व्याकरणग्रन्थाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


व्याक्रियन्ते = व्युत्पाद्यन्ते, संस्क्रियन्ते, प्रतिपाद्यन्ते, निरुच्यन्ते वा शब्दाः, वर्णाः, अक्षराणि, अथ च शुद्धीक्रियन्ते वागिन्द्रियाणि चानेनेति व्याकरणम् । सर्वशास्त्राणां, सर्वविद्यानां, सर्वभाषाणां च मुखं व्याकरणं प्रोक्तम् । विशेषेण "आ"क्रियतेऽनेनेति व्याकरणम् । "आ" इत्युक्ते आस्योद्घाटनव्यापारविशेषः । आस्योद्घाटनेन भाषा प्रयुज्यते । अर्थात् स भाषाप्रयोगः विशेषेण समन्ताच्च समीक्रियतेऽनेनेति व्याकरणशब्दार्थः । विना व्याकरणं कापि भाषा न शस्यते यथा योषा पतिं विना । संस्कृतम् संस्कृता भाषा भवितुम् अस्य श्रेष्ठतमं व्याकरणमेव प्रमुखं कारणम् । भाषां भाषाः च शास्ति व्याकरण्म् । अत एव व्याकरणं शास्त्रम् इत्युच्यते । अस्मिन् शास्त्रे अनेके ग्रन्थाः विद्यन्ते, ये च वेदभाषां प्राकृतभाषां संस्कृतभाषां अनेकाः अर्वाचीनाः भारतीयभाषाः चैकस्मिन् भाषाकुटुम्बे सूत्रयन्ति । संस्कृतव्याकरणशास्त्रं प्राचीनतमम् ।

पुरातनाः व्याकरणग्रन्थाः[सम्पादयतु]

