भाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

भाषा संकेतम् इनकोडम्, डीकोडम् च कृतुम् साधनम् अस्ति। जन्तवः सङ्गणकाणि च भाषायाः उपयोगम् करोतः। सामान्यतः जन्तुनाम् भाषाः प्राकृत्तिकाः सन्ति। परन्तु संगणकस्य भाषाः कृत्रिमाः एव सन्ति।

कतिचन मानवस्य भाषाः अपि कृत्रिकमाः सन्ति। लोजबानम्, इन्टरलिङ्वा, इडो, इतियादवः उदाहरणानि सन्ति।

संस्कृतम् विश्वस्य प्रथमः विकसितः भाषा अस्ति। संस्कृतात् एव अन्य विकसिताः आर्यभाषाः अजन्मत्, अतः संस्कृतम् भाषानाम् माता अस्ति। संस्कृतम् देवभाषा अपि अस्ति।

प्राचीनभारतीयभाषाहस्तलेखः

महत्त्वम्[सम्पादयतु]

भाषा हि जनानां भावाभिव्यक्तये सशक्त साधनम् । अन्यैरपि चेष्टादभिः साधनैर्भावाभिव्यक्तिस्तु सम्भवति किन्तु न तत्र सम्पूर्णता सम्भवति । भाषेवसो शक्तिर्यया मनुष्यः पशुतो भिद्यते तेनैव वाङ्नाम दैवी शक्तिः । भाषा हि - समुदायस्य महान् वानिधिः । उक्तमेव 'तां विश्वरूपाः पशवो वदन्ति' इति । |.. विश्वरूपाः इति समुदायसम्बद्धाः, पशव इति प्राणिन उपलक्षणाज्जनाः, वदन्ति इति सुखेनोच्चारणं कुर्वन्ति । अनेन भाषायाः स्वरूपं व्याख्यातं मवति यथा भाषा नाम सा वाक् या खलु कण्ठताल्वादिभिरुच्चारणस्थानैरुच्चार्यते, या च केनचित्समुदायेन भावस्य स्पष्टाभिव्यक्तये प्रयुज्यते इति । अर्थात् उच्चारणा। वयवेभ्यः समुच्चरितानां सार्थकध्वनिसमूहानां समष्टिरेव भाषा भण्यते ।

भाषातत्त्वानि[सम्पादयतु]

अनेन भाषात्वसिद्धये चतुर्णा तत्वानामुपस्थितिरावश्यकी भवति । तानि चेमानि भवन्ति--

  • जनानां मुखताल्वादिभ्य उच्चारणावयवेभ्यः समुच्चारितानां सार्थक- । ध्वनिसमुदायानां समष्टिरेव भाषा भवति,
  • ताञ्च कश्चित्समुदायः स्वगतभावानां समग्राभिव्यक्तये प्रयुनक्ति, । | * तस्याश्च का विशिष्टा प्रक्रिया भवति या विवेचनीया निरूपणीया ।। च भवति
  • तस्याश्चैकं सार्वजनीनं स्वरूपं भवति यस्यः कश्चिन्निश्चितो नियमो नियामको भवति ।
  • सा च समुदायस्य भावसम्बद्धत्वात्सततपरिवर्तनशीला विकासोन्मुखी भवति । तादशश्च परिवर्तनमपि नियमत एव भवति न तु यथेच्छमिति ।

तादृशीं मनुष्यमात्रस्य सम्पद्भताऽनन्यप्राणिलभ्यां भाषा कथमुदैदिति विषये भाषाविदः परस्परं मंतपार्थक्यं जनयन्ति । केचिज्जनैः सम्भूय व्यवहारसौकर्याय भाषोत्पादितेति कथयन्ति किन्तु ते विस्मरन्ति यद्यदा भाषा नैवासीतदा जनाः कथं सम्भूताः कथञ्च ते परस्परं मन्त्रयाञ्चक्रुरिति । तेन मतमिदं नितान्तमेवाग्राह्यम् । केचित्तु भाषामीश्वरोत्पादितां मन्यन्ते तदपि । चिन्त्यमेव येतो यदि भाषेश्वरकृता भवेत्तदा तस्याः विश्वजनीनत्वं भवेत्। । किन्तु तथ्यं तद्विपरीतमेव । प्रतिसमुदायं भाषा भिद्यत एव तत्रापि प्रतिजाति तु भाषा परस्परासम्बद्धत्वेन भिद्यते अपरञ्चेश्वरकृताया भाषायाः कथं परिवर्तनधर्भसम्भवः । भाषा तु नितान्तपरिवर्तनशीला दृश्यते ।

