शतपथब्राह्मणम्
शतपथब्राह्मणं ब्राह्मणग्रन्थेषु सर्वाधिकमहत्त्वशाली विपुलकायस्तथा यागानुष्ठानस्य सर्वोत्तमप्रतिपादको ग्रन्थः मन्यते।
स्वरूपम्
[सम्पादयतु]यजुर्वेदस्य उभयोः काण्व-माध्यन्दिन-शाखयोः शतपथब्राह्मणमुपलब्धमस्ति। विषये सत्याप्येकतावर्णनक्रमे तथाऽध्यायस्य संख्यायाम् अत्रान्तरमस्ति। माध्यन्दिनशतपथब्राह्मणे काण्डानां सङ्ख्या १४ कथिता। अत्र शतमध्यायाः विद्यन्ते। प्रपाठकानां संख्या ६८, ब्राह्मणानां संख्या ४३८ तथा कण्डिकानां संख्या ६८०६ कथिता। माध्यन्दिनशतपथे प्रथमकाण्डादारभ्य नवमकाण्डपर्यन्तं पिण्डपितृयज्ञं विहाय विषयाणां क्रमः माध्यन्दिनसंहितानुसारेणैव अस्ति। पिण्डपितृयज्ञस्य वर्णनं संहितायां दर्शपौर्णमासानन्तरमेवास्ति। किञ्च ब्राह्मणे आधानस्य अनन्तरमेवाऽस्ति, इदमेवान्तरमस्ति। अवशिष्टकाण्डेष्वपि संहिता-क्रम एव अङ्गाकृतमस्ति। उभयोः शतपथयोः आरम्भे एव एकमन्तरं प्रतिभाति। माध्यन्दिनशतपथप्रथमकाण्डस्य विषयः (दर्शपूर्णमासेष्टिः) काण्वस्य द्वितीयकाण्डे उपलब्धो भवति। द्वितीयकाण्डस्य विषयः (अाधानम्-अग्निहोत्रादयः) काण्वस्य प्रथमकाण्डे एव समाविष्टोऽभवत्। अन्यत्र विषयास्तु तथैव किञ्च तेषां क्रमः भिन्नोऽस्ति।
माध्यन्दिनशतपथस्य प्रथमकाण्डे दर्शपौर्णमासेष्टीनां तथा द्वितीयकाण्डे अाधान-अग्निहोत्र-पिण्डपितृयज्ञ-आग्रायण-चातुर्मास्यादीनां वर्णनमस्ति। सोमयागस्य नानायागानां विवरणेन सम्बद्धौ तृतीय-चतुर्थकाण्डौ स्तः। पञ्चमकाण्डे वाजपेयस्य राजसूययज्ञस्य च विवेचनमस्ति। षष्ठकाण्डादारभ्य दशकाण्डपर्यन्तम् उषासम्भरणविष्णुक्रम-वनीवाहनकर्म-चयनादीनां सम्पूर्णवर्णनमस्ति। शतरुद्रीयहोम-चितिसम्पत्ति-उपनिषदादीनाम् अग्नेः उपासनासहितं वर्णनमस्ति। प्रथमकाण्डपञ्चके याज्ञवल्क्यस्य चतुर्दशकाण्डे यः समस्तशतपथस्य कर्त्ता मन्यते, प्रामाण्यं सर्वातिशायी भवति। किञ्च द्वितीयकाण्डपञ्चके याज्ञवल्क्यस्य नामनिर्देशोऽपि नास्ति। तत्र शाण्डिल्यऋषेरेव प्रामाण्यमस्तिः। अयमेव शाण्डिल्यः दशमकाण्डे वर्णितस्य अग्निरहस्यस्य प्रवक्ता निर्दिष्टोऽस्ति। अन्तिमकाण्डचतुष्टये (११-१४) अनेकेषां नवीनविषयाणां विवेचनमुपलब्धं भवति। विषयोऽयं सामान्यरीत्या ब्राह्मणग्रन्थेषु न