः, भवितुं वार्हतः, अपि तु प्रियवस्तुनोऽवियोगस्य, अप्रियवस्तुनः संयोगस्य च धर्माऽधमी प्रति हेतुत्वात् इति ।

चार्वाका वराका अर्थकामयोरेव पुरुषार्थत्वं स्वीकुर्वन्ति । 'आद्यन्तौ टकितौ' इति न्यायेनाऽऽद्यन्तयोः टित्-कित्संज्ञान्तर्गतत्वात् तादृशसंज्ञाया एव धर्मस्याऽपुरुषार्थतायां मानत्वात् । तत्त्वतो धर्मस्य पुरुषार्थत्वमेव नास्ति, तस्य स्वयमेव खपुष्पायितत्वात्, वन्ध्यापुत्रायितत्वाच्चेत्यस्ति चार्वाकस्य हादिकोऽभिप्रायः । अर्थात् यथा वन्ध्यापुत्रस्य, खपुष्पस्य च नास्ति किमपि सत्त्वम् ( अस्तित्वम् ), केवलं शब्दानुपूर्वीमात्रमेव समनुभूयते न तु तत्र चास्ति काऽप्यर्थानुपूर्वी, तस्याः सर्वथा समाप्तत्वात् ।

चार्वाकः, चार्वाकदर्शनं वा मोक्षविषये चेत्थं विचारयति यत्-देहोच्छेद रूपस्य मोक्षस्यापि नास्ति पुरुषार्थत्वम् । यतः-मोक्षस्य कोऽस्ति अनुभव कर्ता, तथा कोऽस्ति तस्य पूर्णतया ज्ञाता, कश्चास्ति मोक्षस्याऽऽधारः आत्यन्ति कदुःखनिवृत्तिश्चेन्मोक्षस्तस्याऽनुभवविधानन्तु, तथा प्राप्तिस्तु इदानीमप्यत्रैव भवितुमर्हति तेषां येषां पयोदधियुतस्य, सघृतस्य, भोजनस्य अङ्गनालिङ्गना देश्चाऽस्ति समीचीना साध्वी व्यवस्थेति ध्येयम् ।

अपि च धर्मशास्त्रिणो वा, वेदशास्त्रिणो वा तथाऽन्यशास्त्रशास्त्रिणो वा केवलं धर्माऽधर्मयोरीश्वरस्य च विभीषिकां प्रदाय वेदशास्त्रमधिकृत्य सञ्चाल्य मानं लोकायतं निखिलमपि नित्यम्, नैमित्तिकञ्च वेदोक्तं कर्मकाण्डम् अस्या उदरदर्या आहोस्विज्जीविकाया उपायभूतं प्रभूतं साधनं कथयन्तो जनान् वराकान् सम्मोहयन्ति व्यामोहयन्ति मदयन्ति भ्रमान्धकारेऽज्ञानान्धकारे वा पातयन्ति । उक्तञ्च -

'अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् ।

बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः ॥[७३]

अपि च -

'अङ्गनालिङ्गनाज्जन्यं सुखमेव पुमर्थता।

कण्टकादिव्यथाजन्यं दुःखं निरय उच्यते। -तत्रैव।

एवम् -

'लोकासिद्धो भवेद्राजा परेशो नापरः स्मृतः ।

देहस्य नाशो मुक्तिस्तु न ज्ञानान्मुक्तिरिष्यते' ॥ -तत्रैव ।

'अत्र चत्वारि भूतानि भूमिवार्यनिलाऽनलाः ।

चतुर्यः खलु भूतेभ्यश्चैतन्यमुपजायते' ॥

किण्वादिभ्यः समेतेभ्यो द्रव्येभ्यो मदशक्तिवत् ।

अहं स्थूल: कृशोऽस्मीति समानाधिकरण्यतः ।। -तत्रैव।

अन्यत्रापि च -

'निहतस्य . पशोर्यज्ञे स्वर्गप्राप्तिर्यदीष्यते ।

स्वपिता यजमानेन किन्नु तस्मान्न हन्यते' ॥[७४]

आर्हतदर्शनम्[सम्पादयतु]

अर्हत इमे आर्हताः ( जैनाः )। इमे चाऽऽहंता जैनपदजन्यबोधविषयता वन्तः सन्तः 'अर्हत्'-पदसम्बोध्यं तं स्वीयं देवं समुपासते इति । तथा चोक्तम्

'अर्हन्नित्यथ जैनशासनरताः'[७५]

एतेषां नये 'अर्हत्'-पदजन्यबोधीयविषयता वानस्ति कश्चिदेतज्जैनसम्प्र दायानुगतोऽभिमतश्चैको देवविशेषः । स चाऽऽर्हतानामस्ति समुपास्यो देव इति । तत्र 'हेमचन्द्र'-नामको जैनदार्शनिक आप्तनिश्चयाऽलङ्कारे आह -

सर्वज्ञो जितरागादिः सर्वथा लोकपूजितः ।

यथा स्थितार्थवादी च देवोऽर्हन् परमेश्वरः ।।[७६]

एतनाऽऽहतानां सेश्वरवादिताऽस्तित्वं सुस्पष्टमेव सिद्धयति ततो निरीश्वर वादिता च स्वयमेव निराकृता भवतीति कथं पुनः 'जनशासनरताः' नास्तिक शब्देनोच्यन्ते इत्युच्यताम् ?

