भट्टोजिदीक्षितः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

सुप्रसिद्धस्य ‘सिद्धान्तकौमुदी’ इत्यस्य ग्रन्थस्य रचयिता भट्टोजिदीक्षितः(Bhattojidikshita) । एषः महाराष्ट्रदेशीयः । एतस्य पिता लक्ष्मीधरः । शब्दकौस्तुभः, प्रौढमनोरमा इत्यादयः ग्रन्थाः अपि एतेन लिखिताः । एषः क्रि.श. १६ शतकस्य उत्तरार्धे आसीत् इति विद्वद्भिः निर्णीतम् अस्ति । एतस्य 'सिद्धान्तकौमुदी' व्याकरणलोके सुप्रसिद्धा । प्रक्रियाक्रमेण सर्वेषां पाणिनीयसूत्राणाम् अर्थः उदाहरणसहितं निरूपितः अस्ति एतस्मिन् ग्रन्थे । सिद्धान्तकौमुद्यां यत् उक्तं तत् प्रमाणरूपेण अङ्गीक्रियत्रे शास्त्रर्ज्ञैः । ‘तत्त्वबोधिनी’ (ज्ञानेन्द्रसरस्वतीविरचिता) ‘बालमनोरमा’ (वासुदेवदीक्षितविरचिता) इत्यादीनि सिद्धान्तकौमुद्याः व्याख्यानानि सुप्रसिद्धानि ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भट्टोजिदीक्षितः&oldid=409514" इत्यस्माद् पुनः प्राप्तिः