विवेचितः नापि सङ्केतितो भवति। विषयेष्वेतेषु कतिपयाः महत्त्वशालिनो विषया एतादृशाः सन्ति — उपनयनम्[१], स्वाध्यायः- यः ब्रह्मयज्ञस्य रूपे स्वीकृतमस्ति[२], और्ध्वदैहिकक्रियाणामनुष्ठानम्[३], अश्वमेध-पुरुषमेध-सर्वमेधादीनां विशदविवेचनं त्रयोदशतमे काण्डे तथा प्रवर्ग्ययागस्य वर्णनं चतुर्दशतमे काण्डे कृतमस्ति। शतपथब्राह्मणस्य अन्ते बृहदारण्यकोपनिषदस्ति।
विषयवस्तु
[सम्पादयतु]शतपथब्राह्मणस्य महत्ता अनया घटनया एव प्रस्फुटा भवति यदयं ग्रन्थः प्रायः समग्रयज्ञयागानां साङ्गोपाङ्गं विवरणं प्रस्तुतं करोति। अन्यब्राह्मणेषु दुर्लभमिदमस्ति। यज्ञस्यारम्भः वैदिकयुगस्य आरम्भकालादेवास्ति। पूर्वं तु यज्ञस्य विधानं सङ्क्षेपतः एवाभवत्, किञ्च कालान्तरे याज्ञिकसंस्थेयमतिविस्तृताऽभवत्। ब्राह्मणयुगः याज्ञिकसंस्थायाः पूर्णविकासस्य युगोऽस्ति। अस्य परिचयो विभिन्नब्राह्मणग्रन्थेषु प्राप्यते। स्वकीयवर्ण्यविषयाणां गम्भीरविचारहेतुना सम्पूर्णब्राह्मणसाहित्यस्य शतपथब्राह्मणमिदं मुकुटमणिः मन्यते। अनेनैव कारणेन शतपथब्राह्मणं नितान्तप्रसिद्धमस्ति।
शतपथब्राह्मणस्य सम्बन्धः शुक्लयजुर्वेदेन सहास्ति। अतः संहितायां येन प्रकारेण इष्टिस्तथायागः अस्ति, तेनैव क्रमेण तयोरुल्लेखः अत्राप्यस्ति। शतपथस्य नवमकाण्डपर्यन्तं वाजसनेयीसंहितायाः अष्टादशतमाध्यायानां क्रमबद्धा व्याख्या समुपस्थापितास्ति। अस्मिन् वर्णने ब्राह्मणोचिता आख्यायिकानामपि यत्र तत्र समावेशोऽस्ति। अनेन समावेशेन याज्ञिकशुष्कवर्णनमपि रोचकमभवत्। इष्टिसु दर्शपूर्णमासयागो प्रमुखो मन्यते। दर्श इष्टिः प्रति अमावस्यायाः अनन्तरं प्रतिपत्तिथौ सम्पन्नो भवति। पूर्णमासयागः पूर्णिमायाः अपरस्यां तिथौ सम्पन्नो भवति। अनेन प्राधान्येनास्य साङ्गोपाङ्गविवरणं शतपथस्य प्रथमकाण्डे प्रदत्तमस्ति। एतेभ्यः इष्टिभ्यः समुपयुक्तमन्त्राणां निर्देशः संहितायाः प्रथमाध्यायस्य पञ्चमकण्डिकातः नीत्वा द्वितीयाध्यायस्य अष्टाविंशतितमाध्यायपर्यन्तं कृतोऽस्ति।
द्वितीयकाण्डे अग्निहोत्रस्य प्रथमतो वर्णनमस्ति। गृहस्थानां कृते अग्नेः आधानं कृत्वा सायं-प्रातःकरणीयस्य हवनस्य विधिर्वर्णितोऽस्ति। अस्यैव नाम अग्निहोत्र इति अस्ति। पिण्डपितृयज्ञः पितृृणां तृप्तिनिमित्ताय कृतो भवेत्। नवानेष्ट्यां नवीन-अन्नेन हवनस्य विधानमस्ति। चातुर्मास्योऽपि एको विशिष्टयागोऽस्ति। पूर्वोक्तचतुर्णां यागानां विवरणं शतपथस्य द्वितीयकाण्डे लभते।
