परोपकारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

परस्य हितसाधनं सज्जनाः कर्तव्यम् इति भावयन्ति । यत् कर्म मनुष्याणां हिताय कल्पते, तादृशं मानवोचितं कर्म यदि वयम् आचरेम तर्हि इतरे जनाः तदुपकारं लब्ध्वा प्रीताः सन्तः सुखेन जीवन्ति । तेन च अस्माकं मनसि सन्तोषः जायते । एतेन एव समाजस्य प्रभूतः उपकारः संसाधितः भविष्यति । समाजस्य उपकारेण एव राष्ट्रस्य समृद्धिः भवति । अतः व्यासमुनेः वचनमिदं सर्वदा स्मरणीयं स्यात् - 'परोपकारः पुण्याय पापाय परपीडनम्' इति । एतस्मिन् प्रसङ्गे सर्वदा प्रकृतिः एव अस्माकं दृष्टान्तस्वरूपा भवति । सूर्यः लोकस्य उपकाराय आलोकं(प्रकाशं) ददाति । चन्द्रानिलनलाः परोपकाराय एव सन्ति । पञ्चमहाभूतानां सृष्टिः विश्वस्य हितसाधनाय एव जाता ।

तथैव मेघाः नद्यः वृक्षाः गावः परोपकारार्थम् एव जीवन्ति । अस्मिन् विषये सुभाषितमेकम् अत्यन्तं प्रसिद्धम् अस्ति ।

परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः ।
परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम् ॥

शरणापन्नं कपोतं स्वशारीरस्य विनिमयेन रक्षयितुं सिद्धस्य परोपकारिणः शिबेः कथा सर्वविदिता एव । 'प्राणैरपि धनैरपि शरणापन्नस्य जीवनरक्षा मनुष्यस्य परमोधर्मः' इति तस्य चिन्तनम् आसीत् ।

श्येनस्य क्षुधानिवारणाय कपोतरक्षणाय च स्वशरीरं समर्पयितुं सिद्धः शिबिः वदति-

धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् ।
सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥ इति।

अतः वयं सर्वे मानवाः परोपकारार्थं कृतसङ्कल्पाः भवामः । बहुजनहिताय त्यागार्थं सन्नद्धाः स्याम ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=परोपकारः&oldid=409393" इत्यस्माद् पुनः प्राप्तिः