विकासक्रमः[सम्पादयतु]

केचिद्भाषां क्रमेण विकसित मन्यन्ते । आदौ मनुष्य एकाकी विचरन्नासीत् । आकस्मिकमैथुनधर्मेण तस्य सङ्ख्या व्यवर्धत । कालान्तरे जीवनसौकर्याय तेन सामूहिक जीवनमारब्धम् । समानशीलाः समानं समुदायमवलम्ब्य स्थातुं प्रवृत्ताः । समूहजीवनेन सहैव परस्परं विचारविनिमयस्यावश्यकतोदगात् । प्रेथमं . तु तच्चेष्टादिभिरभूर्तसाधनैः समपद्यत किन्तु यथा यथा व्यवहारस्य जंटिलताः । वृद्धिमाप्ता तथा तथा चेष्टादिसाधनानि विचारविनिमयाय नितान्तमपर्याप्तानि सञ्जातानि । अपरञ्चान्धकारे चेष्टादीनां न तथोपयोगिता सिध्यति । तेन जनैविचारविनिमयाय ध्वनिप्रयोगः समारब्धः । आदौ ध्वनिरपि अस्पष्टोऽव्यक्तार्थ : श्चासीत् । अधुनाऽपि केऽचित्पर्वतप्रदेशेषु अव्यक्तध्वनिना विचारस्य कश्चिदंशः प्रकटौक्रियते । व्यतीते च काले सम्प्रवृत्ते च जटिलव्यवहारे तेनाऽपि नैव कार्यसमापन समपद्यत । क्रमशस्तादृशेषु ध्वनिषु अर्थसमावेशःसमारब्धः अस्माच्छब्दादयम. वैतद्वस्तु बौद्धव्यमिति सङ्केतनपरम्परा समुदिता । तत्रापि : प्रायः शब्दा असंयुक्ता एकाक्षरिण एवासन् । तान्वयमधुना धातुसंज्ञया व्यवहरामो यथा भू-वा-या-पा इत्यादयः । कालान्तरे बर्धमानव्यवहारापेक्षया शब्दराशेरावश्यकता समजायत । ततश्च तेष्वेव यं कञ्चिदंशं संयोज्य नवा नवाः शब्दाः निमिताः। ततश्चानेन क्रमेण भाषाऽस्तित्वमागता ।-समुदायविशेषेणैव स्वानुकूलमाविष्कृतत्वात्सा प्रतिसमुदाय भिद्यत इति ।

क्रीस्तधर्मग्रन्थों बाइबलमपि तथ्यमेवेदं समर्थयति । तदनुसारेण यदा इतरप्राणिसर्जनेनेश्वरो नैव सन्तुष्ट स्तदाऽन्ते स मनुष्यं सृष्टवान् । तं दृष्ट्वा च स परमप्रीतो बभूव । तमाशिभिः । संबध्यै स स्वसृष्टानां पदार्थानां नामकरणाय तमादिदेशः । मनुष्यो यं येना । ह्वयत्स तस्य नामाऽभूत् । इत्यञ्च भाषा समुदिता। तदा ईश्वरोऽचिन्तयधत्तस्य प्रियंमात्रं मनुष्य एकाकी वर्तते । एकाकी न रमते कोऽपि । तेन से ते निद्रा ददौ । निद्रितस्य शरीरादस्थिमांसंभागमादाय नारीं सृष्टबान्।।। यतः सी नेरशरीरांदंशमादाय सृष्टेति सा नारी नरस्यार्धाङ्गिनी । ततश्च तौ परस्परं ध्वनि साहाय्येनं, संल्लापमारेभतुर्यस्य विकसितं रूपमेव भाषा समजायत । यदाच. मनुष्याः पूर्वतः पश्चिम दिशं प्रति गतास्तदा, जगत्येको एव भाषाऽऽसीद्यञ्च सीमिता शब्दा एवीसनु। क्रमश, आवश्यकतानुसारेण शब्दनिधिवृद्धि प्रापित इति ।