तृतीय-चतुर्थकाण्डयोः विषयः सोमयागोऽस्ति। सोमयागे सोमलतां चूर्णयित्वा तस्याः रसनिष्कासनस्य प्रक्रिया भवति। तस्मिन् रसे गो-दुग्धेन सह मधुनः मिश्रणं कृत्वा उचितसमयोपरि देवनिमित्ताय अग्नौ जुहोति। सोमयागस्य प्रकृतिभूतयागः अग्निष्टोम इति कथ्यते। अस्योपयोगिनां मन्त्राणां सङ्कलनं वाजसनेयिसंहितायाः चतुर्थाध्यायाद् आरभ्याष्टमाध्यायपर्यन्तमस्ति। प्रकृतियागत्वेन अग्निष्टोमस्य वर्णनं तृतीयकाण्डे अस्ति। चतुर्थकाण्डे ज्योतिष्टोमादीतरयागानां वर्णनमस्ति। पञ्चमकाण्डे वाजपेयस्य तथा राजसूययज्ञस्य विस्तृतं विवरणमस्ति। राजसूयस्त्वेकः अत्यन्तमहत्त्वपूर्णो यागोऽस्ति। मूर्धाभिषिक्तः क्षत्रियनरेश एव अस्याधिकारी भवति। अभिषेकस्तु प्राचीनभारते राजनैतिकाधिपत्यस्य सूचकः एको महनीयो व्यापार आसीत्। कोऽपि अभिषिक्तराजा एव राजसूययज्ञानुष्ठानस्य सम्पादको भवितुमर्हति।
षष्ठकाण्डादारभ्य दशमकाण्डपर्यन्तम् अग्निचयनस्य विशिष्टं विस्तृतञ्च विवरणमस्ति। एतेषु काण्डेषु शाण्डिल्यस्य प्रामाण्यं विशेषरूपेण स्वीकृतमस्ति। शाण्डिल्यस्य सम्मतिरपि अत्यादरेण सहोदधृतोऽस्ति। एतेषु शाण्डिल्यकाण्डेषु गान्धार-केकय-शाल्वादिजनपदानाम् उल्लेखोऽपि अस्ति। इतरकाण्डेषु कुरु-पाञ्चाल-कोशल-विदेहादिजनपदविशेषाणाम् उल्लेखो अस्ति। डॉ० मैक्डोनल-महोदयस्य मतानुसारेण तेषां काण्डानां रचयिता शाण्डिल्य एवाऽस्ति, न तु याज्ञवल्क्यः। किञ्च वस्तुस्थितिस्तु भिन्नैवाऽस्ति। प्राच्योल्लेखेन प्रतीतो भवति यद्, याज्ञवल्क्यस्तु विदेहनगरस्य निवासी अासीत्। विदेहाधिपतिः जनकस्तु तस्य शिष्य आसीत्। सम्भवतः शाण्डिल्यस्य सम्बन्धमुत्तरपश्चिमप्रान्तेन सहासीत्। आर्यनिवासिनः तस्मिन् काले खण्डत्रयेषु पारस्परिकघनिष्ठसम्बन्धस्य अभावो नासीत्। एते त्रयः प्रान्ताः अासन्। (क) गान्धारः (पञ्जाबः), (ख) कुरुपाञ्चालः एवं मध्यदेशः, (ग) पूर्वीयभागः विदेहः कौशलश्चेति। ब्राह्मणेषु स्पष्टं निर्देशो लभते यद्, व्याकरणस्य अध्ययनं विशेषरूपेण उत्तरखण्डे