पञ्चभूतानि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


पञ्चभूतानि ब्रह्माण्डनिर्माणे कारणीभूतानि इति हिन्दू, बौद्धधर्मयोश्च अभिप्रायः सिद्धान्तश्च। एतदर्थमेव प्रपञ्च इति व्यवहारः लोके अस्ति। भारतीयनाम् आध्यात्मिकपरम्परायाम् उल्लिखितरीत्या आयुर्वेदः, वास्तुकला, उन्नतप्रज्ञा च मूलभूतानि पञ्चभूतानि भवन्ति । पुरातनकालादारभ्य पवित्रग्रन्थेषु पञ्चभूतानां विशये उल्लेखाः सन्ति ।

पञ्चभूतानि[सम्पादयतु]

एतानि पञ्चभूतानि विश्वे मूलवस्तूनि भवन्ति। विश्वे तथा देहेच समप्रमाणे पञ्चभूतानि भवन्ति। पञ्चभूतानां विश्वे देहे च यदा समप्रमाणेन व्यत्यासो जायते तदा प्राकृतिकदोषाः सम्भवन्ति । एवं देहे रोगादीनाम् अभिव्यक्तिश्च भवंति ।

भारतीयानां सम्प्रदाये पञ्चभूतानाम् अपि एकैकदेवता विशेषः निर्दिष्टः अस्ति।

पृथिवी[सम्पादयतु]

पृथिवी पञ्चभूतेषु अन्यतमा भवति। वर्णयुक्ता, गन्धयुक्ताच भवति। चक्रः- मूलाधारः, देवः- गणेशः, बीजम् -लाम् कार्यम् – वर्जनम् इन्द्रियम्- घ्राणम्

जलम्[सम्पादयतु]

जलं पञ्चभूतेषु अन्यतमं भवति। श्वेतवर्णयुक्तं भवति। चक्रः - स्वाधिष्ठानम् देवः- विष्णुः, बीजम् - वाम् कार्यम् – सन्तानोत्पत्ति इन्द्रियम्- जिह्वा

अग्निः[सम्पादयतु]

अग्निः पञ्चभूतेषु अन्यतमः भवति। रक्तवर्णयुक्तः भवति। चक्रः - मणिपूरः देवः- सूर्यः, बीजम् - राम् कार्यम् – चलनम् इन्द्रियम्- त्वक्

वायुः[सम्पादयतु]

वायुः पञ्चभूतेषु अन्यतमः भवति। चक्रः -अनाहत देवः- शिवः, बीजम् - याम् कार्यम् – निर्वहणम् इन्द्रियम्- त्वक्

आकाशः[सम्पादयतु]

आकाशः पञ्चभूतेषु अन्यतमः भवति। चक्रः -विशुद्धः देवता- देवी, बीजम् - हाम् कार्यम् – सम्पर्कः(कण्ठः) इन्द्रियम्- श्रवणेन्द्रियम्

दार्शनिकानाम् अभिप्रायः[सम्पादयतु]

पृथिव्यप्तेजो वाय्वाकाशात्मकानि पञ्चमहाभूतानि । तत्र पञ्चगुणा पृथिवी । चतुर्गुणा आपः । त्रिगुणं तेजः । द्विगुणो वायुः । एकगुणम् आकाशम् । शब्दस्पर्शरूपरसगन्धवती पृथिवी । शब्दस्पर्शरूपरसवत्य आपः । शब्दस्पर्शरूपवत्तेजः । शब्दस्पर्शवान् वायुः । शब्दवदाकशम् । तत्र पृथिवी धारणे - आपः क्लेदने - तेजः - पाचने - वायुर्व्यूहने - आकाशमवकाशदाने भवन्ति । तत्र खमित्याकाशः - आकाशाच्छब्दः - सौषिर्यम् । अनिलात्स्पर्शः - प्राणादयश्च । दृष्टिः - पाकः - प्रकाशः - ऊष्मा - पित्तं च तेजसः । स्नेहः - क्लेदः - शैत्यम् - रसः - रसनं चोदकात् । घ्राणवान् गन्धः - सङ्घातश्च भूमेः । एतेषां पञ्चमहाभूतानां लक्षणं सङ्ग्रहेणैवमुक्तम् । एतेषां मूलकारणं चिच्छक्तिरेव इति आर्याणां सिद्धान्तः । यथा चोक्तं - पृथ्व्यादितत्त्वेषु भवान् प्रतिष्ठितो ध्वनिस्स्वरूपो गगने विशेषतः । वायौ द्विधा तेजसि च त्रिधा जले चतुः क्षितौ पञ्चगुणः प्रधानः ।

खरद्रवचलोष्णत्वं भूजलानिलतेजसाम् ।
आकाशस्याप्रतीघातो दृष्टं लिङ्गं यथाक्रमम् ॥
लक्षणं सर्वमेतद्धि स्पर्शनेन्द्रियगोचरम् ।
तन्मात्रापञ्चकं यत्तु तन्नूनं भूतपञ्चकं ॥

अधिष्ठानभूतं सूक्ष्मशरीरम् । अस्मदादीनां स्थूलशरीरं पार्थिवमेव । अन्यानि भूतान्युपष्टम्भकानि ।

  1. पृथिवी
  2. आपः
  3. तेजः
  4. वायुः
  5. आकाशम्

पञ्चभूतक्षेत्राणि[सम्पादयतु]

भारते पञ्चभूतानां द्योतकानि पञ्च क्षेत्राणि सन्ति। एतेषां "पञ्चभूतक्षेत्राणि” इति व्यवहारः अस्ति। प्रत्येकस्य पृथिव्यादीनां भूतानाम् एकैकं क्षेत्रं निर्दिष्टम् अस्ति।

मन्दिराणि क्षेत्राणि पञ्चभूतानि
एकाम्बरमन्दिरम् काञ्चीपुरम्, तमिळुनाडु पृथिवी
तिरुवनैकमन्दिरम् तिरुचिरापळ्ळि, तमिळुनाडु जलम्
अरुणाचलेश्वरःतिरुकोय्लिमन्दिरम् तिरुवण्णमलै, तमिळुनाडु अग्निः
नटराजदेवस्थानम् चिदम्बरम्, तमिळुनाडु आकाशः
काळहस्तीश्वरः काळहस्ती, आंध्रप्रदेशः वायुः
"https://sa.wikipedia.org/w/index.php?title=पञ्चभूतानि&oldid=369202" इत्यस्माद् पुनः प्राप्तिः