भारतीयपरम्पराऽपि 'दैवी वाचमजनयन्त देवास्तां विश्वरूपाः पशवों वदन्ति इत्याद्युक्त्वा भाषां देवतोत्पदिता कमेण मनुष्यै हीतां मन्यते । ऋषयः खलु शब्ददर्शको अर्थनिरकाश्च। अस्माच्छब्दादयमर्यों बोद्धव्य इति ईश्वरेच्छव शब्दशक्तिरिति देवतायत्ता भाषा एकैवाऽऽसीत् किन्तु यदा सा मनुष्यगृहीता तेषामल्पबुद्धित्वात्साधि २ मिन्ना जाता । भाषोत्पत्ति विकासवादिनः सत्यस्य नैक किन्त तेऽपि न यथार्थमाप्तुं समर्थ है हि एतद्विस्मरन्ति यन्नैमित्तिक ज्ञानं विना न किमपि सिध्यति । यदि स्वतः ज्ञानेन सर्वं सिध्येत्तदा मपदा सर्वोऽपि समुदायः समानेनैव रूपेण क्किसितः स्यात् । I'S ११ उ तत्प्रतिकूलम् । तादशनैमित्तिकज्ञानं तु ईश्वरसिद्धमेव । स्याद्ययार्थं यद्वा तद्वा भाषा " भाषाव्यवहारे विकासवादिमतं सदोपेक्षणीयं सम्भवति । दतव स्यात्किन्तु' तद्विकासस्तु क्रमेणावश्यकतानुसारमेव सञ्जातोऽन्यथा शवतिगतिकर्मा कम्बोजेष्वेव न सीमितो भवेत् । लवनाथं प्राच्येषु. प्रसिद्धो दातिरुदीच्येषु दात्र न भवेत् । महान् हि शब्दस्य प्रयोगविषयः । स हि एकदा कदाचिदपि सिंह, सिद्धो न भवितुर्महति । अयं विकासस्यैव परिणामः ।।

भाषोत्पत्तिविषये भारतीयपरम्परा काचिद्विशिष्टैव विचारणा रक्षति । तदनुसार वाङ्नाम अनादिनिधना नया च या स्वयम्भवा आदौ वेदमयी वाचमजनयन्त तां विश्वः प्रवृत्तयः समुद्भता इति । एवमेव देवाः प्रथमं दैवीं एवेव लोकेषु त्रीणि पशुषविश्वरूपाः पशवो वदन्ति । स वै सृष्टी चतुर्धा व्यभवत् । एतेषु तुरीयमिति। तस्माद्वाह्मणा उभयीं वाचं वदन्ति या च देवानां या च मनुयुष्याणामिति । तेन वेदाधारेणैव लौकिकभाषा विकसिताऽअवदिति । वृहस्पतिः प्रथमं वाचं ददर्श । स हि देवतार्थं तामंगृह्णादिति तत्र वेदेषु कथ्यते । वाग्वै प्रथममखण्डाऽऽसीत। तत्र सौकर्यायेन्द्रो मध्यतोऽवक्रम्य कतिप्रत्ययादिविभागेन व्याकरोत् । उक्तमेव -

‘तामखण्डां वाचं मध्ये विच्छिा प्रकतिप्रत्ययविभागं सर्वत्राऽकरोत्' इति । । एवमेव - तामिन्द्रो मध्यतोऽवक्रमम्य याकृतोऽवदत् । ते देवा इन्द्रमब्रुवन् इमां नो वाचं व्याकुवति । व्याकरोदिति ।[१] तत्र हि खलु - सर्वेषां स तु नामानि कर्माणि च पृथक्-पृथक् । वेदशब्देश्य एवादौ पृथक् संस्थाश्च निर्ममे इत्यपि मन्यते । नैतावन्मात्रमपितु एतावदपि मन्यते यदा साधुशब्दाः साधुशब्दच्छात्वेनैवार्थबोधकाः किन्तु भर्तृहरिस्तु तेषां साधुशंब्दवाचकतां नैव स्वीकरोति साधुशब्दज्ञानविहीनानामपि तेभ्योऽर्थबोधदृष्टेः । पुनश्च वयं भाषाविषयं विकासवादेन संयोज्याग्रिमं वक्तव्यं ब्रूमः । कामं भाषा संविदुत्पन्ना, ईश्वरनिदष्टा वा क्रमेण विकसिता वा भवेत्किन्तु तस्याः क्रमिकविकासस्तु न केनाप्यलपितुं शक्यते। एकाक्षरात्मकशब्दादेकाधिकाक्षरात्मक शब्दनिर्माण, एकार्थकबोधकशब्दोदनेकार्थवाचकत्वोत्पत्तिः वर्णागमः, वर्णविपर्ययः, वर्णविकारः, वर्णलोपश्च क्रमिकविकासस्यैव लक्षणानीति सर्वैः स्वीकर्तव्यमेव । कामं दण्डादण्डि वायुद्धं प्रवर्तेत किन्तु वेदसम्बद्धशब्दानामपि.मूलरूपं प्रथममेव : तथैवाऽऽसीदिति तु वयं विश्वसितुं नैव समर्थाः । वयन्तु तदपि भाषाया : विकसितं रूपमेव मन्यामहे यदि तथाकथने जिह्वा नैवापकृष्यते । किञ्च वयं वेदार्थमेव भाषां गृह्णीमो न तु भाषार्थ वेदान् । वेदाः प्राचीनतमा; पवित्रा ब्रह्मणो वाच इति न वयमपि विमुखास्तत्वतः किन्तु वैदिकशब्दा अपि कुमेण विकसिता इति तु तथ्यमपि नैवापलयामः । नित्यत्वं तु शब्दानामेव प्रकृतिप्रत्ययविभागस्तु कृत्रिमः । झिविभक्तिं कल्पयित्वा 'झोऽन्तः' इंति पठने प्रथममेव अन्ति इति पठने च नैव भेदो भवति पदनिमित्तम् । नित्यं तु भवन्ति एव कामं कश्चित्तत्केनाऽप्युपायेन साधयेत्।

