सामग्री पर जाएँ

सिद्धान्तकौमुदी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मानवजगति भाषाद्वारैव सर्वे व्यवहाराः प्रवर्तन्ते, सिद्ध्यन्ति च । विश्वेऽस्मिन् सर्वेजना भाषामन्तरेण स्वाऽऽशयान् अन्येषां सविधे निवेदयितुम्, न खलु कल्पन्ते । तस्मात् कारणात् लोके असङ्ख्याः भाषाः काले काले प्रादुरभूवन् । तादृशाः अनेकाः प्राचीनाः भाषाः मनुष्याणां व्यवहारपथात् अपसृताश्च । यतः तासां भाषाणां आत्मरूपं व्याकरणाम् न रक्षितम् । किन्तु विश्वे अतिप्राचीनाऽपि सुदृढा सुन्दरा विश्वजनीना च भाषा संस्कृतभाषैव, अधुनापि जीवन्ती जनप्रिया च भवति । न केवलमियं मनुष्यभाषा किन्तु देवभाषाऽपि कथ्यते । यतः परमात्मनः निश्वसितरूपाः वेदाः, "तत्वज्ञानान्निश्रेयसाधिगमः" इति घोषयन्ति शास्त्राणि च अस्यामेव भाषायां विलसन्ति । यत्तु प्रारब्धमनुभूयमानानां तापत्रयशृङ्खलायाः विमोचनं काङ्क्षमाणानां जीवलोकानां तत्वज्ञानं तु शब्दशक्तिमूलकम् । शब्दशक्तिग्रहस्तु निरुच्यते लोकोक्त्या यथा-

शक्तिग्रहो व्याकरणोपमानकोशाप्तवाक्यैर्व्यवहारतश्च" इति ।

एवं च व्याकरणमेव शब्दानां शक्तिग्रहणस्य मूलम् । देवभाषाया अस्याः आत्मा व्याकरणम् सुरक्षितं विजृम्भितं च । सा च भाषा सरला सुसंस्कृता साधुशब्दसम्पन्ना चेदेव सर्वैराद्रियते इति धिया वेदकालादपि मुनिभिः नाना शिक्षाग्रन्थाः प्रणीताः । एवं च शब्दानां दोषापनोदनपूर्वकं साधुत्वसाधुत्वसम्पादनं व्याकरणादेव साध्यम् । अतः भर्तृहरिः वाक्यपदीये वदति यथा-

साधुत्वज्ञानविषया सैषा व्याकरणस्मृतिः । इति ।

संस्कृते वेदकालमारभ्य आषोडशशतकं यावत् विभिन्नव्याकरणानाम् अनेके ग्रन्थाः ग्रथिताः । तानि व्याकरणानि च तत्कर्तृनामभिः प्रथिताः । यथा-

इन्द्रश्चन्द्रः काशकृत्स्ना्ऽऽपिशली शाकटायनः ।
पाणिन्यमरजैनेन्द्राः इत्यष्टौ शाब्दिकाः स्मृताः ॥

तेषु व्याकरण्समुदायेषु पाणिनीयव्याकरणस्यैव लौकिक-वैदिकोभयप्रक्रियासमन्वितत्वात् वेदाङ्गत्वं स्वीक्रियते नेतरेषाम् । भट्टोजीदीक्षितेन रचितः ग्रन्थः सिद्धान्तकौमुदी । अस्य ग्रन्थस्य पूर्णं नाम "वैयाकरणसिद्धान्तकौमुदी" इति ग्रन्थकर्त्रैव कथ्यते, यथा-

मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च ।
वैयाकरणसिद्धान्तकौमुदीयं विरच्यते ॥

पाणिनिः, कात्यायनः(वररुचिः), पतञ्जलिः इत्येते त्रयः मुनयः । एतान् त्रीन् मुनीन् नमस्कृत्य, तेषाम् उक्तीः क्रमेण सूत्र-वार्तिक-भाष्यरूपाः परिशील्य इयं कृतिः मया (भट्टोजीदीक्षितेन) विरच्यते=ग्रथ्यते इति श्लोकार्थः । नाम्नः औचित्यविचारे तु एवं धीयते । येषां व्याकरणशास्त्रे विशिष्टं ज्ञानं, विशेषः अभिनिवेशः, परिश्रमः च वर्तेते, ये च अस्मिन् शास्त्रे अथवा शास्त्रस्य विविधप्रक्रिया विविच्य ग्रन्थान् ग्रथितवन्तः ते वैयाकरणाः । तादृशवैयाकरणानां ये इदमिथ्थम् इति सिद्धान्ताः सन्ति ते एव कौमुदी(चन्द्रिका) इव इति वैय्याकरणसिद्धान्तकौमुदी । कौमुदी यथा तमसि विहारशीलानां मनसः आह्लादं जनयति, चरतां पथभ्रमं निराकरोति तथा इयमपि ग्रन्थरूपा कौमुदी व्याकरणप्रकृतिप्रत्ययोद्याने विजिहीर्षूणां मानसे आह्लादम् तनोति, अज्ञानरूपम् अन्धकारं निस्सारयति च इति मथितार्थः ।