समाधानमाह-केवलं 'वेदानङ्गीकारात्' इत्यनेन हेतुना, 'नास्तिको सनकः इति न्यायेन च 'नास्तिक'-पदजन्यबोधविषयतावत्त्वेन नास्ति कता-'आहत'-निष्ठा सती, आर्हतमतनिष्ठा सती वा ना व्यपदिश्यमाना अवश्यमेव खल भवन्ति जैनाश्चावाकबाड

परन्तु जैनापरनामधेयाः खलु आर्हता बौद्धानां क्षणभङ्गवादम्, निरीश्वर पारच नाङ्गाकुर्वन्ति, नापि समादरन्ति च । यतस्तयोर्द्वयोरपि वादयोः सर्वथा. ऽननुभवात् शास्त्रप्रामाण्यविरोधाच्चेति ।

एवमेतन्मते चार्वाकदर्शनानुसारं नास्ति सुखदुःखकारणीभूतयोर्धर्माऽधर्मयोरनङ्गीकारः । अपि तु सुख-दुःखयोर्हेतुभूती धर्माऽधर्मावपि जैनदर्शनाऽभि मतौ स्वीकृतौ च वर्ततेऽतोऽस्मिन् दर्शने नास्ति तयोः कथमप्यनङ्गीकारः ।

अपि च प्राणिनां धर्माऽधर्मरूपाऽदृष्टवशादेव परमाणूनां पारस्परिक संयोगेन द्वयणुकादिक्रमेण स्थूलपृथिवीजलप्रभृतिद्रव्याणां समुत्पत्तिर्जायतेऽतो धर्माऽधर्मावेव सृष्टेस्तज्जायमानस्य प्रपञ्चस्य तदन्तर्गतानां वा पदार्थानां कारणीभूतौ, तदवच्छेदकीभूतौ वा आहोस्वित्तदवच्छेदकतावच्छेदकीभूतौ स्तः इति धर्माऽधमौ विना सृष्टेस्तदन्तर्गतप्रपञ्चस्य वाऽनुपपत्तेर्जायमानत्वेन सृष्टिरेव व्याहत्येतेति सृष्टि प्रति प्रयोजकत्वेनापि धर्माऽधर्मयोरङ्गीकारो नितान्त मावश्यक:-इति जैनदर्शनरता दार्शनिका आर्हताश्च वदन्ति विवदन्ते चात्र बहवो बौद्धाश्चार्वाकाश्चेति ध्येयम् ।

अथ यथा बौद्धवैशेषिकयोमते प्रत्यक्षमनुमानञ्चेति प्रमाणद्वयमेवाऽङ्गी कुरुतस्तथैव जैनास्तदनुयायिनश्च प्रत्यक्षानुमानयोर्द्वयोरेव प्रमाणयोः प्रामाण्य मभ्युपगच्छन्ति न तु शब्दोपमानयोरपि, आहोस्वित् अर्थापत्त्यनुपलब्ध्यादीनां प्रमाणत्वेनाऽभिमतानां प्रमाणानां सर्वेषामेव नास्ति प्रामाण्यं यतस्तेषां सर्वेषा मेव प्रत्यक्षाऽनुमानातिरिक्तानामनुमानेऽन्तर्भावात् इति । यथोक्तम्

'शब्दोपमानयो व पृथक् प्रामाण्य मिष्यते ।

अनुमानगतार्थत्वादिति जैनादिसम्मतम् ॥'

अपि च-

जैनदर्शने ‘मा हिंस्यात् सर्वाभूतानि'। इत्यनया श्रुत्या पुष्टी कृतः 'अहिंसापरमो धर्मः' अयमेवोपनिषत्सु वर्णितः सिद्धान्तः परमसिद्धान्तत्वेन मान्यत्वेन चाऽङ्गीकृतो वर्तते । अत एवाऽत्र दर्शने पिपीलिकाजीवमारणम्, पिपीलिकाण्डमारणम्, एवं तत्समवृश्चिकादिवधोऽपि ब्रह्महत्यासदृश एव वधो मन्तव्यः । तथा चीटिकावधोऽपि तथाविध एवेति विचारयन्तु शास्त्रशास्त्रिण इति ।

एवमस्मिन् दर्शने नास्ति-'अर्हतो'ऽतिरिक्तस्य वेदान्त सिद्धान्तसिद्धस्य परब्रह्मणः कृते किमपि स्थानम् । नापि च न्याय-वैशेषिकमतसिद्धस्येश्वरस्य, परमेश्वरस्य कृतेऽपि नास्ति किमपि स्थानम । तथा चोक्तं व्यतिरेकक्रमेण

'अर्ह नित्यथ जैनशासनरताः'। -श्रुतिः इत्यभियुक्तोक्तेः ।

अपि च जैनसम्प्रदायानुसारतो जीवः सङ्कोचविकासशाली, शरीरेन्द्रियादि जडवर्गतश्चास्ति सर्वथा भिन्नः परिणामी नित्यश्च ।

सष्टिरपि तन्मते परमविलक्षणा, सा च मूलपरमाणुस्वरूपा, जडत्वेना ऽचेतनस्वरूपा, प्रवाहरूपेणाऽनादिः स्वयम्भू चापीति मन्तव्यम् । जडस्वरूपपुद् गलतः कर्मणां समुत्पत्तिर्जायते । जीवो नानाविधानि कर्माणि अहर्निशमनिशं समाचरन्नेव नैव कदापि कथमपि विश्रमसुखशय्यां लभते । तेनैव च पुनर्जीव कर्मसम्बन्धेन जगदुत्पत्तिर्जायते देहिनाम् । तदनन्तरञ्च पुनस्तादृशे नैव सम्बन्धेन कर्मण एवैतस्मिन् मते संस्कारोत्पत्तिर्जायते स्वीक्रियतेऽपि च जैनदार्शनिकैः ।