एवाऽभवत्। कर्मकाण्डस्य अध्ययनं मध्यदेशे एवाऽभवत्। वैयाकरणपाणिनेः जन्म गान्धारप्रदेशस्य शालातुरनामकग्रामेऽभवत्। कुरुपाञ्चालप्रदेशस्तु अयाणां संस्कृतेः विकासस्य क्षेत्रमासीत्। अनेन कारणेनैव सत्यपि शाण्डिल्यस्योल्लेखः, आसां रचनानां श्रेयः याज्ञवल्क्यस्य कृते मन्यते। शतपथब्राह्मणस्य अन्तिमचतुर्णां काण्डानां विषययोजना मूलसंहितायाः आधारेण एवास्ति।
एकादशतमे काण्डे पशुबन्ध-पञ्चमहायज्ञ-दर्शपौर्णमासादीनाम् अवशिष्टविधानस्य वर्णनमस्ति। भूतयज्ञ-मनुष्ययज्ञ-पितृयज्ञ-देवयज्ञ-ब्राह्मयज्ञादीनां प्रख्यातयज्ञानाम् एव ‘महायज्ञ' नाम्ना प्रसिद्धिः।[४] वेदानां स्वाध्यायः अध्ययन-महायज्ञस्यैव रूपान्तरमस्ति। अस्यात्र भूयसी प्रशंसा अतीव अलङ्कारिकरीत्या कृताऽस्ति।[५] ऋचः अध्ययनं देवेभ्यः पयसः अाहुतिरिवास्ति। यजुषः अाज्याहुतिः, सामस्य सोमाहुतिः, अथर्वाङ्गिरसो मेदाहुतिश्च देवेभ्यः मधुनः आहुतिरिवास्ति। अनेन प्रकारेण वेदाङ्गविद्या-वाकोवाक्य-इतिहास-पुराणनाराशंसीगाथाप्रभृतीनाम् अध्ययनमपि देवेभ्यो मधुनः आहुतिरिव एवाऽस्ति। अत एव वेदाङ्गानुशीलनाय शतपथस्य विशिष्टाग्रहो दृश्यते।
नानाप्रमाणैः ‘स्वाध्यायोऽध्येतव्यः' इत्यादिकथनस्य समर्थनमस्य काण्डस्य महिमामयसिद्धान्तोऽस्ति। द्वादशतमे काण्डे द्वादशसत्रं, संवत्सरसत्रं, सौत्रामणिसत्रं, अौर्ध्वदैहिकसत्रम् इत्यादीनाञ्चानुष्ठानानां विस्तृतवर्णनमस्ति। प्रथमदिनादारभ्य द्वादशदिनपर्यन्तं यो यज्ञः चलति, तत्तु ‘क्रतुः' इत्यभिधीयते। द्वादशाधिकदिनपर्यन्तं यो यज्ञश्चलति स तु 'सत्रम्' इति कथ्यते। द्वादशाहस्तु द्विविधो भवति - सत्रम्, अहीनश्चेति। द्वादशसत्र-संवत्सरसत्रयोः पश्वाद् सौत्रामणीनामकस्य प्रख्यातयागस्य सविस्तरं विवरणमस्ति।[६] अस्य यागस्य अध्यात्मिकरूपस्य अपि मार्मिकविवरणम् अस्ति।[७]
त्रयोदशतमे काण्डे अश्वमेध-पुरुषमेध-सर्वमेध-पितृमेधादीनां विस्तृतं विवरणं वर्णीतमस्ति। मूर्धाभिषिक्तराजन्यमेव अश्वमेधयज्ञसम्पादनस्याधिकार आसीत्। अश्वमेधस्त्वनेकदिनेषु व्याप्तं भवितुं याज्ञिकविधानमासीत्। यज्ञीयाश्वहवनस्य अस्मिन् यज्ञे विधानमस्ति। चतुर्दशतमे काण्डे प्रवर्ग्यस्य वर्णनमस्ति। अन्तिमखण्डे चतुर्थाध्यायाद् आरभ्य नवमाध्यायपर्यन्तं बृहदारण्यकोपनिषद् निबद्धा अस्ति।