संस्कृतम्[सम्पादयतु]

देवभाषा हि संस्कृतपदेनाभिधीयते इत्याचार्याः । 'संस्कृतं नाम दैवी वागन्वाख्याता मनीषिभिः' इति वचनात् । तस्य संस्कृतामिधानं प्रकृतिप्रत्यादिविभागैः संस्कृतत्वादिति मन्यते । इदमुच्यते यत्प्रथमं भाषा नितान्तमव्याकृताऽखण्डैवाऽऽसीत् ।सा च प्रतिपदपाठेनैबोपदिश्यते स्म । कथ्यते यद्वृहस्पतिरिन्द्राय दिव्यवर्षसहस्रं प्रतिपदोक्तानां शब्दानां पारायणं प्रोवाच' इति । तेन तदध्ययने महान परिश्रमः कालक्षयश्च आवश्यक आसीत् । तेन देवा इमां नो वाचं व्याकुरु'इति इन्द्रं 'प्रार्थयामासुः । इन्द्रश्च तां मध्यतोऽवक्रम्य प्रकृतिप्रत्ययविभागेन व्याकरोदिति । तेनैवेत्थं व्याकृतत्वादस्य संस्कृतमिति नाम सञ्जातमिति । ननु प्रकृतिप्रत्ययविभागस्तु अन्यास्वपि भाषासु भवत्येव । तेन कथं देवभाषैव संस्कृतमिति नाशङ्कितव्यम् । तस्यास्तथाभिधानं सर्वप्रथमत्वेन व्याकृतत्वात् । यद्यप्य" भिधानमिद लौकिकसाहित्ये एव दश्यते सम्मवतो भाषावबोधकत्वेन प्रथमभरतनाट्यशास्त्र एव तथाप्यस्य सम्बन्धो वैदिकपदै.सहापि नापलपितुं शक्यः । तदेतत्पर्यवस्यति यद्भाषा प्रथममखण्डाऽव्याकृता चासीत् । तस्य च व्याकृतं साहित्यिक रूपं संस्कृतपदेनाऽप्यभिधीयते । तत्संस्कृतरूपमनुमातुमशक्तैरभिधातृमिरवकीर्णं सत्प्राकृतं सजातम् । यथाऽऽह भर्तृहरिर्वाक्यपदीये -

दैवी वांगवकीर्णेय मशक्त रभिधातृमिः ।[२] इति ।

एवमेव नाट्यशास्त्रेऽप्युक्तं -

“एतदेव बिपर्यस्तं संस्कारगुणवजितम् । विज्ञेयं प्राकृतं पाठ्यं नानावस्थान्तरात्मकम् ।'[३]

तेनदेमवधेयं यद्द वभाषाया व्याकृतं स्वरूपं संस्कृतमवकीर्णञ्च स्वरूपं प्राकृतमिति । अनेनैवाशयेनोक्त' भवेत् -

प्रकृतिः संस्कृतम् । तत्र भवं तत आगतं वा प्राकृतमिति । अन्यथा व्याकरणनियमबद्धाया भाषायाः परिवर्तनं वा विकारः कथं कल्पितः स्यात् ।' । उक्तमेव वाक्यपदीयस्य स्वोपज्ञवृत्तौ ‘प्रकृतौ भवं प्राकृतं साधूनां शब्दानाम् । '' इति । तेनैव लौकिकसंस्कृतापेक्षया वैदिकभाषया सह प्राकृतभाषायाः । सान्निकट्यमपि एतदेव समर्थयति । यथां वेदे मूर्धन्यषकारस्य टवर्गसंयुक्तव खकारवदुच्चारणं यथा ‘प्रथमो दैव्यो भिषक' श्त्यत्र भिषक्पदे । प्राकृतेऽपि भिख- ।। .: गिति । लौकिकसंस्कृते तु भिषगेव ! यथैव सूर्यस्य वेदे सूज्य इत्युच्चारणं तथैव ।