कर्तुः देशकालविचारः

[सम्पादयतु]

अयं महामहोपाध्याय इति बिरुदाङ्कितः भट्टोजीदीक्षितः नामा महावैयाकरणः महाराष्ट्रे जनिम् अलभत । लक्ष्मीधरदीक्षितः अस्य पिता । क्रि.श. षोडशतमे शतमाने पूर्वार्धे विक्रमनाम्नः राज्ञः आश्रये आसीत् । अस्य वंशे सर्वेऽपि पारिवारिकाः विविधेषु विषयेषु पण्डिता एव आसन् । एवम् आपरम्पराम् एष विद्वद्वंशे समजनि ।

ग्रन्थनिर्माणे हेतुः

[सम्पादयतु]

सत्स्वपि अनेकेषु व्याकरणशिक्षाग्रन्थेषु पुनरस्य निर्माणे को हेतुः? । इत्युक्ते, पूर्वस्मिन् काले पाणिनिमुनेः आष्टाध्यायिसूत्रानुसारं पाठक्रमः आसीत् । ततः क्रमेण तत्र छात्रैः अनुभूयमानं कष्टं परिहापयितुं कात्यायनः सूत्राणां व्याख्यारूपेण वार्तिकानि विरचितवान् । ततः कालेन तत्रापि काठिन्यम् अनुभूयमानम् निवारयितुम्, पाणिनीया शिक्षापद्धतिरेव समीचीना सुदृढा सरला चेति प्रतिपादयता भगवता पतञ्जलिना सविस्तृतं महाभाष्यं विरचितम् । तत्रेदमभिहितम्-

"अनभ्युपाय एष शब्दानां प्रतिपत्तौ प्रतिपदपाठः । एवं हि श्रूयते, बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदोक्तानां शब्दानां शब्दपारायणं प्रोवाच । नान्तं जगाम । बृहस्पतिश्च प्रवक्ता इन्द्रश्चाध्येता दिव्यं वर्षसहस्रमध्ययनकालः न चान्तं जगाम । किं पुनरद्यत्वे ? । यः सर्वदा चिरं जीवति, वर्षशतं जीवति, चतुर्भिश्च प्रकारैः विद्योपयुक्ता भवति, आगमकालेन, स्वाध्यायकालेन, प्रवचनकालेन, व्यवहारकालेनेति । तत्र चाऽध्ययनकालेनैवायुः कृत्स्नं पर्युपयुक्तं स्यात् । तस्मादनभ्युपायः शब्दानां प्रतिपत्तौ प्रतिपदपाठः"। इति ।

अतश्च संस्कृतशब्दानां प्रत्येकतया अर्थं बोधं बोधं या संस्कृतपाठनपद्धतिः प्रचलिताऽऽसीत्, सा जले विलेखनमिव निरुपयुक्ता इत्यवधार्यैव काले काले नूतनाः पाठनपद्धतयः प्रादुरभूवन् । पूर्वं अष्टाध्यायिसूत्राणां वृत्तयः निर्मीयन्ते स्म अध्यापकैरथवा छात्रैरेव । किन्तु सिद्धान्तकौमुद्यां एषा समस्या निवारितास्ति । सूत्राध्ययनक्रमेण स्वयं वृत्तिनिर्माणक्लेशः एतेन अपवाहिता अभवत् ।

ग्रन्थस्य स्वरूपः

[सम्पादयतु]

अस्मिन् ग्रन्थे सरलतया पाणिनीयव्याकरणं अधिजिगमिषूणां कृते उपयुक्तरीत्या प्रकरणानुगुणं सूत्राणां विभागः कृतो दृश्यते । प्रकरणानि च १)संज्ञाप्रकरणम् २)परिभाषाप्रकरणम् इत्यादीनि प्रकरणानि भवन्ति । संज्ञाप्रकरणे अच्, हल्, इत्, ताल्वादीनां वर्णोद्गमस्थानानां बाह्याभ्यन्तरप्रयत्नानां पदादिसंज्ञानां सूत्राणि तद्वृत्तयश्च विद्यन्ते । प्रतिसूत्राणां प्रत्येका वृत्तयः निरूपिताः, यथा-

अदेङ् गुणः /१/१/२.इदं ह्रस्वस्य अकारस्य एकार-ऒकारयोश्च गुणसंज्ञाविधायकं सूत्रम् । अस्य सूत्रस्य वृत्तिः एवमस्ति, अदेङ् च गुणसंज्ञः स्यात् ।
"https://sa.wikipedia.org/w/index.php?title=सिद्धान्तकौमुदी&oldid=396004" इत्यस्माद् प्रतिप्राप्तम्