यज्ञानामाध्यात्मिकनिरूपणम्
[सम्पादयतु]यज्ञकर्मणि नानाकर्माणाम् अनुष्ठानं प्राप्नोति। तेऽपि एकस्मिन् विशिष्टक्रमे सम्पन्नाः भवन्ति। क्रमोऽप्ययं संयुक्तिकोऽस्ति। शतपथब्राह्मणेऽस्य क्रमस्य प्रत्येकं पदार्थस्य उपयोगिता प्रमापयितुम् उदात्तं, प्राञ्जलं च व्याख्यानमस्ति। तथ्यन्त्विदमेवास्ति यत्, भौतिकयागः कश्चन प्रतीकात्मको व्यापारोऽस्ति। अन्तर्यागे, बहिर्यागे च पूर्णसामञ्जस्यम् आनुरूप्यञ्च अस्ति। अग्निसन्धानानन्तरे, आहुतिद्वयदानस्य व्यवस्था भवति। प्रथमाहुतिः मनसे भवति, इयमाहुतिः पूर्वाधाराहुतिः कथ्यते, द्वितीयाहुतिः वाचे भवति, तत्तु उत्तराधाराहुतिः अभिधीयते। भौतिकरथकर्षणाय यथा द्वौ अश्वौ आश्यकौ भवतः, तथैव यज्ञचक्रस्य आकर्षणाय उभयोः मनोवाचोः आवश्यकता भवति। मनः कस्यापि वस्तुनः प्रथमतः सङ्कल्पं करोति, तदनन्तरं वाक्वचनव्यापारेण तस्य प्रतिपादनं करोति। मनः-वाचोः संयोगं विना कस्यापि कर्मणः विशेषतः यज्ञविदाध्यात्मिककर्मणः यथार्थं सम्पादनम् असम्भवमस्ति। अनया दृष्ट्या उभयोराहुत्योः निष्पत्तिः क्रमशः स्रुवः ‘स्रुच्' इति नाम्ना पात्रेण भवति।
अस्मिन् जगति द्वौ प्रधानतत्त्वौ स्तः -अग्निः सोमश्च (अग्नीसोमात्मकं जगत्)। अग्निरस्ति अन्नादः (अन्नस्य भक्षणकर्ता पुरुषतत्त्वम्) तथा सोमोऽस्ति अन्नम् (उपभोग्या स्त्रीतत्त्वम्)। अनयोः तत्त्वयोः यथार्थसम्मेलनेन, सामञ्जस्येन च जगतः कल्याणं भवति। अग्नौ सोमरसाहुतिदानस्य अयमेव अभिप्रायोऽस्ति यद् अन्नादेन सहान्नस्य परस्परसंयोगेन जगन्मङ्गलसाधिका सामग्री प्रस्तुता भवति। उपनिषत्सु तत्त्वमिदं ‘रयिः' तथा प्राणेति नाम्ना उल्लिखितमस्ति। यज्ञस्य लघ्वीक्रियायाः अपि स्वारस्यमस्य मूलतत्त्वस्य पीठिकायां पूर्णतया अभिव्यञ्जकत्वस्य श्रेयः शतपथब्राह्मणस्य एवास्ति। पूर्वाधारस्य आहुतिः होता उपविश्य एव ददाति, उत्तराधारस्य आहुति उत्थाय ददाति। अस्याः प्रक्रियायाः आभ्यन्तरे विद्यमानतत्त्वस्य स्पष्टीकरणं शतपथब्राह्मणे अतीव विस्तरेण सहास्ति।[८] वस्तुतः यज्ञस्य विधानं साधारणदृष्ट्या निर्जीवाडम्बरमिव प्रतीतो भवति, किञ्च शतपथब्राह्मणस्य अनुशीलनेन अस्य अन्तर्निहिततत्त्वानाम् उन्मीलनं तथा उदात्तस्वरूपश्च ज्ञातो भवति।[९]