एवमेव पुनः संस्कारोत्पत्त्यनन्तरकालावच्छेदेनैव च स संस्कारः पौन: पुन्येन प्राणिनां मरणं दुःखञ्च जनयति प्रापयति च । पुनश्च जन्मापि च संस्कारवशादेव भवतीति नहि तत्र संस्कारातिरिक्तं किमपि कारणान्तरमभ्यु पेयम् । to तथाऽऽर्हतानां धर्मोऽपि सृष्ट्युत्पत्तिकालोत्तरकालत एवाऽधुनातनकालपर्यन्तं समागच्छति। पुनश्चेतः पुरस्तादपि स एवमेव प्रचलिष्यतीति जैनसिद्धान्ता वलम्बिनो वदन्ति ।

जैनमतानुसारं चतुर्विंशतिसङ्ख्याकाः खलु तीर्थङ्कराः सञ्जायन्ते प्रत्येक मुत्सपिण्यवसर्पिण्योरिति चास्ति प्रामाणिको वादः ।

तत्रापि च यथा न्याय-वैशेषिकमतानुसारं पुराणपुरुषोत्तमस्य भगवतो विष्णोः खलु रामकृष्णप्रभृतयोऽवतारा जायन्ते, तथैव जैनमतेऽपि तीर्थङ्करगति गणनावसरेऽपीदमेव निर्णीयते यदन्तिमाया अवसर्पिण्याः प्रथमस्तीर्थङ्कर आदि नाथापरनामधेयो ऋषभदेवो बभूव

अयञ्च श्रीऋषभदेवो भगवतः पुराणपुरुषोत्तमस्य श्रीविष्णोश्चतुर्विंशत्यवता रेषु परिगणितः ।

पुनरयं खलु ऋषभदेवोऽवतारेष्वपि श्रीमनुवंशीयस्य श्रीनाभिराजस्य पुत्र त्वेन परिगणितः प्रचलितश्चासीदिति जानन्ति सर्वेऽपि ते जैनसिद्धान्तविदो वेत्तारः ।

अस्य च श्रीऋषभदेवस्य तीर्थङ्करस्य श्रद्धास्पदीभूता पूज्या माता ( जन्म दात्री = जननी ) चासीत् 'मरुदेवी'-नाम्नीति । सा एवम्भूतं प्रभूतमवतारस्व रूपं पुत्रं लब्ध्वा जनयित्वा चाऽऽत्मानं कृतकृत्यां मन्यमाना सती धन्यवाद भाजनभूताऽभूत् ।

एवं शान्तिनाथः, नेमिनाथः, पार्श्वनाथः, तथा चतुर्विंशतितमस्तीर्थङ्करः 'श्रीमहावीरवर्धनः' मगधराजस्य क्षत्रियस्य सिद्धार्थस्य पुत्रोऽयमासीदिति चास्ति महती प्रसिद्धिजनमतावलम्बिषु । जैनसम्प्रदायस्याऽयमासीदन्तिमस्तीर्थङ्कर इति चापि विज्ञेयमिति तु परमार्थः ।।

एवमयं नन्दीवर्धनभ्रातृकः सन् 'त्रिशला'-मातृकश्च सन् 'यशोदा'-पत्नीकश्च सन् काश्यपगोत्रीय आसीत् ।।

अयमेव च 'महावीरवर्धनः' खल्वस्य जैनसम्प्रदायस्य तथाविधमतस्य वा प्राधान्येन प्रवर्तक आसीदित्यपि प्रसिद्धि गतो विषयः कर्णाकर्णिकया ग्रन्थ शब्दानुपूर्वीकतया तदर्थानुपूर्वीकतया च श्रावण प्रत्यक्षविषयीक्रियते ।

अयञ्च श्रीवर्धनः 'क्षत्रियकुण्ड'-नामके ग्रामे स्वीये स्वीयं जन्म लभमानः सन् 'पावा'-स्थाने स्वीयं पञ्चभूतविनिर्मितमिदं शरीरं परित्यक्तवान् ।

जैनमतप्रतिपादकाः ग्रन्थाः[सम्पादयतु]

जैनमतस्य तत्सिद्धान्तस्य वा प्रतिपादनपराः सन्तीमे ग्रन्थास्ते च संख्या वत्त्वेन सन्ति पञ्चचत्वारिंशत् (४५) संख्याकाः । तथाहि -

१. एकादशसंख्याकाः ( ११) सन्ति ग्रन्थाः 'अङ्ग'भूताः सिद्धान्तग्रन्थाः ।

संख्याकाः ( १२ ) सन्ति ग्रन्था 'उपाङ्ग'भूताः सिद्धान्तग्रन्था जैनप्रस्फोरणपराः।

३. दशसंख्याकाः (१०) सन्ति 'प्रकीर्ण'-भूता ग्रन्था ये जैनसिद्धान्त प्रकाशनपराः ।

४. षट्त्वसंख्याकाः (६) सन्ति 'छेदसूत्र'-भूताः ग्रन्था ये जैनमतं सैद्धान्तिकत्वेन प्रतिपादयन्ति ।