यथा च श्रूयन्तेऽत्र प्राचीनानि व्याकरणानि- "ऐन्द्रं चान्द्रं काशकृत्स्नं कौमारं शाकटायनम् । सारस्वतं चापिशलं शाकलं पाणिनीयकम् ॥" -(तत्वनिधिः) । ऐन्द्रव्याकरणविचारे "तामिन्द्रो न्मव्यतोपक्रम्य व्याकरोत् । तस्मादियं व्याकृता वागुच्यते ।" इति श्रुतिवाक्यमेव प्रमाणम् । तथैव "चान्द्रास्तु आत्मोदरकुक्षिष्विति पेठुः" इति प्रतीतवचनात् चान्द्रव्याकरणमपि ऊहितुं शक्यते । महाभाष्ये "शताच्च ठन्यतावशते" इति सूत्रभाष्ये नामतः निर्देशात् काशकृत्स्नमपि आसीदिति ज्ञायते । कौमारं व्याकरणम् आग्नेयपुराणे समुपन्यस्तम् । ऋक्तन्त्रमित्यपरनामकं सारस्वतं व्याकरणं, शाकटायनं च वर्तमानकालेऽपि मुद्रापितं लभ्यते । आपिशलं शाकलं च पाणिनीयेऽष्टाध्यायिनि तत्र तत्रोदाहृते दृश्येते । तथा च प्राचीनानीति प्रतीतानि जैनेन्द्र-आशुबोध-मुग्धबोध-कातन्त्राभिधानानि अधुनातनकालेऽपि लभ्यन्ते । किन्तु नैतेषां वेदाङ्गत्वं विद्यते । सर्वप्र्काराणां लौकिकालौकिकानां शब्दानां नव्यया युक्त्या व्युत्पादकतया पाणिनीयं व्याकरणमेकमेव वेदाङ्गत्वं अर्हति । व्याकरणशास्त्रग्रन्थानां कर्तारः वैय्याकरणा प्राचीना अपि स्वकीयैः श्रेष्ठतमैः ग्रन्थरत्नैः अधुनापि जीवन्ति । अनेकेषु व्याकरणेषु "पाणिनीयं व्याकरणं" श्रेष्ठतमम् इत्यत्र न कापि विप्रतिपत्तिः । महर्षिणा पाणिनिना विरचितायामष्टाध्याय्यां ग्रथितानां सूत्राणाम् अर्थान् विशदयितुमेव भाष्यादिग्रन्थाः विरचिताः सन्ति । महर्षिः पतञ्जलिः "व्याकरणमहाभाष्यम्" नाम ग्रन्थं व्यरचयत् यच्च सोदाहरणं संस्कृतभाषायाः गरिमाणं विशालतां विश्वजनीनतां भाषितभाषात्वं च प्रतिपादयत् भाषाशास्त्रस्य दर्पण इव विराजते । एकः शब्दः सम्यग् ज्ञातः सुष्ठु प्रयुक्तः स्वर्गे लोके कामधुग् भवति । इति महाभाष्ये पतञ्जलिवचनम् । एतेन व्याकरणशास्त्रम् वेदान्तादिसदृशम् सत् शब्दब्रह्मणः साक्षात्कारेण आत्मोद्धारस्य साध्नमपि भवतीति सूचितम् पतञ्जलिमहर्षिणा । महर्षिः वररुचिः (कात्यायन एव वररुचिः इति केचन, कात्यायनादन्यः वररुचिः इति केचन वदन्ति) पाणिनीयसूत्राणां व्याख्यारूपेण वाक्यग्रन्थं, महावैय्याकरणः कात्यायनः वार्तिकम् , जयादित्यवामननामानौ काशिकावृत्तिम् , हरदत्तः पदमञ्जरीम्, वर्धमाननामा गणरत्नमहोदधिम्, जिनेन्द्रबुद्धिः काशिकाव्याख्यानं न्यासमञ्जरीतिग्रन्थम्, धर्मकीर्तिः नामा पण्डितः प्रक्रियानुसारं पाणिनीयं व्याकरणम् अध्येतुम् उपकारकं "रूपावतारः" इति ग्रन्थं च रचयामासुः । एवमेव महाभाष्ये परिभाषात्मकानि वचनानि सङ्गृह्य सीरदेवः परिभाषावृत्तिः नामकं ग्रन्थं, नागेशनामाऽन्यः परिभाषेन्दुशेखरम् इति ग्रन्थं निरमात् । तथैव अपरः नागेश भट्टनामा वैय्याकरणः "ज्ञापकसङ्ग्रहः " इति ग्रन्थं निरबध्नादिति श्रूयते । एतेषु अन्यतमः (कश्चन) प्राक्तनः वैय्याकरणः "पाणिनीया शिक्षा" नामानम् लघूत्तमम् आबालवृद्धोपयोज्यं ग्रन्थं ग्रथितवान्, योऽयं ग्रन्थः प्राथमिकशिक्षास्तरे छात्रैः कण्ठस्थीकर्तुम् उपयुक्तो भवति । यत इदं सरलैः लघुश्लोकैः निबद्धम् । अतः पाणिनीयव्याकरणस्य शिशिक्षूणां छात्राणां कृते प्रथमतया अध्येतुं योग्यमिदं प्रतिभाति । वैय्याकरणेषु केचन अर्वाचीना अपि भवन्ति, ये च प्राचीनग्रन्थान् अनुसृत्य स्वग्रन्थान् समपादयन्, ये च ग्रन्थाः संस्कृतच्छात्राणाम् अक्लेशेन व्याकरणमध्येतुं समुपकुर्वन्ति । तेषु महामहोपाध्यायः भट्टोजीदीक्षितः विशदां वैय्याकरणसिद्धान्तकौमुदीं वरदराजनामा पण्डितः लघुसिद्धान्तकौमुदीं च विरचितवन्तौ प्रसिद्धौ । एतान् प्राचीनग्रन्थाननूद्य वर्तमानकालेऽपि भारते विविधविश्वविद्यालयेषु अन्यान्यभाषामाध्यमेन संस्कृतभाषाशिक्षायै सहकारीणि सरलानि च बहूनि पुस्तकानि व्यरचयन् निष्णाताः विद्वांसः । अपि च अर्वाचीनानां भारतेयभाषाणां व्याकरणान्यपि संस्कृतव्याकरणशास्त्रम् अनुकृत्य एव प्रवर्तन्ते ।

  1. पाणिनीया शिक्षा
  2. अष्टाध्यायी
  3. काशिका
  4. गणरत्नमहोदधिः
  5. न्यासमञ्जरी
  6. पदमञ्जरी
  7. पदमञ्जरीव्याख्या
  8. पाणिनीया शिक्षा
  9. महाभाष्यम्
  10. रूपावतारः
  11. शब्दानुशासनम्
  12. सिद्धान्तकौमुदी
"https://sa.wikipedia.org/w/index.php?title=व्याकरणग्रन्थाः&oldid=395901" इत्यस्माद् प्रतिप्राप्तम्