शतपथब्राह्मणस्य प्राचीनता
[सम्पादयतु]सम्प्रति समुपलब्धब्राह्मणग्रन्थेषु, शतपथब्राह्मणं प्राचीनतमं मन्यते। भट्टोजिदीक्षितस्य सिद्धान्तकौमुद्यां निर्दिष्टेन एकेन सूत्रेण ब्राह्मणमिदम् अर्वाचीनं प्रतीयते। यथा - "पुराणप्रोक्तेषु ब्राह्मणकल्पेषु[१०] तृतीयान्तात् प्रोक्तार्थे णिनिः स्यात् इति यत्प्रोक्तं पुराणप्रोक्ताश्चेत् ब्राह्मणकल्पास्ते भवन्ति। पुराणेन चिरन्तनेन मुनिना प्रोक्ताः। भल्लुः, भाल्लविनः। शाट्यायनः, शाट्यायनिनः। कल्पे, पिङ्गेन प्रोक्तः पैङ्गी कल्पः। पुराणेति किम् ? याज्ञवल्क्यानि ब्राह्मणानि, अश्मरथः कल्पः। अत्र याज्ञवल्क्याश्मरथ्यशब्दौ कण्वादी, तेन ताभ्यां यजन्ताभ्यां 'वृद्धाच्छो न' भवतीत्याशयेनाह अणि आपत्यस्येति। 'याज्ञवल्क्यादयो ह्यचिरकालाः' इति भारतादिषु व्यवहारः स एवानुसृतः सूत्रकृता।" भट्टोजिदीक्षितस्य मतमिदं प्राचीनवैयाकरणस्य मतेन नितान्तं विरुद्धमस्ति, तेनास्य मत उपेक्षणीयमेवास्ति। दीक्षितेन वररुचेः वार्तिकमिदमुपेक्षितम् ‘याज्ञवल्क्यादिभ्यः प्रतिषेधः, तुल्यकालत्वात्' वात्तिकमिदं स्पष्टतः याज्ञवल्क्यस्य पूर्वनिर्दिष्टानाम् ऋषीणां 'तुल्यकालत्वात्' समकालिकं मन्यते। पतञ्जलिना महाभाष्ये वार्तिकमपि स्वीकृतम्।[११]
मीमांसकमतेन वैयाकरणमहोदयानां दृष्ट्यां भाल्लविब्राह्मण तथा शाट्यायनब्राह्मणं सम्प्रति अनुपलब्धौ स्तः - असन्दिग्धरूपेण द्वावपि ब्राह्मणग्रन्थौ प्राचीनतमौ अास्ताम्। याज्ञवल्क्येन प्रोक्तः शतपथब्राह्मणग्रन्थोऽपि, अनेन एव कालेन सम्बद्धः ग्रन्थ अासीत्। भट्टोजिदीक्षितस्य ‘ब्राह्मणमिदमर्वाचीनम्' इति कथनं कथमपि न्याय्यं नास्ति। नागोजिदीक्षितस्य 'लघुशब्देन्दुशेखरे' याज्ञवल्क्यमर्वाचीनकथनं सर्वथा तस्य अभिमान्तेवन स्वीकृतम् अस्ति - ‘याज्ञवल्क्यानीति कण्वादिभ्यः’ इत्यण्। ते हि पाणिन्यपेक्षया आधुनिका इत्यभिमानः भाष्ये तु शाट्यायनादितुल्यकालत्वात्; याज्ञवल्क्यादिभ्यः प्रतिषेधस्तद्विषयता च नेति वचनमेवारब्धम्॥' (नागेशः) अतः दीक्षितपूर्वं दीक्षितपश्चाच्च उभयविधाभ्यां वैयाकरणाभ्यां शतपथब्राह्मणस्य प्राचीनताऽक्षुण्णा एव सिद्धा भवति।