५. चतुष्ट्वसंख्याकाः ( ४ ) सन्ति ग्रन्था 'मूलसूत्र'-भूताः ये जैनदर्शनस्य मूलं दर्शयन्ति ।

६. एकत्वसंख्याविशिष्टः (१) 'अनुपयोगद्वारसूत्र'भूतः सिद्धान्तग्रन्थ श्वास्ति जैनमतस्य ।

७. ( १ ) एकत्वसंख्यावच्छिन्नश्वास्ति 'नन्दीसूत्र'-नामकोऽयं ग्रन्थः सिद्धान्ततः आर्हतमतं समीचीनं प्रस्फोरयति ।

इदानीं जैनमतप्रतिपादका ये सन्ति ग्रन्थाः सिद्धान्तग्रन्थाश्चाऽङ्गभूतास्तथो पाङ्गभूतास्ते. सर्वेऽपि मिलित्वा पञ्चचत्वारिंशत् ( ४५ ) संख्यां पूरयन्तीति

सैव संख्या प्रदर्श्यते । तथाहि

अङ्गभूतान् सिद्धान्तग्रन्थानाह-१. आचारः, २. सूत्रकृतः, ३. स्थानम्, ४. समवायः, ५. भगवती, ६. ज्ञातृधर्मकथा, ७. उपासककथा, ८. अन्त कृद्दशा, ९. अनुत्तरोपपातिकदशा, १०. प्रश्नव्याकरणम्, ११. विपाकः ।

इदानीमुपाङ्गभूतांस्तान् ग्रन्थान् आह-१. औपपातिकः, २. राजप्रश्नीयः, ३. जीवाभिगमः, ४. प्रज्ञापना, ५. जम्बूद्वीपप्रज्ञप्तिः, ६. चन्द्रप्रज्ञप्तिः, ७. सूर्य प्रज्ञप्तिः, ८. निरयावलिः, ९. कल्पावतंसिका, १०. पुष्पिका, ११. पुष्पचूलिका, १२. वह्निदशा।

इदानीं खलप्रकीर्णग्रन्थानां प्रातिस्विकरूपतां प्रतिपादयति--१. चतुः शरणः, २. संस्तरकः, ३. आतुरप्रत्याख्यानः, ४. भक्तापरिज्ञा, ५. तण्डुल बैयासीयः, ६. चन्द्रवेध्यकः, ७. देवेन्द्रस्तवः, ८. गणिवीज्जा, ९. महाप्रत्या ख्यानः, १०. वीरस्तवः ।

अधुना च छेदसूत्रसिद्धान्तग्रन्थानां प्रातिस्विकरूपेण गणनामाह - १. निशीथः, २. महानिशीथः, ३. व्यवहारः, ४. दशाश्रुतस्कन्धः, ५. बृहत्कल्पः, ६. पञ्चकल्पः । -

इदानीं खलु चतुर्विधत्वेन विभाजनपराणां मूलसूत्रसिद्धान्तग्रन्थानां प्राति स्विकरूपेण गणनामाह-१. उत्तराध्ययनम्, २. दशवैकालिका, ३. आवश्यकः, ४. पिण्डनियुक्तिः ।

अपरावपि द्वौ ग्रन्थाववशिष्टौ ब्रूते १. अनुपयोगद्वारसूत्रम्-इत्यप्यस्ति एकः सिद्धान्तग्रन्थः ।

२. नन्दीसूत्रम्-इति नामकोऽप्यस्ति एकः सिद्धान्तग्रन्थो जैनमत प्रकाशकः । एवं क्रमेण मिलित्वा सर्वेऽपि सिद्धान्तग्रन्थाः जैनमतसम्बन्धिनः खलु पञ्चचत्वारिंशत्संख्याकाः भवन्तीति ध्येयम् ।

जैनानां द्वैविध्यमाह[सम्पादयतु]

जैना द्विविधा भवन्ति, श्वेताम्बराः, दिगम्बराश्च । इत्थञ्च श्वेताम्बर दिगम्बरभेदेन पारस्परिकभेदमापन्नेषु जैनेषु श्वेताम्बरा इत्थं समुगिरन्ति, यत्-दिगम्बरमतस्य 'शिवभूति'-कृतः प्रादुर्भावः खलु ईसवीये ८२ वर्षेऽभूत् इति सर्वेऽपि जैनशासनरता दार्शनिकास्तदितरे च विद्वांसो विदाङकुर्वन्ति । '

एवं दिगम्बरमते प्रादुर्भूता दिगम्बरा आर्हताः श्वेताम्बरनयस्य भद्र बाहुविहितं प्रादुर्भावम् एकोनाऽशीतितमे (७९) वर्षे जात इति च प्रस्फोरयन्तीति ध्येयम् ।

तत्रापि तात्त्विकदृष्ट्या विचार्यमाणे दिगम्बरमतावलम्बिना खल्वार्हताना ञ्चास्ति प्राधान्यं दक्षिणे भारते । तत्र सर्वत्र प्रायो दिगम्बरवेषधारिणी दिगम्बरा एव चरन्तो विचरन्तश्च दर्शनगोचरीभूता भवन्ति । तत्र नैकोऽपि प्रायः श्वेताम्बरश्चाक्षष-श्रावण-प्रत्यक्ष-विषयतां गतो व्यक्तिविशेषो वा समुपलभ्यते इति ।

