सामग्री पर जाएँ

भीमशङ्करः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

द्वादश ज्योतिर्लिङ्गानाम् आवल्यां षष्ठं ज्योतिर्लिङ्गम् अस्ति भीमशङ्करःभारतस्य अनेकेषु स्थानेषु अस्य ज्योतिर्लिङ्गस्य मन्दिराणि सन्ति । सह्याद्रेः उपरि समुद्रस्तरतः ३,४०० पादोन्नते स्थाने भीमानद्याः उद्भवस्थाने अस्ति प्रसिद्धं भीमशङ्करमन्दिरम् । भीमानद्याः तीरे शिवमन्दिरद्वयम् अस्ति । एकं प्राचीनम्, अपरं च अर्वाचीनम् । अर्वाचीनं मन्दिरं प्रसिद्धः राजनीतिज्ञः नानाफड्नवीसः निरमापयत् । मन्दिरद्वयमपि कृष्णशिलया निर्मितम् अस्ति । प्राचीनमन्दिरे भीमशङ्करस्य पञ्चमुखीविग्रहः, महान् नन्दिविग्रहः च अस्ति । अत्र महाशिवरात्रिः महता वैभवेन आचर्यते ।

भीमशङ्करमन्दिरतः अनतिदूरे किञ्चित् कुण्डम् अस्ति । तत्र उद्भवति भीमानदी । ततः किञ्चिद्दूरे विद्यमानं मोक्षकुण्डं प्राप्य पुनः ततः प्रवहति भीमा । "पिम्पळ”नामके ग्रामे भीमां भामानदी मिलति । तलजापुरसमीपे नदी इन्द्रायणी अपि भीमां मिलति । ततः अग्रे प्रवहन्ती भीमा कर्णाटकस्य रायचूरुमण्डलस्य उत्तरसीमायां कृष्णानद्यां लीना भवति ।

भीमशङ्करक्षेत्रे "कमलजा”इत्याख्यं देवीमन्दिरम् अपि अस्ति । दुर्धर्षनामकं राक्षसं सा मुष्टियुद्धे समहरत् । तदा कृतज्ञतासमर्पणरूपेण ब्रह्मा तां देवीं कमलपुष्पैः अर्चितवान् इति । तस्मात् तदारभ्य सा "कमलजा” इति निर्दिष्टा । अत्र साक्षिविनायकस्य, हनुमतः च मन्दिरे स्तः । अत्रत्येषु कुण्डेषु श्राद्धकर्माणि अपि कुर्वन्ति ।

महाराष्ट्रे डाकिन्यां विद्यमानं भीमश्ङ्करमन्दिरम्

एतत्क्षेत्रसम्बद्धा काचित् कथा एवं श्रूयते यत् – त्रिपुरासुरसंहारेण श्रान्तः परमेश्वरः विश्रान्त्यर्थम् अत्र आगतवान् । तदा तत्र सूर्यवंशीयः औधस्य राजा भीमकः शिवम् उद्दिश्य तपः आचरन् आसीत् । मृगयां मग्नः राजा भीमकः अज्ञानेन द्वौ ऋषी व्रणितौ अकरोत् । तस्य प्रायश्चित्तप्राप्त्यर्थं सः तपः आचरन् आसीत् । तदा तत्र आगतः शिवः तस्य अपेक्षाम् अपूरयत् । तदारभ्य भीमशङ्करनाम्ना शिवः तत्र अवसत् । त्रिपुरासुरस्य संहारावसरे शिवः स्वेदयुक्तः जातः आसीत् । भीमकस्य प्रार्थनानुसारं शिवस्य स्वेदः एव नदीरूपेण प्रावहत् । सा एव भीमानदी । भीमकस्य प्रार्थनाकारणतः स्वेदः नदीरूपं प्राप्नोत् इति कारणात् एषा नदी "भीमरथी” इत्यपि उच्यते । अस्मिन् क्षेत्रे नानाफड्नवीसेन निर्मितं पुषकरणीद्वयम् अस्ति ।

शिवपुराणस्य कोटिरुद्रसंहितायां भीमशङ्करमन्दिरं कामरूपे अस्ति इति उल्लेखः दृश्यते । कामरूपं नाम इदानीन्तनम् अस्सां राज्यम् । अस्सांराज्यस्य गौहातिसमीपे ब्रह्मपुरपर्वतस्य उपरि विद्यमानं शिवमन्दिरम् एव भीमशङ्करमन्दिरम् इति वदन्ति । अस्य क्षेत्रस्य विषये अपि काचित् कथा श्रूयते । कामरूपेश्वरः नाम राजा कामरूपस्य शासनं करोति स्म । सः महान् शूरः शिवभक्तः च आसीत् । भीमनामकः राक्षसः तस्य राज्यस्य सर्वान् शिवभक्तान् बहुधा पीडयति स्म । कदाचित् राजा शिवपूजां कुर्वन् आसीत् । तदा एव राज्ञः उपरि आक्रमणं कृतवान् राक्षसः शिवनिन्दाम् अकरोत् । तत् श्रोतुम् अशक्तः राजा कामरूपेश्वरः "भजामि शङ्करं देवं स्वभक्तपरिपालकम्” इति भजनम् अकरोत् । तदा क्रोधाविष्टः राक्षसः राज्ञः शिरः कर्तयितुं खड्गम् अचालयत् । सः खड्गः राजानम् अस्पृष्ट्वा शिवलिङ्गम् अस्पृशत् । तदनुक्षणं भक्तपरिपालकः शिवः तत्रैव प्रत्यक्षः सन् दैत्यसंहारम् अकरोत् । तद्दिनादारभ्य तत्र भगवान् शङ्करः भीमशङ्करनाम्ना ज्योतिर्लिङ्गरूपेण अवसत् ।


"https://sa.wikipedia.org/w/index.php?title=भीमशङ्करः&oldid=431978" इत्यस्माद् प्रतिप्राप्तम्