भाषाशास्त्रदृष्ट्या पाश्चात्यविद्वत्सु शतपथब्राह्मणस्य कालनिर्णयविषये द्वे मते स्तः। डाँ० बाकरनागेल-महोदयः पञ्चविंशब्राह्मणं, तैत्तिरीयब्राह्मणश्च प्राचीनतमब्राह्मणग्रन्थाभ्यन्तरे मन्यते, ऐतरेयब्राह्मणं, शतपथब्राह्मणञ्च तस्य दृष्ट्याम् अर्वाचीनौ ग्रन्थौ स्तः। संस्कृतगद्यस्य इतिहासप्रतिपादके स्वकीयग्रन्थे डाँ० ओल्डनबर्ग-महोदयः (Hermann Oldenberg) प्राचीनगद्यस्य उदाहरणं तैत्तिरीयसंहितास्तथाऽर्वाचीनगद्यस्य उदाहरणं शतपथब्राह्मणतः प्रदतवान्। एतेषां मतानां विपरीतं मतमस्ति डॉ० कीथ-महोदयस्य। अस्य दृष्ट्याम् अन्यब्राह्मणापेक्षया शतपथब्राह्मणं प्राचीनतरमस्ति। शतपथब्राह्मणं स्वराङ्कितरूपेण समुपलब्धमस्ति। तैत्तिरीयब्राह्मणं विहाय कोऽप्यन्यः ब्राह्मणग्रन्थः स्वराङ्कितः समुपलब्धो न भवति। शतपथब्राह्मणस्य प्राचीनतायाः सूचकमिदमस्ति। अस्य स्वराङ्कनपद्धतिः सामान्यस्वराङ्कनपद्धत्या भिन्ना एवास्ति। वाजसनेयीसंहितायाः स्वराङ्कनपद्धतिरपि अन्यवैदिकस्वराङ्कनपद्धत्या भिन्ना एवेति। अनेन कारणेन अत्राऽपि भिन्नता सम्भावनीया, किञ्च शतपथब्राह्मणस्य उच्चारणं वाजसनेयीसंहितायाः अनुरूपमेवास्ति - यकारस्योच्चारणं भवति जकारः, षकारस्य खकारः, अनुस्वारस्य 'गुँ' पदस्यादौ वकारस्य द्वित्ववकारः (व्व), एवम् ऋकारेण युक्तस्य रेफस्य 'रे' इति। यथा— 'सहस्रशीर्षा' इत्यस्य पदस्य सहस्रशीरेखा इति उच्चारणं भवति, तथा उष्मयुक्तलकारस्य उच्चारणं ‘ले' इति भवति। इयम् उच्चारणपद्धतिः माध्यन्दिनशाखायाः स्वविशिष्टता अस्ति, तदन्तर्मुक्तत्वेन शतपथब्राह्मण अपि स्वरूपमिदं स्वाभाविकमस्ति।
शतपथब्राह्मणस्य वैशिष्टयम्
[सम्पादयतु]अनेकया दृष्ट्या ब्राह्मणग्रन्थेषु शतपथब्राह्मणस्य महत्त्वमस्ति। मनोरमया रीत्या वैदिकविधानस्य याज्ञिकव्यवहारस्य च शिक्षार्थमेव शतपथब्राह्मणं प्रवृत्तं भवति। अस्मिन् ग्रन्थे यज्ञविद्यां स्वपूर्णवैभवेन सहालोचकानां सम्मुखे समुपस्थिताऽभवत्। यज्ञीयानुष्ठानस्य क्षुद्रातिक्षुद्रतस्य अपि विधिविधानस्य विशदवर्णनमस्मिन् ग्रन्थेऽस्ति। यज्ञीयक्रियायै हेतुनिर्देशः, प्राचीनाख्यानानां सरसविवेचनम्, अस्य ब्राह्मणस्योत्कर्षं प्रदर्शयति। पुराणेषूल्लिखितस्य मत्स्यावतारस्य बीजमस्यामेव कथायामस्ति[१२], येन