एवमेवोत्तरभारतेऽपि च श्वेताम्बराणामेव जैनानां मुख्यत्वम् (प्राधान्यम् ) अनुभूयते । उत्तरभारते चास्ति मदीया अर्थात् दर्शनेतिहासलेखिकायाः शशि बालायाः स्वीया वसतिः । तत्र च मयाऽहर्निशमनिशं चरन्तो भ्रमन्तो दक्षिण भारते दिगम्बरवत् श्वेताम्बरा एव चाक्षुष-प्रत्यक्षविषयतां नीयन्ते । तत्र प्रायो नैकोऽपि दिगम्बरमतावलम्बी दिगम्बरः समुपलभमानो भवति । इमांश्च श्वेताम्बरांश्चाऽहं सम्यक्त्वेन विजानामि यदि मे श्वेताम्बरा महान्तो धनवन्तो दानवन्तश्व जायन्ते इति नहि केषामपि प्रच्छन्नो विषयः ।

तीर्थङ्कराणां विषये चास्तीयं धारणा दिगम्बराणां यत्ते तीर्थङ्करा भोजन मन्तरैव अर्थात् भोजनमकृत्वैव स्वीयं जीवनं प्रायो यापयितुं कामयन्ते कामयन्ते स्म च । अर्थात् कन्दमूलफलादिकं भक्षयित्वैव स्वीयं जीवन निर्वाहयन्ति निर्वाहयन्ति स्म चेतः पूर्वकालावच्छेदेनेति । एतादृशमापन्न एव च स्वीयां तपश्चर्यामपि चरन्ति स्म । एवमेतेषां तीर्थङ्कराणां विषये चेदमपि श्रूयते यद् यश्च तीर्थङ्करो भिक्षुर्भवति वस्त्रधारी सम्पत्तिधारी च स नैव कदापि कथमपि मोक्षं लभते। _नापि च सम्पत्तिमान् वस्त्रादिवेषभूषादिमान् तीर्थङ्करो भिक्षुस्तुरीय पुरुषार्थमोक्षाधिकारी भवति, भवितुं वा प्रभवति, तदर्थं वैराग्यं योगाभ्यासादि रूपं तत् साधनमपेक्षते । नापि चैतज्जैनमतेन स्त्रियोऽपि मोक्षाधिकारिण्यो भवितुं प्रभवन्ति, मोक्षं वा समवाप्नुवन्ति-अयमेव चास्ति खलूभयपक्षयो विवादः । तथा चोक्तमपि ।

'भुङ्क्ते न केवली न स्त्री मोक्षमेति दिगम्बराः ।

प्राहुरेषा मयं भेदो महान् श्वेताम्बरैः सह ॥

अधस्तादुल्लिखिताः सन्ति ग्रन्था ग्रन्थकाराश्च[सम्पादयतु]

भद्रबाहुः[सम्पादयतु]

ई० पू० ४३३-३५७ दशवैकालिका-टीका-निर्माता वाचकाचार्योपाधिभूषण भूषित आर्हतेषु दृष्टिवादस्य चतुर्दशसूत्राणां सम्यक्त्वेन ज्ञानशीलो जैनसम्प्रदाये योऽस्ति प्राचीनो गोत्रस्तादृशगोत्रसम्पन्नो जैनैर्युगप्रधानपुरुषत्वेन चाऽङ्गीकृतोऽयं भद्रबाहुः श्वेताम्बरजैनसम्प्रदायजन्मदाता श्रीयशोभद्र शिष्य आसीत् ।

अयञ्च यशोभद्र: कस्मिन् काले प्रादुर्भूत इति तदीयं प्रादुर्भावकालं तथा तिरोभावकालञ्च वयं नैव निर्णतुं शक्नुमः । नाद्यापि कालनिर्धारणं कर्तुं प्रभवति कश्चित् विपश्चित् ।

केवलमस्य महानुभावस्य यशोभद्रस्य विषये वयमेतावन्मात्रमेव शक्नुमो वक्तुं यदयं महानुभावो विद्वान् विभिन्नेषु सूत्रेषु जैनसम्प्रदायसिद्धेषु नाना विधाष्टीकाः खलु रचितवान् । श्वेताम्बरसम्प्रदाये मान्योऽयं मनीषी 'भद्रबाहुः' दिगम्बरसाम्प्रदायिकैरपि स्वीक्रियते समाद्रियते चापीति ध्येयम् ।

उमास्वातिः[सम्पादयतु]

अयञ्च जैनसम्प्रदायस्य प्रवर्धको महामनीषी 'श्रीउमास्वातिः'-नामको दार्शनिको विद्वान् ( १-८५ ) स्वीयजीवनाऽस्तित्वयापनपरायणस्तत्वार्थाधिगम सूत्रस्य तद्भाष्यस्य च निर्माणं कृतवान् इति । तथा वाचकाचार्योपाधिभूषण भूषितः सन् व्यावहारिकदूषणादिभिः सर्वथाऽदूषितः सन् पाटलीपुत्र ( पटना = बिहारप्रान्तीय राजधानी )-निवासी चासीत् ।

एवमयं 'श्रीउमास्वातिः' 'कौभिषणि'-गोत्रोत्पन्नः स्वातिपुत्रश्चाऽऽसीदि त्यनेनेदं सूच्यते यत् 'स्वाति'-नामा कश्चिद् व्यक्तिविशेषश्चास्य जनकी भूतः पिताऽऽसीत्, माता च 'उमा'-नाम्नी आसीदिति तदानीन्तना विद्वांसो व्याहरन्ति स्म ।

