सामग्री पर जाएँ

विद्या

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भवतः विद्याभ्यासः समाप्तः वा ? अद्यतनविद्याभ्यासेन किं प्रयोजनम् ? मम पुत्रः विद्याभ्यासं करोति इत्यादि वाक्यानि समान्यतः सर्वत्र शृणुमः । अत्र उद्दिष्टार्थे विद्याभ्यासः इति प्रयोगः साधुः वा ? चिन्तनीयमस्ति । विद्याभ्यासशब्दस्य व्याख्यानमेवम्- विद्यायाः अभ्यासः इति तत्पुरुषसमासः । तत्पुरुषसमासे उत्तरपदस्य प्राधान्यत्वात् अभ्यासस्यैव प्राधान्यं भवति न तु विद्यायाः । एषः पदप्रयोगः वस्तुतः अद्यतनशिक्षणक्षेत्रे विद्यमानदुरवस्थामेव प्रकाशयति ।

भारतीयसङ्कल्पानुसारं विद्याविनयसम्पत्तिः विनयाधानम् इत्यादिप्रयोगः एव साधु । यतः विद्या ददाति विनयम् इति खलु प्रसिध्दम् । प्रामाणिकग्रन्थेषु विद्याभ्यासः इति पदप्रयोगः अपि न दृश्यते विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि इत्येवं भगवद्गीतायां प्रयोगः अनेन प्रयोगेण अस्य लक्ष्यमपि अवगच्छति । विनयनमेव विद्यया प्राप्तव्यम् । अपरया भाषया वदामः चेत् स्वभावसंस्करणमेव शिक्षणम् इति भावः । श्रीमद्विवेकानन्दस्वामिपादादयः स्वभावसंस्करणमेव शिक्षणमिति स्पष्टीकुर्वन्ति च । अत एव कथयामः विद्याविहीनः पशुः इति ॥

विनयम्-उपायः प्रयोजनं च

[सम्पादयतु]

विनयनार्थं कः उपायः ? इत्यत्र उपनिषत्सु वदन्ति सद्विद्या सत्कर्म च इति । विद्या नाम वेदितुं (ज्ञातुं) योग्या एव । स विद्या सती एव स्यात् । इत्युक्ते कः विषयः पाठनीयः ? इति अतिप्रधानं भवतीत्यर्थः । सत्कर्म उत्तमकर्म एव अथवा योग्यं कर्म एव । इत्युक्ते कथं पाठनीयम् ? इत्यपि तद्वत् प्राधान्यं वहतीत्यर्थः ॥ विनयनस्य परमम् प्रयोजनं सुखप्राप्तिः एव । सुखस्य पुरुषार्थः इति अपरं नाम । धर्मार्थकाममोक्षादिचतुष्टयम् एव पुरुषार्थाः । विनयनेन व्यक्तेः राष्ट्रस्य च सर्वे पुरुषार्थाः अपि साधिताः भवेयुः । व्यक्तेः विशालभावः कुटुम्बं, तस्य समुहः, तस्य तु राष्ट्रम् इति क्रमशः भवति । समूहाः मृत्पाषाणसस्यजन्त्वादियुक्तेन प्रदेशेन स्वसंस्कारेण च यदा बध्दाः भवन्ति तदा एव राष्ट्रमिति व्यवहारः । राष्ट्रं स्वयम्भूः अस्ति । राष्ट्रस्य विशालभावः विश्वं भवति । अतः व्यक्तिः राष्ट्रं च कदापि पृथक् न भवेत् ॥

विनयाधानस्य मार्गः

[सम्पादयतु]

विनयः गुणसंस्कारः चेत् तदर्थ सर्वसमर्पणम् एव मार्गः । गुरुसमर्पणं, गुरुशुश्रूषा, योगाभ्यासः, अध्यात्मशास्त्रपठनम्, ब्रह्मचर्यम्, श्रवण-मनन निदिध्यासनादयः च इच्छाशक्तेः ज्ञानशक्तेः क्रियाशक्तेः च वर्ध्दनम् कारयन्ति । तत् पुरुषार्थसाधनाय समर्थः मार्गः भवति च ।

अस्माकं शिक्षणसङ्कल्पः

[सम्पादयतु]