ज्ञातो भवति केन प्रकारेण ननु मानवीयसृष्ट्या तेन मत्स्यसाहाय्येन जलौघात् त्रातुं समर्थोऽभवत्। जलौघे यदा मानवानां विनाशोऽभवत्, तदा पुनः तेन सञ्चितबीजेन एवास्मिन् भूतले तेषां प्रादुर्भावोऽभवत्। घटनेयं हिमालयस्योपरि घटिताऽऽसीत्। एवंविधस्य प्रलयकारीजलौघस्य घटना कथा प्राचीने “बाइबिल'-नामके धर्मग्रन्थेऽपि वर्णिता। इयं कथा शतपथब्राह्मणात् नीताऽस्ति अथवा पाश्चात्यदेशे स्वतन्त्ररूपेण आविभूर्ता अभवत्? इति तु प्रामाण्याभावात् निर्णेतुमशक्यमस्ति।
अार्यावत्ते आार्याणां प्रसार-वृत्तज्ञाननिमित्तकैतिहासिकघटनायां वर्णनं शतपथब्राह्मणं करोति। अस्य प्रथमकाण्डे माथवविदेथस्य[१३] तथा तेषां पुरोहितानां गौतमराष्ट्रगणादीनाम् ऋषीणाम् अतीव रोचकी आख्यायिका प्रदत्ताऽस्ति। शतपथानुसारेण विदेथमाथवः सरस्वतीनद्यास्तटे वासञ्चकुः। तत्स्थानात् अग्निः वैश्वानरः सर्वं स्थानं भस्मसात् कुर्वन् हिमालयात् निःसृत-सदानीरा-आख्यानदीपर्यन्तं समागतः। तत्पश्चात्तत्रैव स्थिरोऽभवत्। राजा पुरोहितेन सहाग्निमनुसरन् तत्रागतः। स्वकीयनिवासविषये जिज्ञास्यमानं नृपमग्निरवदत् - त्वमस्याः सदानीरा (गण्डकी)नद्याः पूर्वीयतटे निवासं कुरु। अनया कथया वैदिकधर्मस्य सारस्वतमण्डलात् पूर्वस्यां दिशि प्रसारस्य सङ्केतो लभते।
सदानीरानद्याः पूर्वाञ्चलप्रदेशः ब्राह्मणेभ्यो निवासाय अनुपयुक्तः अासीत्। उक्तञ्च -
तत एव हि प्राचीनाः बहवो ब्राह्मणाः वद्ध अक्षेत्रतर-निवास-स्रावितरमिव अास्वादितमग्निना वैश्वानरेणेति।[१४]
अस्मादेव अनन्तरात् असौ अार्यप्रदेशोऽभवत्। तदनन्तरमेव अस्मिन् प्रदेशे ब्राह्मणा अवसन्। सदानीरायाः पार्श्वस्थभूखण्डे मिथिलायां शतपथब्राह्मणस्य मान्यो राज्ञः जनकस्य उल्लेखो लभते। अस्य जनकस्य प्रधानोपदेष्टा याज्ञवल्क्यमुनिरासीत्। अनेकानां प्राचीनराज्ञाम् उल्लेखः अप्यत्र अश्वमेधस्य प्रसङ्गे प्राप्यते। दुष्यन्त-भरतादयः राजानः अश्वमेधयज्ञस्य कर्त्तारः आसन्। अतः तेषामप्युल्लेखो लभते।[१५] महाराजजनमेजयस्य अपि तत्र निर्देशोऽस्ति। तस्मिन् काले मिथिलायाः नृपतीनाम् उपाधिरेव ‘जनकः' इत्यासीत्। शतपथब्राह्मणे याज्ञवल्क्यस्य गुरोः उद्दालक-आरुणिमहोदयस्य व्यक्तित्वं पाण्डित्यञ्च अतीवाकर्षकमस्ति।