सामग्री पर जाएँ

मधु (आहारपदार्थः)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मधुमक्षिका मधुश्च

अयम् आहारपदार्थः प्रायः जगति सर्वत्र उपलभ्यते एव । अयं सस्यजन्यः एव आहारपदार्थः परन्तु कीटकुलीयाः मधुमक्षिकाः सङ्गृह्णन्ति । आङ्ग्लभाषायाम् एतत् Honey इति वदन्ति । मधु विना आयुर्वेदस्य चिकित्सानां कल्पनाम् अपि कर्तुं न शक्नुमः तथा प्रसिद्धम् अस्ति मधु आयुर्वेदशास्त्रे । बालानां तु औषधस्य सेवनं नाम मधुना सह एव इति अर्थः । एतत् मधु पुष्पेषु भवति । मधुमक्षिकाः सङ्गृह्य नीडे रक्षन्ति । अनन्तरं मानवः नीडतः मधुमक्षिकाभिः सङ्गृहीतं मधु प्राप्नोति । पञ्चसु अमृतसदृशेषु वस्तुषु मधु अपि एकम् । अतः एव पूजावसरेषु सज्जीक्रियमाणे पञ्चामृते अपि मधु योजितं भवति । एतत् मधु मधुमक्षिकाणां गात्रानुसारं, मधुनः सङ्ग्रहणस्य सामर्थ्यस्य अनुगुणं च विभज्यते । आचार्यः चणकः मधु चतुर्विधम् इति वदति ।

“माक्षिकं भ्रामरं क्षौद्रं पौत्तिकं मधु जातयः ।“
पुष्पेभ्यः मकरन्दं सङ्गृह्णती मधुमक्षिका
तैलवर्णीयं मधु माक्षिकं मधु । एतत् मधुषु अत्यन्तं श्रेष्ठम् इति उच्यते ।
घृतम् इव यत् भवति तत् पौत्तिकं मधु । एतत् मधु उपयोगाय योग्यं न इति वदन्ति ।
कपिलवर्णस्य मधु क्षौत्रं मधु । एतत् मधु शीतगुणयुक्तं पचनार्थं लघु च ।
महामधुमक्षिकाभिः सङ्गृहीतं मधु भ्रामरम् (भ्रमरसदॄशीभिः मधुमक्षिकाभिः इति अर्थः) । एतत् मधु किञ्चित् इव श्वेतवर्णीयं भवति । अस्य रुचिः मधुरः भवति । अस्मिन् मधुनि रूक्षगुणः न्यूनः भवति ।

मधुमेहादिषु रोगेषु (Sugar) माक्षिकस्य मधुनः उपयोगः एव करणीयः इति वदन्ति शास्त्राणि ।

आचार्यस्य सुश्रुतस्य अनुसारं मधु अष्ट विधं भवति ।

योगवाहिद्रव्येषु अत्यन्तं श्रेष्ठं द्रव्यम् अस्ति मधु । यतः विभिन्नानाम् औषधानां निर्माणे उपयुक्तं भवति तथा च बहून् रोगान् शमयति । योगवाहि नाम औषधानां गमनाय अथवा प्रयाणार्थं किञ्चन वाहनम् इव । यत् औषधं यत्र कार्यं कुर्यात् तत्र तस्य औषधस्य गुणं वर्धयत् औषधं यथा सम्यक् कार्यं कुर्यात् तथा करोति मधु । शीतद्रव्यैः सह शीतद्रव्यम् इव, उष्णद्रव्यैः सह उष्णद्रव्यम् इव कार्यं करोति मधु । अतः औषधानां कार्ये वेगं जनयति ।

मधुकोषः

आयुर्वेदस्य अनुसारम् अस्य मधुनः स्वभावः

[सम्पादयतु]

योगवाहिद्रव्येषु अत्यन्तं श्रेष्ठं मधु शरीरं शुष्कीकरोति । अस्य रुचिः कषायमिश्रितमधुरा । प्रधानरुचिः कषाया । मधु जीर्णानन्तरं कटुरूपेण परिवर्तितं भवति । किञ्चित् मधु जीर्णानन्तरम् अपि मधुररूपेण एव तिष्ठति । तादृशं मधु विश्वासार्हं न । तत्र कदाचित् शर्करायाः संयोगः जातः भवति । शुद्धं मधु तैलवर्णीयं भवति । शुद्धं मधु अग्नौ स्थाप्यते चेत् शब्दं न जनयति ।

१. मधु उष्णीकृत्य अथवा उष्णपदार्थैः सह न उपयोक्तव्यम् ।
२. मधु उष्णप्रकृतियुक्ताः अपि न सेवेरन् ।
३. उष्णकाले तन्नाम शरदृतौ, ग्रीष्मऋतौ च, मध्याह्नकाले वा मधुनः उपयोगः विषत्वेन परिवर्तते ।
४. उष्णगुणप्रधानैः पदार्थैः सह अपि मधु न उपयोक्तव्यम् ।
५. मधुना सह वृष्टिजलम् अपि विरुद्धं परिणामं जनयति ।
मधुमक्षिलकाणां पालनम्
६. शरीरस्य भारं न्यूनीकर्तुम् इच्छुकाः मधु उष्णजले योजयित्वा पिबन्ति । अयम् अपि उत्तमः क्रमः न इति वदति आयुर्वेदः ।
७. मधु घृतेन सह वा अन्यैः स्नेहद्रव्यैः सह वा समप्रमाणेन न उपयोक्तव्यम् । प्रमाणे परिवर्तनं कृतं चेत् अमृतसदृशं भवति ।
८. वृष्टिकाले मधुनः उपयोगः हितकरः ।
९. शीतप्रकृतियुक्ताः आहारेण सह मधुनः उपयोगं कुर्युः इति वदति शास्त्रम् ।
१०. मधुनः सेवनम् अधिकं जातं चेत् अत्यधिकं कूपजलं पातव्यम् । तदा दोषः निवारितः भवति ।
११. कमलपुष्पस्य मधु नेत्रे स्थाप्यते चेत् नेत्रस्य निर्मोकः न आगच्छति, दृष्टिशक्तिः वर्धते च ।
१२. मधु शरीरे शक्तिं वर्धयति, रक्ते हिमोग्लोबिन् अंशं वर्धयति च ।
१३. मधु जीर्णानन्तरं कटुरूपेण परिवर्तितं भवति इत्यनेन कफजन्येषु रोगेषु उत्तमम् । व्रणेषु मधुनः उपयोगः उत्तमं परिणामं जनयति ।
१४. मुखे तदा तदा पिटकाः जायन्ते चेत् तत्र मधु लेपनीयम् ।
१५. बालानां पीनसं कासं च मधु एव निवारयति ।


बाह्यसम्पर्काणि

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=मधु_(आहारपदार्थः)&oldid=483120" इत्यस्माद् प्रतिप्राप्तम्