स्तोत्ररत्नम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


श्रीमते रामानुजाय नमः । श्रीमते निगमान्तमहादेशिकाय नमः ।

स्तोत्ररत्नम्[सम्पादयतु]

विगाहे यामुनं तीर्थं साधुबृन्दावने स्थितम् ।
निरस्तजिह्मगस्पर्शे यत्र कृष्णः कृतादरः ॥

आळवन्दार् इति प्रख्यातैः श्रीमद्यामुनमुनिभिः अनुसंहितं पञ्चषष्टिश्लोकात्मकं स्तोत्ररत्नं नाम श्रीमन्नारायणं स्तुवत् स्तोत्रकाव्यं वर्तते । श्रीवैष्णवसिद्धान्तप्रवर्तकमुनित्रये मध्यमणिभूताः यामुनाचार्याः । श्रीमन्नाथमुनिः, श्रीमद्यामुनमुनिः, श्रीमद्रामानुजमुनिः च मुनित्रयसिद्धान्तस्थापनाचार्याः इति प्रख्याताः । बाल्ये एवात्यन्तं प्रतिभशालिनः यामुनाचार्याः आक्कियाळ्वान्नामकं विद्वांसं वादे निर्जित्य राजपदवीं प्राप्तवन्तः इति कथा श्रूयते ।

श्रीवैष्णवमतानुयायिभिः अष्टाक्षरद्वयचरमश्लोकमन्त्राः रहस्यत्रयमिति व्यवह्रियन्ते । त्रयाणामेतेषां मन्त्राणाम् अक्षरसंख्या पञ्चषष्टिः, या च अस्य स्तोत्रस्य श्लोकानां सङ्ख्या वर्तते ।

स्तोत्रग्रन्थः अयम् उत्तरस्मिन् काले सकलश्रीवैष्णवाचार्याणां स्तोत्रकरणे आदर्शभूतः बहुभिः व्यख्यातश्च । अस्य रचनानन्तरं यानि स्तोत्राणि अन्यैः आचार्यैः रचितानि विद्यन्ते तेषु सर्वेषु स्तोत्ररत्नच्छाया समस्ति । श्रीभाष्यकारैः भगवद्रामानुजाचार्यैः स्तोत्ररत्नस्य बहवः श्लोकाः पादाश्च अक्षरशः गद्येऽनूदिताः दृश्यन्ते । अस्य बह्व्यः व्याख्याः सन्ति । पेरियवाच्चान्पिळ्ळै इति ख्यातैः श्रीकृष्णपादैः द्रामिड्याम् अस्य व्याख्या कृतास्ति । श्रीमद्वेङ्कटनाथाभिधानां वेदान्ताचार्याणां कृतिषु रहस्यरक्षायां द्वितीयोऽधिकारः स्तोत्ररत्नभाष्यमस्ति । तत्रैव प्रथमोऽधिकारः यामुनाचार्यैः एव विरचितस्य श्रीविषयकस्तोत्रस्य चतुश्श्लोक्याः व्याख्यास्ति ।

नलन्तिगழ் नारायणजीयर् इति प्रसिद्धैः नारायणमुनिभिपि काचिद् व्याख्या कृतेति आचार्यैः वेदान्तदेशिकैः रहस्यरक्षायां कृतात् अस्या व्याख्यायाः ग्रन्थलेशोदाहरणात् ज्ञायते । श्रीसुदर्शनसूरिभिः श्रुतप्रकाशिकाचार्यैः स्तोत्ररत्नव्याख्या काचित् कृतेति श्रीभाष्यप्रकाशिकाभूमिकायां प्रतिपादितम् । किन्तु इयं नोपलभ्यते । अर्वाञ्चोपि केचिदमुं ग्रन्थं व्याचख्युः । वडपल्ली पद्मनाभाचार्यैः काचन लघ्वी स्तोत्ररत्नव्याख्या Government manuscript Library, Madras R. 2155 इत्यत्र उपलभ्यते । अन्योऽपि कश्चन स्तोत्ररत्नभाष्यसंग्रहः इति ग्रन्थः अस्ति D 10462 संख्यायां यत्र मूलस्य अतिसंक्षेपणार्थः उच्यते । अयञ्च रामानुजसुधीः इति नामभिः आरचित इति ज्ञायते । तिरुवहीन्द्रपुरम्. पण्डितभूषणम्---- भगवद्विषयम्. महामहोपाध्याय चेट्टलूर्. नरसिंहाचार्यैः द्राविडविवरणं स्तोत्रभाष्यस्य कृतं प्रकाशितं च बहोः कालात् पूर्वम् । प्रतिवादिभयङ्करम्. अण्णङ्गराचार्यैः द्राविडतात्पर्यचर्चादिविशिष्टं व्याख्यानं कृतमस्ति । अभिनवदेशिक. उत्तमूर्. ति. वीरराघवाचार्यैरपि द्राविडतात्पर्यसहितं स्तोत्रमेतत् प्रकाशितम् ।

भगवद्रामानुजाचार्याणां चरिते श्रूयते यत् – ते यदा यादवप्रकाशानां सकाशात् सामान्यशास्त्राणि अधीयानाः आसन् तदा यामुनाचार्याणाम् शिष्यैः पठ्यमानान् विष्णुपारम्यवाचकान् कः श्रीः श्रियः परमसत्त्वसमाश्रयः कः …….. इत्यादीन् स्तोत्ररत्नश्लोकान् श्रुत्वा अत्यन्तं प्रभाविताः भूत्वा यामुनाचर्यानां दर्शनकाङ्क्षिणः जाता इति । किन्तु ते जीवितदशायां यामुनाचार्यान् द्रष्टुं नापारयन्नित्येतत् श्रीवैष्ण्वमतानुयायिनां दौर्भाग्यं मन्यते ।

"https://sa.wikipedia.org/w/index.php?title=स्तोत्ररत्नम्&oldid=373926" इत्यस्माद् पुनः प्राप्तिः