भारतीयशिक्षणसङ्कल्पः कः इति आदिगुरोः दक्षिणामूर्तेः चित्रणमेव स्फुटीकरोति । दक्षिणामूर्तिस्तवे जगद् गुरुणां श्रीमत्शङ्कराचार्यभगवत्पादानां कथनं पश्यामः । यथा – चित्रं वटतरोर्मूले वृध्दाः शिष्याः गुरुर्युवा गुरोस्तु मौनं व्याख्यानं शिष्यास्तु छिन्नसंशयाः ॥ इति वटतरोः मूलभागे कश्चित् युवकः गुरुः । तस्य पुरतः केचनवृध्दाः शिष्याः । अत्र गुरोः मौनं व्याख्यानं तथापि शिष्याः सर्वे संशयरहिताः च भवन्ति इति सारः । इतः ज्ञायते यत् अस्माकं सङ्कल्पे भित्तिचतुष्टयस्य मध्यभागः शुष्ककाष्ठपीठानि वा न सन्ति । अत्यन्तसुन्दरनित्यहरितःविशालशाखायुक्तः वटवृक्षः तन्नाम साक्षात् प्रकृतिः । तस्य वृक्षस्य मूले उपवेशनं, न तु शाखायाम् । इत्युक्ते वैशाल्येन सह अगाधतापि भवेत् विद्यायाः इति, उपरिप्लवता न स्यादिति । यद्यपि शिष्याः वृध्दाः तथापि गुरुः सदा युवकः ऊर्जस्वलः च । गुऋशिष्याणां मध्ये किमपि माध्यमं नास्ति । अतः ज्ञानप्रवाहे न कोऽपि रोधः । व्याख्यानं मौनम् इत्युक्ते हृदयतः साक्षात् हृदयं प्रविशति विद्या इत्यतः संशयलेशस्यापि अवकाशः नास्ति च ॥ भारतीयसिध्दान्तानुसारं जीवो ब्रह्मैव नापरः इत्यस्ति । प्रज्ञानं ब्रह्म इति उपनिषत् महावाक्यञ्च । इत्युक्ते एकैकोऽपि मानवः ज्ञानस्वरुपः एव । बहिस्थात् ज्ञानस्वीकारः इति एकं कार्यं तस्य नास्ति । अज्ञानमलावरणेनैव ज्ञानप्रकाशः बहिः न स्पुरति । अस्य बहिः प्रकाशनमेव विद्याधानम् । अतः अत्रत्यशिक्षणं पूर्णम् आत्मकेन्द्रितम् अथवा छात्रकेन्द्रितमस्ति । अत्र गुरोः स्थानं किमिति श्रीशङ्कराचार्याः स्पष्टीकृतवन्तः सन्ति । भस्मावृता अग्निशलाका एव मानवः । तस्य अज्ञानरुपभस्मनः कूत्कारेणा निर्माजनमेव गुरोः कर्तव्यम् । कोऽपि कमपि किमपि न पाठयति । सर्वे स्वयं पठन्ति अथवा प्रकाशयन्ति तावदेव इति ॥

शिक्षणरीतिः

[सम्पादयतु]

जीवने ब्रह्मचर्यमिति एकः कालः अस्ति विद्याधानाय । गुरुकुलमेव विद्याविनयस्म्पत्तेः केन्द्रम् । ब्राह्ममुहूर्ते उत्थाय सन्ध्यावन्दनादिकं कृत्वा गुरुमुखतः तत्त्वानि श्रुत्वा मननरुपस्वाध्यायम् अनुष्ठीय निदिध्यासनेन साक्षात्करोति विद्याम् । ततः गुरुकुलतः समीपग्रामं गत्वा भिक्षाटनं कृत्वा तत्सर्वं गुरवे समर्पणीयम् । गुरुः तत्सर्वम अन्तेवासिभ्यः वितरति च । सायं कृषिकार्यं समिदाहरणम् इत्यादि कर्म, पुनः सन्ध्यावन्दनादिकं च भवति । एवं कदापि स्वयं समाजतः भिन्नः नास्मि, समाजेन पोषिताः वयम्, समाजस्य पोषणम् अस्माकं कर्तव्यम् इत्यादि बोधोत्पादनं स्वयमत्र भवति । अद्य विद्यासम्पन्नाः इति कथ्यमानाः समाजतः दूरं गताः इत्येतदेव अस्माकं दौर्भाग्यम् ॥ एतन्निमित्तम अधीतिबोधाचरणप्रचारणात्मकाः उपायाः निश्चिताः सन्ति । एवमेव आचार्यात् पादमादत्ते, पादं शिष्यः स्वमेधया । पादं सब्रह्मचारिभ्यः पादं कालक्रमेण च ॥ इति शिक्षक- शिक्षार्थि –साहचर्य –विषयादियोग्यतया एव विद्या पूर्णा भवति इति निर्णयश्च ॥ एतत्सङ्गृह्य वदामश्चेत् उपस्थापन –अभ्यास –प्रयोगादिपध्दतिद्वारा श्रवण- मनन-निदिध्यासनादिमार्गमवलम्ब्य ज्ञानात्मक-अवबोधात्मक प्रयोगात्मक –कौशलात्मकतलं प्राप्तुम् अधीति –बोध- आचरण प्रचारणादिसोपानान्यारुह्य शिक्षक-शिक्षार्थि –साहचर्य-विषयरुपाधारैः आचार्य –स्वमेधा-सब्रह्मचारि –कालक्रमादिपरस्परभावेन –

अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दश ॥

इत्यादि चतुर्दशविद्यानां चतुष्षष्टिकलानाञ्च परिस्फूर्त्या सच्चिदानन्दः इति शम् ॥

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

विद्याः धनः सर्वधनम् प्रधानम् अस्ति| उपनिषदनुसारेण द्वॆ विद्यॆ परा अपरा च।

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=विद्या&oldid=409691" इत्यस्माद् प्रतिप्राप्तम्