प्राकृतेऽपि, यदा इत्यस्य वेदे ज्यदा इत्युच्चारणं प्राकृते जदा इति, यमित्यस्य । वेदे ज्यमिति प्राकृते ‘जम्' इत्युच्चारणम् । तथैव वेदे न पदभक्तिः प्राकृतेऽपि तथैव । वेदे प्रतिपालिता स्वरभक्तिः प्राकृतेऽपि तथैव । संस्कृतस्य क्लिष्टत्वं संश्लेषणात्मकत्वञ्ब प्राकृतं नैव गृह्णातिं । लौकिकसंस्कृते अप्रथुक्तानामपि वैदिकशब्दांनों प्राकृते तत्समत्वेन वा तद्विकृतित्वेन प्रयोगश्चेदमेव तथ्यं सूचयति । ' तदित्थं वेदसम्मताऽपि. भाषा कालान्तरेण वर्णागमवर्णलोपवर्णविपर्यय। अर्थसङ्कोचविस्तारपार्थक्यादिभाषाविकारनियमैरवक्रान्ता प्रवर्धमानप्राकृतप्रयोग-समवकीर्णा च पुनर्वैयाकरणैः समयानुकूलं परिष्कृता सती लौकिकसंस्कृतसंज्ञां लेभे । तेनैव पाणिनिस्तां भाषाशब्देन लौकिकशब्देन च गृह्णाति । ‘भाषायां सद' ‘सर्वत्र विभाषा गोः' इत्यादिवाक्यैः ।लोकशब्दश्चोत्र, जनसामान्यवचनपरः । तत्र तत्र वैदिकशब्दानां कृते पृथगेव सूत्राण्यपि रचितानि यानि प्रक्रियाकौमुदीषु वैदिकप्रक्रिया नाम्ना पृथक् सङ्गृहीतानि ।

वैदिकशब्देषु प्राकृतशब्दसम्मिश्रणादेव लौकिकसंस्कृतं समुत्पन्नम् । एवमेब कौकिकसंस्कृतेऽपि प्राकृतप्रभावप्रवेशादेव शाखाः सञ्जाताः । तादृशप्रतिशाखप्रचलितरूपाणि सङ्गृह्य पाणिनिना तस्य परिनिष्ठितं रूपं निरूपितम्। तत्रापि यदनुक्त वा दुरुक्त' वा तद्वतककारेण साधितं 'यवनाल्लिप्याम् । इत्यादिभिर्वातकैः । तच्च महाभाष्यकारेण सर्वं सङ्गृह्य स्थिरीकृतमिति साम्प्रतिको संस्कृतभाषा मुनित्रयप्रसादाप्तेति रहस्यम् । इयमेव देवभाषा सर्वविधभाषा जननी ।तामेव पाश्चात्या विचक्षणी ‘भारोपोय' शब्देनाह्वयन्ति । संज्ञा तु या काऽपि स्याद्भारोपीयो भारतेरानीया, वाऽन्यांपि, मूलतत्वं तु , सैव देववाणी या तामनुकर्तुमशक्त: स्वानुकूल्येन पृथग्रूपेणोच्चार्यते। 'दुहितर्' इति सम्यगुच्चारितुमशक्त : ‘डटर्' इति कथनमात्रेण तस्य मूलरूपं तु नैव विपद्यते । हेमदत्तस्य ‘हेल्मट' इति लक्ष्मीदत्तस्य ‘स्मिथ इति, कामं कश्चिद् ब्रूपात् किन्तु तल्लेखने तु तेऽपि हेमदत्त एव लिखन्ति ।