अस्य महानुभावस्य 'उमास्वाति'नामकस्य महाविदुषो विषये चास्तीयं प्रसिद्धि गता एका किंवदन्ती यदयं दार्शनिको विद्वान् ‘पञ्चाशत्प्रकरण ग्रन्थानां लेखको विनिर्माताऽप्यासीत् इत्यन्यत्र चास्ति विस्तरः ।

एवम् अयञ्च खल श्रीउमास्वातिर्मनीषी दिगम्बरैरपि जैनसम्प्रदा यान्तर्गतैः समादृतः सम्मानप्राप्तश्चासीदिति च कथानकमधुनातनकालावच्छेदे नापि प्रचलिता वर्तते।

अस्य महाविदुषो विषये इतोऽतिरिक्ता अन्या अपि बह्वयः किंवदन्त्यः श्रूयन्ते याश्च शास्त्रमधिकृत्य प्रवर्तन्ते, परन्तु ताः केवलं लेखविस्तरभया न्नात्रोल्लिख्यन्ते ।

हेमचन्द्रसूरिः[सम्पादयतु]

'श्रीहेमचन्द्र सूरि'रासीत् खलु जैनदर्शनशास्त्रस्य महान् दार्शनिको विद्वान् । अयञ्च हेमचन्द्रसूरिर्महानुभावो मनीषी (१०८८-११७२ ईसवीये वर्षे ) चतरशीति (८४ ) वर्षपर्यन्तं स्वास्तित्वसम्पन्नः सन श्रीदेवचन्द्रस्य शिष्य आसीत् । तथाऽनेन श्रीहेमचन्द्रसूरिणा जैनदर्शनवैदुष्यभूषणभूषितेन प्रमाण मीमांसाप्रभृतीनां नानाविधमीमांसाशास्त्रग्रन्थानां रचनां पाण्डित्यपूर्णां कृतवान् । एवमयं 'कुमारपाल'-नाम्नो राज्ञः परिषत्पण्डितः सन् तत्सञ्चालकोऽप्यासीत् ।

श्रीविद्यानन्दः[सम्पादयतु]

अयञ्च जैनदार्शनिकविद्वत्सु श्रीविद्यानन्दोऽप्यासीको जैनदर्शनस्याऽतीव प्रतिभासम्पन्नो विद्वान् ।

श्रीविद्यानन्दश्च महामनीषी ८०० ईसवीये वर्षे स्वकीयसंस्थित्या विराज मानो महती वैदुष्यधर्मसमन्वितां यां प्रतिष्ठां तदानीन्तनकालावच्छेदेनाजित वान् नहि तादृशीं वैदुष्यपूर्णां प्रतिष्ठां कोऽपि तदानीन्तनकालावच्छिन्नो जैन दार्शनिको विद्वानजितवान् ।

अयं खलु महाजैनदार्शनिको विद्वान् श्रीविद्यानन्द:-बिहारप्रान्तान्तर्गत पाटलि-पुत्र-(पटना) निवासी चासीत्, तथा सर्वत्रोत्तरभारते जैनदर्शनपरि शीलनपरत्वेन श्रीआनन्दो महतीं प्रतिष्ठामपि प्राप्तवान् इति । संख्यातीताः संस्कृतविद्वांसो विशेषतश्च 'वैशाली'-क्षेत्रनिवासिनो जैनदार्शनिका अहर्निश मनिशमस्य यशोगानं प्रकुर्वन्ति जैनदर्शनशास्त्रमधिकृत्य जैनदर्शनसम्भारोप नीताऽऽनन्दसुधामहाहदावगाहिनः कुशलाः ।

एवमयं श्रीविद्यानन्दो जैनदार्शनिको विद्वान् ‘पात्रकेशरिस्वामी' इति नामो पाधिभूषणभूषितः खलु-इत्यनेनापि नाम्ना स्वीयां पूर्णां प्रसिद्धि लभमानः श्रूयते ।

अस्यैव महानुभावस्य श्रीविद्यानन्दस्य जैनदर्शनस्य परमं महत्त्वं गौरवञ्च प्राकाश्यं नयन्ती चास्तीयं खलु 'अष्टसाहस्री-नाम्नी एका पुस्तिका, सैव च 'आप्तमीमांसालङ्कृति'-इत्यनेनापि नाम्ना गीयते । जैनदार्शनिकास्तां पुस्तिकां समधीत्य जैनदर्शनस्य महत्त्वं गौरवञ्च प्रमाणयन्ति । अस्या जैनदर्शनसार भूतायाः प्रभूतायाः पुस्तिकाया अयमेव श्रीआनन्द एव रचयिताऽभूदिति ।

श्रीसिद्धसेनदिवाकरः[सम्पादयतु]

