चण्डीशतकम्
हर्ष वर्धनस्य राजाग्ग्रुहं | |
---|---|
बाणभट्टस्य स्थलः |
बाणभट्टः | |
---|---|
हर्षवर्धनस्य राज्यः |
चण्डीशतकम् | |
---|---|
बाणभट्ट्ः विरचित महाकाव्यम् |
बाणभट्टः | |
---|---|
बाणभट्टः दुर्गायाः भक्ताः |
संस्कृतवाङ्मये नैकैः कविभिः विविधान् विषयानधिकृत्य विरचितानि शतककाव्यानि बहूनि सन्ति । तादृशेषु शतकेषु, तत्रापि भक्तिरसप्रधानेषु बहुमुख्यम् चण्डीशतकम् । इदम् महाकविना बाणभट्टेन विरचितम् । गद्यकाव्यरचनासु कृतकृत्यः बाणः सच्छन्दोबन्धेष्वपि स्वनैपुणीम् अत्र काव्ये प्रादर्शयत् ।
हर्षवर्धनस्य आस्थानकविः आसीत् बाणः । अस्मिन् चण्डीशतके स्रग्धराछन्दसि निबद्धानि १०२ पद्यानि सन्ति । महिषासुरमर्दिन्याः चण्डेः स्तुतिः इदम् । दुर्गायाः अनुग्रहाय भक्ताः एतानि स्तोत्राणि गायन्ति । शब्दालङ्कारैः युक्तानि वर्णनानि रम्याणि सन्ति । साक्षात् संवादाः न सन्ति चेदपि पात्राणां मुखतः वाचितानि इत्यतः काव्यमिदं सुशोभते । देवतानां निराकरणं, महिषस्य निन्दनं, शिवस्य सम्बोधनवचनानि चण्डेः मुखतः वाचितानि सन्ति । एतानि सौन्दर्यवर्धकानि सन्ति । महिषः, जया, शिवः, कार्तिकेयः, देवताः, ऋषयः, चण्डेः पादः, पादनखाः च अत्र सम्भाषणं कुर्वन्ति । रूपकस्य छाया दृश्यते । यमकानुप्रासैः मधुरनादस्य अनुरणनम् अनुभूयते ।
भोजस्य सरस्वतीकण्ठाभरणे चण्डीशतकस्य इदं पद्यम् उद्धृतमस्ति । अत्र बाणस्य शैलेः नादमाधुर्यं वर्ननावैखरी च द्रष्टुं शक्या -
- विद्राणे रुद्रवृन्दे सवितरि तरले वज्रिणि ध्वस्तवज्रे
- जाताशङ्के शशाङ्के विरमति मरुति त्यक्तवैरे कुबेरे ।
- वैकुण्ठे कुण्ठितास्त्रे महिषमतिरुषं पौरुषोपघ्ननिघ्नं
- निर्विघ्नं निघ्नती वः शमयतु दुरितं भूरिभावा भवानी ॥
चण्डीशतकस्य धनेश्वरस्य व्याख्यानम् अज्ञातयोः द्वे व्याख्याने च उपलभ्यन्ते ।
इदमपि दृश्यताम्
[सम्पादयतु]