संस्कृतभाषा केवलं साहित्यिकभाषेवाऽऽसीन्न तु व्यवहारभाषेति केचन निरर्गलं तर्कमप्युपस्थापयन्ति स्ववैचक्षण्यप्रदर्शनाय । किन्तु तथ्यं तद्विपरीतमेव । संस्कृतं हि प्राचीनकाले नितान्तमेव व्यावहारिकी भाषाऽप्यासीदिति बहुविधप्रमाणतो ज्ञायते । प्रथमन्तु तस्य शाखावत्वमेव प्रमाणम् । सामान्यतः परिवर्तशीलत्वमेव जीवितभाषाया भाषितभाषायाश्च लक्षणम् । यदि संस्कृतं हि भाषितभाषा न स्यात्तदा तत्र विकासोऽपि न स्यान्नचार्थविस्तार सोचावधि नैव च शाखाभेदः किन्तु संस्कृते एषां सर्वेषामेव समुपस्थितेः प्राक्काले संस्कृत भाषितभाषा आसीदिति स्पष्टमेव कामं तस्य प्रादेशिकता सीमिता आसीन। वाल्मीकिरामायणाज्ज्ञायते यत्तदा द्विजातयः (त्रयो वर्णाः) संस्कृतां नित दन्ति स्म । तत्समये द्विजातिप्रयुक्त तरजातिप्रयु क्तभाषयोरन्तरमासीत् । . तिप्रयुक्ता भाषा देवभाषेवाऽऽसीत् मनुष्यप्रयुक्ता तु तद्भिन्ना मानुषी सं अशोकवनप्राप्तो हनुमान् विचिन्तयति -

अहं ह्यतितनुश्चैव वानरश्च विशेषतः बाचञ्चोदाहरिष्यामि मानुषीमिह संस्कृताम् ।

यदि बाचं प्रदास्यामि द्विजातिरिव संस्कृताम् रावणं मन्यमाना मां सीता भीता भविष्यति।। इति।

यदि अहं द्विजातिरिव संस्कृतां वाचं ब्रवामित मां रावणं मत्वा भीता भविष्यति । तेनाहं मानुषीमेव किन्त वाचं वच्मीत्यस्याशयः । अनेनैतदपि सिध्यति यत्कामं मा थगेवाऽऽसीत्किन्तु तस्या अपि द्वे रूपे अ रस्तां संस्कृतम मानुषीभाषाभाषिणोऽपि द्विजातिभाषां संस्कृतं सम्यग्जानन्ति व रामायणे ‘बहु, व्याहरताऽनेन न किञ्चिदपशब्दितम्' भाषणे साधुशब्दानामपशब्दानाञ्च प्रयोगस्य प्रचलनं तथैव इत धुशब्दज्ञानं सिध्यति । 'विषयेऽस्मिन् बिश्वनाथाचार्यः कथयति "या भाषा सम्भाषणेषु प्रयुज्यते तत्र परिवर्तन स्वाभाविकमेव । वैदिकलौकिकसंस्कृतंयोः । परस्परसादृश्यं विलोक्य लौकिकसंस्कृतं वैदिकसंस्कृतस्यैव रूपान्तरमिति ।। प्रतिभाति । भाषापरिवर्तनेन सह तद्वयाकरणस्यापि परिवर्तनं सुनिश्चितम् । वैदिकलौकिकसंस्कृतव्याकरणयोस्तुलनया द्वयोरप्येतयोभषयोर्भेदज्ञानं भवत्येव इति ।[४] स च संस्कृतभाषा पतञ्जलिकालपर्यन्तमपि जनभाषाऽऽसीत् । तदनन्तरं सा शिष्टानामेव भाषात्वेनावशिष्टा। केचन वैदिकी भाषा कदाचित्सम्भाषणे नाऽऽसीत् । सा तु वेदवदनादिरपौरुषेया चेति मंन्यन्ते किन्तु तच्विन्त्यमेव यतो वेदे एंव ‘तां विश्वरूपा पशवो वदन्ति' “तस्माद् ब्राह्मणा उभय वाचं क्दन्ति, या च देवानां या च मनुष्याणामिति इत्यादि कथनात् तस्याः भाषितभाषात्वं सिध्यत्येव । कि यथेमां वाचं कल्याण आवदानि जनेभ्यः''; “सङ्गच्छध्वं संवदध्वं” इत्यादिकथनमभाषितभाषायामुपयुज्यते । कदापि नैव ।