जैनदार्शनिकशिरोमणिरयं 'श्रीसिद्धसेनदिवाकर'-नामको जैनव्यवहार-धर्म दर्शनादीनाञ्च स्वरूपपरिशीलने नैपुण्यमादधानस्तथा जैनदर्शनप्रवचनपाटवे कौशलं बिभ्राणः, स्यादस्ति-स्यान्नास्तीत्यनेकान्तवादान्तर्गतभावाऽभावयोर्देश भेदावच्छेदेन, कालभेदावच्छेदेन चैकत्राधिकरणे समावेष्टं प्रयत्नशीलोऽयं जैन मनीषी ४८०-५५० ईसवीये वर्षे स्वास्तित्वसंरक्षणपरायणः खलु निम्नो ल्लिखितानां त्रयाणां पुस्तकानां (ग्रन्थानां) लेखको विनिर्माता चाऽभूत् । तानीमानि सन्ति त्रीणि पुस्तकानि । तानि च यथा—१. 'न्यायावतारः', २. 'सन्मतितर्कसूत्रम्' । ३. 'कल्याणमन्दिरस्तवः'। एतेषां त्रयाणां ग्रन्थानां रचयिता, कर्ता, धर्ताऽपि चाऽयमेवाऽऽसीत श्रीसिद्धसेनदिवाकरः । अस्य च श्री दिवाकरस्याऽपरं नामधेयम् अर्थात् नामान्तरं 'क्षपणकः' इति चासीत् इत्यपि श्रूयते ।

एवं 'तर्कमन्य'-पदेन सम्बोध्यमानोऽयं श्रीदिवाकरः 'श्रीवृद्धवादिसूरिणोऽन्ते वसन्, तत्रैव च पूर्णतयाऽधीतविद्योऽपि पूर्णतया जैनदार्शनिको बभूव ।

अयञ्च श्रीदिवाकरः पूज्यं स्वीयं पितरं श्रीदेवर्षिम्, एवं श्रद्धेयां मातरं 'श्रीदेवश्री'-नाम्नीं चापि स्वीयेन लब्धप्रतिष्ठेन दार्शनिकतासुशोभितेन च वैदुष्येण सर्वथा समलङ्कृतवान् इति ।

श्रीदेवसूरिः[सम्पादयतु]

अयञ्च 'श्रीदेवसूरि'-नामको जैनसम्प्रदायमान्यतापरो जैनदार्शनिको विद्वान् जैनदर्शनस्याऽतीन्द्रियपदार्थदर्शी विद्वान् १०८८-११७२ ईसवीये वर्षे स्वास्ति त्वमक्षुण्णतया संरक्षणपरायणः स्वीयं शास्त्रीयं जीवनं जैनदर्शनशास्त्रीयवैदुष्य लेखनादिना—'दर्शनशास्त्रविनोदेन कालो गच्छति धीमताम्' इति न्यायेन शास्त्रविनोदेन च सुचारुतया यापयन् वादिप्रवरनाम्ना स्वीयां प्रसिद्धि लब्धवान ।

अपि च 'मुनिचन्द्रसूरि'-शिष्योऽयं श्रीदेवसूरिः, असंवेद्यभावज्ञाता सन् खल त्रयाणां ग्रन्थानां लेखकोऽभूत् इति । तथाहि-

१. 'प्रमाणनयतत्त्वालोका लङ्कारः',

२. 'अस्य' टीकालेखकः',

३. 'स्याद्वादरत्नाकरः ।

श्रीप्रभाचन्द्रः[सम्पादयतु]

श्रीप्रभाचन्द्रो जैनदार्शनिक उद्भटो विद्वान् जैनदर्शने नवनवपदार्थवाद कल्पनायां दक्षतां गतः सन् अविगीतशिष्टाचारतया ८२५ ईसवीये वर्षे स्वीय सत्तया सन्तिष्ठमानः खलु नवनवकठिनभावविचारालोकसमुद्दीपनतां गतस्य ग्रन्थद्वयस्य रचनां कृतवान् । तद् ग्रन्थद्वयमाह--

१. 'प्रमेयकमलमार्तण्डः',

२. 'न्यायकुमुदचन्द्रोदयः' ।

जैनदर्शनान्तर्गतं ग्रन्यद्वयमिदमनवगतार्थं विषयाऽबाधि तञ्चार्थं सर्वथा बोधयति, तथा पदार्थाऽऽलोकेन्द्रियादिनिखिलपदार्थप्रकाशसामग्रया अर्थोपलब्धौ साहाय्यमपि जनयति ।

श्रीसिद्धसेनगणीः[सम्पादयतु]

अयञ्च 'श्रीसिद्धसेनगणी'-नामको जैनदर्शनशास्त्रेऽतीव लोकोत्तरप्रतिभा भास्वरो विद्वान् खलु अलौकिकवैदुष्यभूषणभूषितः सन् ६०० ईसवीये वर्षे स्वास्तित्वसम्पन्नः 'श्रीभास्वामिपादानां शिष्य आसीत् । अपि चायं महानुभावः ग्रन्थद्वयस्यापि रचनां कृतवान् । तथाहि-१. 'तत्त्वार्थाधिगमसूत्रम्', २. 'तत्त्वार्थटीका' । इत्यनयोयोर्ग्रन्थयोरुपरि महानुभावस्यास्य परिश्रमो दृष्टि गोचरतां गतोऽनुभूयते ।

श्रीअनन्तवीर्यः[सम्पादयतु]

अयञ्च 'श्रीअनन्तवीर्यः जैनदर्शनेऽलौकिकाऽद्भुतवैदुष्यसमुपार्जनजन्यमह नीयकीर्तिः सन् १०३९ ईसवीये वर्षे स्वीयं जीवनं जैनदर्शनस्य, जैनदार्शनिक विदुषाञ्च सेवायां सम्यक्त्वेन समर्पितवान् । अयमपि महानुभावो जैनदर्शनस्य ग्रन्थद्वयं रचितवान्–'प्रमेयरत्नमाला'-ऽपरनामधेयां परीक्षामुखपञ्जिकाम् । तथा—२. 'न्यायविनिश्चयवृत्तिम्' चेत्यादिग्रन्थानपि रचितवान् ।