यास्कादारभ्य सर्वै एव प्राञ्चो वैयाकरणाः संस्कृत भाषापदेन व्यपदिशन्ति । भाषितत्वमेव भाषाया भाषात्वम् । इराह्वयने अन्तिमः स्वरः। प्लुतो भवति इति भाषितभाषायी लक्षणं विहाय किमन्यत् ? कम्बोजेष्वेवेति । कि संस्थितभाषालक्षणम् ? यदि संस्कृतं न जनभाषा, भवेत्तदा पालिपालिता बौद्धाः किनिमित्तं संस्कृते ग्रन्थाः प्रणयेयुः ? स्वयमेवाश्वघोषः पालि विहाय संस्कृते काव्यं प्रणिनाय । शिलालेखानां नवतिप्रतिशतभागो राजशासनानां तदधिकप्रतिशतभागः संस्कृते एव लिखितो दृश्यते इति परं प्रमाणं संस्कृतस्य भाषितभाषात्वे । अभिनयार्थं प्रणीतेषु नाटकेषु प्रयुक्ता भाषा कथन्नाम भाषितेतरा भवेत् । पाणिनिः संस्कृतशब्दानां प्राच्यौदीच्यदाक्षिणात्यरूपाणि स्मरति । तथा तु तदैव सम्भवति यद्रा सा भाषितावस्थाका भवेत् । एकस्यैव शब्दस्य एकाधिकरूपाण्यपि भाषितत्वमधिकृत्यैवं भवति तव, ते, मम, मे, मो, मा, गवाक् शब्दस्य तु नवाधिकशतरूपाणि च भाषायाः भाषितत्वस्यैव लक्षणम्।। व्याकरणानां बाहुल्यं तत्रापि मतान्तरं यथा 'लोपः शाकल्यस्य’, ‘अवङ् स्फोटायनस्य,' ‘ऋतो भारद्वाजस्य, चेत्यादि अपि भाषाया भाषितत्वस्यैव परिचायकम् । सर्वानतिशय्य सम्प्रसारणं यण्विकल्पश्च भाषाया जीवितत्वस्य परिचायकः ।

यण्विकल्पो यथा त्र्यम्बकं यजामहे, त्रियम्बकं संयमिनं ददर्श' इति ।। सम्प्रसारणं तु इग्यणः सम्प्रसारणम् । तथैव ‘पारम्पर्यादपभ्रशो विगुणेष्वाभिधातृषु' इति 'दैवी वाग्व्यवकीर्णेयमशक्त रभिधातृभिः', इत्यपि च भाषाया भाषितत्वस्यैव सूचकम् । पृषोदरादिव्यवस्थाऽपि भाषाया भाषितत्वं जनयति । न कुतोऽपि सिद्ध प्रयोगमागते च शब्दे, पृषोदरादित्वात्साधुरित्युच्यते । भाषायाः संस्थितत्वे काऽऽवश्यकताऽस्या व्यवस्थायाः । ‘पृषोदरादीनि यथोपदिष्टम्[५] पृषोदरप्रकाराणि शिष्टैर्यथोच्चारितानि तथैव साधूनि स्युः इति । वर्णमांत्रभेदेन अर्थान्तरवाचकत्वमपि भाषितभाषाया एव लक्षणम् । संस्कृते तथाविधा बहवः शब्दा दृश्यन्ते यथा गर-गल-ग्रह-ग्लहशब्दाः । सर्वैव नामधातुप्रक्रिया जीवितभाषयामेव सम्भवति व्यवहारसौकर्याय अभाषितभाषायायनुनासिकनिरनुनासिकयोः को भेदः ? गुणे अर्परत्वञ्चोच्चारणसौकर्येणैव भवति । तदेतानि अन्यानि च प्रमाणानि संस्कृतभाषाया भाषितत्वं साधयन्ति । किर्यत्कालपर्यन्तमेषा भाषिताऽऽसीदित्यपरः प्रश्नः । सामान्यतो गौतमबुद्धसमये पालीभाषाया 'भाषितत्वं वौद्धग्रन्थतो ज्ञायते । तेन गौतमस्थितिकाले संस्कृतं हि शिष्टानामेव द्विजातीनां भाषितभाषाऽऽसीदिति स्वीकर्तव्यमेव । सम्भवति प्राचीनकालादेवं जनाः संस्कृतं तु जानन्ति स्म किन्तु व्यवहारे द्विजातयः संस्कृतां वाचमितरे तु मानुषीं वाचं पालीप्रभृति प्रयुञ्जन्ति स्मेति तथ्यविश्लेषणतो ज्ञायते । शनैः शनैः संस्कृतभाषा द्विजातिष्वेव सीमिता सञ्ज़ाता। द्विजातयोऽपि परस्परालापे संस्कृतस्य इतरैः सहाला मनुष्याः प्रयोगं कुवन्ति स्मेति 'तस्माद् ब्राह्मणा उभयीं याचं वदन्ति या च देवानां या च मनुष्याणाम्' इति निरुक्तवचनात्[६] ज्ञायते ।