श्रीहरिभद्रः[सम्पादयतु]

अज्ञातकालोऽयं श्रीहरिभद्रः 'कलिकालगौतमे ति नाम्ना प्रसिद्धि गतः सन् 'षड्दर्शनसमुच्चय'-नामकग्रन्थस्याऽत्यन्तमेव सुप्रसिद्धि गतस्य रचनामपि अयमेव विद्वान् कृतवान् ।

श्रीअमितचन्द्रः[सम्पादयतु]

श्रीअमितचन्द्रोऽपि जैनदर्शनविभूतिभूषणभूषितः प्रभूतो विद्वान् ९०० ईसवीये वर्षे स्वास्तित्वसम्पन्न आसीदिति सर्वेऽपि विदाकुर्वन्ति जैनदार्शनिकाः । अयञ्चापि महानुभावस्त्रयाणां ग्रन्थानां रचनां कृतवान् ।

१. 'तत्त्वार्थसारः' ।

२. पुरुषार्थसिद्धयुपायः' ।

३. 'आत्मख्याति'श्चेति वर्तते जैनदर्शनशास्त्रस्य महती चास्त्युपकृतिः ।

  1. -भाषापरिच्छेद का० १ ।
  2. –तर्कसंग्रहः ।
  3. -भाषापरिच्छेदः
  4. -न्या० सि० मु० विलासिनी टीका ।
  5. --न्या० सि० मु० ईश्वरसिद्धिप्रकरणे ।
  6. महाभा० मोक्षध० ।
  7. 11 -सां० का० २२ ।
  8. सांख्यका० ४ ।
  9. सांख्यका० ९
  10. –महाभारते, मोक्षधर्मप्रक० ।
  11. –महाभारते ।
  12. ईशोपनि० मं० २ ।
  13. -नीतिशास्त्रतः
  14. चोदना सू० श्लो० वाति० ।
  15. तत्रैव, चो० सू० श्लो० वा० ।
  16. मीमांसाद० प्र० अ० ५ सूत्रभाष्ये
  17. सांख्यकारिका ।
  18. _-ब्र० सू० शां० भाष्यम्-उपोद्घाते ।
  19. -माण्डूक्यका० ३।२८ ।
  20. तत्रैव, ३।२९ ।
  21. तत्रैव, ३।३१ ।
  22. तत्रैव, ३।४८ ।
  23. तत्रैव, २।३२ ।
  24. तत्रैव, ३।४ ।
  25. बृहदारण्यकोप० ४।३।२३ ।
  26. —माण्डूक्योपनि० ७ ।
  27. -माण्डूक्योप० ७ ।
  28. -ब्रह्म सिद्धिः, चतुर्थ-सिद्धिकाण्डः ।
  29. अध्यात्मोप० ६३ ।
  30. -बृहदारण्यकोप० ४।३।१५ ।
  31. -दशश्लोकी।
  32. अद्भुतरामा० ।
  33. -विष्णुपु०।
  34. -विष्णुधर्मोत्तरपु० ।
  35. योगशिखोपनि० ४।३ ।
  36. आत्मप्रबोधोपनि० १२ ।
  37. अद्वैतसिद्धिः, प्रारम्भे ।
  38. पञ्चदशी, ब्रह्मानन्दे अद्वैतानन्दप्र० । '
  39. –मैत्रेयोप० २।२।२ ।
  40. अध्यात्मोप० ६३
  41. -तत्रैव पञ्चदश्याम्, ३ ।
  42. सूतसंहिता ।
  43. -सरस्वतीरहस्योप० ३३ ।
  44. -अद्वैतानन्दप्रकरणे श्लो० पञ्चद० ।
  45. -सर्वदर्शनसं० ।
  46. गीता, १८१५५
  47. -तत्रैव, अ० १३।१०।
  48. गीता, १८५५ ।
  49. –श्रीमद्भागवतम्, १०।८२।४५ ।
  50. वासुदेवोपनि० १।
  51. -भागवते ।
  52. श्रीभगवद्गीता, १४।२।
  53. सर्वदर्श० वल्लभा० ।
  54. गीता, ११।५४ ।
  55. -अद्भुतरामा० ।
  56. -माण्डूक्योप० ७ ।
  57. साङ्ख्यका ।
  58. -पञ्चदशी।
  59. -श्रीमद्भागवते ।
  60. -भगवद्गीता ।
  61. भगवद्गीता, ४।३८ ।
  62. शिवधर्मोत्तरः ।
  63. पैङ्गलोप०, ४।११ ।
  64. संन्यासोप०, २।९८ ।
  65. -त्रिपाद्विभूतिमहाना०, ५।१ ।
  66. -श्रीमद्भगवद्गीता, ४।३९ ।
  67. मुक्तिकोप० १।५६ ।
  68. -शाटयायनीयोप०, १६ ।
  69. -स्कन्दोप० ११ ।
  70. -अथर्ववेदः, ७।३।१ ।
  71. –बृहदारण्यकोप० ४।४।२२ ।
  72. -चार्वाकषष्टिः ।
  73. चार्वाकषष्टिः ।
  74. विष्णुपुराणम् ।
  75. -सर्वद० सं०
  76. -सर्वद० सं० आर्हतद० प्रकरणे ।
"https://sa.wikipedia.org/w/index.php?title=दर्शनानि&oldid=458098" इत्यस्माद् प्रतिप्राप्तम्