पाणिनिकाले संस्कृतं नितान्तमेव शिष्टभाषात्वेनावशिष्टाऽऽसीत् । पतञ्जलिकाले भाषाया' मपभ्रंशस्य एतादृशं. बाहुल्यमासीद्यद् द्विजातयोऽपि तत्प्रमावादात्मानं नैव रक्षितुं समर्था आसन् इति ‘एकस्य शब्दस्य बहवोऽपभ्रशाः' इति पतञ्जलिवचनाज्ञायते । तेनैव स द्विजातिष्वपि ब्राह्मणेन नापभषितवै नापम्लेच्छितवै ‘इति. निदशति । पतञ्जल्यनन्तरं तु संस्कृतं केवलं पण्डितभाषैव समजायत । तस्य जनसामागान्यसम्पर्कः प्रायो विच्छिन्न एव । पुनश्च गुप्तकाले भोजसमये च संस्कृतस्य प्रचारस्तु सञ्जातः किन्तु तस्य जनसामान्यसम्पर्कस्तु, नैव पुनरुदितः । सम्प्रति तु पण्डितसमाजेऽपि विरला एवं जनाः संस्कृतमाश्रित्यं संल्लापं कुर्वन्ति ।

साम्प्रतिककाले संस्कृतस्य माहात्म्यं देशभाषासु गीयते संस्कृतस्य ग्रन्था देशभाषानाम्ना प्रकाशिता अपि दृश्यन्ते यथा ‘हिन्दी :: दशरूपकं' वा 'हिन्दो नाट्यशास्त्र'मित्यादि । प्रायः समस्ता एवं संस्कृतग्रन्थाः वेदाश्च देशभाषायामनूदिता अपि दृश्यन्ते । यत्र कुत्र तु देशभाषायाः संस्कृतस्य : पर्यायवाचककत्वमपि सम्मतं दृश्यते । काऽतःपरं विडम्बना संस्कृतस्य । अपरञ्च परीक्षासौकर्यदृष्ट्या पुस्तकानि खण्डीकृत्य . प्रकाश्यन्ते तान्यपि प्रश्नोत्तरसंहितया छिन्नाङ्गान्येव । आधुनिकपण्डितैर्यथामति व्याख्यायन्ते च । ग्रन्थाः तथाकरण क्वचित्तु व्याख्या मूलप्रतिगामिन्यपि दृश्यते । भवतु तावत् । । संस्कृतं हि आर्यजातेः प्राणभूता भाषा । अस्यामेव पूबैजना विचिन्तयन्ति विचारयन्ति स्म । आधुनिकास्तु देशभाषायां विचिन्तयन्ति तदेवानुद्य संस्कृतमाश्रित्यावतारयन्तीति । संस्कृतस्य मौलिकत्वं तु प्रणष्टमेव । संस्कृतस्य मूलवैशिण्टयसंरक्षणाथ पूर्वजनी हि दत्तजीवना असन् किन्तु सम्प्रति न कोऽपि तन्निमित्तं प्रयतत इति कस्य सहृदयस्य न दूयते चेतः । इदं प्रागेवोक्त यद्देवभाषा व्याकृतत्वात्संस्कृतामिधानं लेभे इति । इन्द्रो ह वै प्रथमो व्याकर्ता आसीदित्यपि उक्तमेव । आगामिप्रकरणे व्याकरणपरम्पराविषये किञ्चिद्वक्ष्यते ।

भाषाणां कुटुम्बाः[सम्पादयतु]

भाषा कुटुम्बे समपूर्वजाणम् भाषा सन्ति। ताषु समगुणाः अस्ति। आर्यभाषाः महिष्ठः भाषाकुटुम्बः अस्ति। तायाम् ४७७ भाषाः, विश्वे ४६% जनाः तयाः वाचक सन्ति।

लिपिः[सम्पादयतु]

वयम् भाषाः लिपिभिः लिखामः। सर्वाणाम् भाषानाम् स्वकीयलिपिः नस्ति, अतः तथा भाषः परभाषायाः लिप्याः उपयोगम् करोति वा सा आलिखितम् न भवति। हिंद्याः स्वकीयलिपिः नस्ति, अतः सा संस्कृतस्य देवनागरीलिपिम् उपयोगम् करोति।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. १० ६।४।७
  2. १॥१॥५४
  3. १७/२
  4. सं. सा. पृ. ३
  5. ६।३।१०९
  6. १३॥९
"https://sa.wikipedia.org/w/index.php?title=भाषा&oldid=443615" इत्यस्माद् पुनः प्राप्तिः