स्तोत्रकाव्यम्
स्तोत्रम् इत्येषः शब्दः स्तुतिः, प्रशंसा श्लाघनम् इत्यर्थे प्रयुज्यते।
- ष्टुञ् (स्तुतौ) ष्ट्र्न् (३-२-१८२) स्तूयते अनेन इति स्तोत्रम्।
- अस्ति नः स्तुतिवचोऽनृतं तव स्तोत्रयोग्य न च तेन तृप्यसि - माघ १४-३
स्तोत्रसाहित्यस्य इतिहासः
[सम्पादयतु]मानवः सर्वशक्तस्य परमात्मनः अनुग्रहप्राप्त्यै तं स्तुवन्ति । देवेन सह भक्तस्य व्यवहारमाध्यमम् एव स्तोत्रम् । भगवतः माहात्म्यं श्लाघमानः स्वस्य हृदयस्य असीमां भक्तिम् स्तोत्रद्वारा निवेदयति । मातुः प्रेम्णः प्राप्त्यै शिशुः कदाचित् हसति, रोदिति, नृत्यति, निन्दति, ताडयति च । भक्तः अपि देवेन सह एवमेव व्यवहरति । भावाभिव्यञ्जनाद् एव स्तोत्राणि मनोमोहकानि भवन्ति । सङ्गीतयोजनेन तु तद्भवति चेतोहारि । नृत्यमपि संयोज्यते चेत् तद्भवेत् सर्वजनतोषकम् । चञ्चलमनसः एकाग्रतासम्पादनाय स्तोत्रकाव्यं भवति सर्वसमर्थम् । इदं भारतीयजीवनपद्धतेः अबिभाज्यम् अङ्गम् ।
स्तोत्रसाहित्यस्य आरम्भः तु संहिताकाले एव । ऋक्संहिता स्तोत्ररूपा । प्रभुसम्मिता, मित्रसम्मिता, कान्तासम्मिता - एतेषु त्रिषु अपि प्रकारेषु स्तोत्रसाहित्यम् उपलभ्यते । संस्कृतकाव्यानाम् आदौ अन्ते च स्तोत्राणि दृश्यन्ते । कालिदास-भारवि-माघ-भवभूति-भासादीनां कृतिषु विद्यमानानि स्तोत्राणि सन्ति हृद्यानि । शुद्धभक्तेः उद्गाराः सर्वे काव्ये न अन्तर्भवन्ति । अष्टोत्तरशत-अष्टोत्तरसहस्रनामानि भक्तिव्यञ्जकानि । बाण-मयूर-शङ्कराचार्यादिभिः रचितानि स्तोत्राणि काव्यधर्मयुक्तानि एव ।
स्तोत्रेषु धर्म-मत-भक्ति-साहित्यानि युक्तानि सन्ति । इदं धर्मसाहित्यम्, इदं मतसाहित्यम् इति वर्गीकरणम् अशक्यम् । ब्राह्मण-जैन-बौद्ध-शैव-प्रभृतिभिः निर्मितानि स्तोत्राणि द्वैताद्वैतमतानुगुणं रचितानि स्तोत्राणि च उपलभ्यन्ते । लीलाशुकस्य कृष्णकर्णामृतम्, जयदेवस्य गीतगोविन्दं च प्रेमभरितानि स्तोत्राणि । शतकरूपाणि स्तोत्राणि अपि उपलभ्यन्ते ।
वैदिकस्तोत्राणि
[सम्पादयतु]अत्र इन्द्र:, वरुण:, सविता, अग्नि: इति देवता:।क्वचिद् ऐहिकेच्छा दृश्यते यथा- पुत्रा: पशवो धनम्...।क्वचिद् नीतिपूर्णा प्रार्थना दृश्यते यथा- हे अग्ने सुपथा न: वैभवं नय।ऋ. 1.189.1।बहुषु स्तोत्रेषु स्तोत्रं नाम ब्रह्म।
पौराणिकस्तोत्राणि
[सम्पादयतु]विष्णु: शिव: देवी इति देवता:। मोक्षेच्छा प्रबला। ऐहिकेच्छा तिरस्कृता ।
- प्रमुखाः स्तोत्रकाराः
१ मयूरभट्टः।
एष: काशीवासी, हर्षराजाश्रित:। स्वकुष्ठनिवारणाय सूर्यशतकं रचितम्। स्रग्धरावृत्ते इदं प्रथमम् एव काव्यम्।दीर्घसमासयुक्तम् अनुप्रासप्रचुरं सविस्तरं सूर्यवर्णनम् अत्र विद्यते।
२ बाणभट्टः
चण्डीशतकम्। अनुप्रासयुक्ता रचना।
३आदिशङ्कराचार्यः।
स्तोत्रकाराणाम् अयं मुकुटमणि:। प्रायश: 200 स्तोत्राणि अनेन रचितानि।दार्शनिकजगति अद्वैतमतस्थापना कृता तथा व्यावहारिकजगति सगुणोपासनापराणि स्तोत्राणि विरचितानि। अस्य स्तोत्रेषु कारुण्यं, भक्ति:, वैराग्यम् उत्कण्ठा, उपताप: मार्दवं, नादमाधुर्यं, प्रसाद: इति एते भावा: पदे पदे दृश्यन्ते। सुभाषितानि अपि बहुत्र दृश्यन्ते यथा- कुपुत्रो जायेत क्वचिदपि कुमाता न भवति। क्षुधातृषार्ता जननीं स्मरन्ति।सौन्दर्यलहरीनामकं स्तोत्रं तु साहित्य-मन्त्रशास्त्र-तत्वज्ञानानां सङ्गमरूपम्।शाङ्करस्तोत्राणां सामान्यत: वर्गीकरणम् एवम्
01 | भक्तिपराणि | शिवविष्णुकृष्णपराणि |
02 | वैराग्यपराणि | वैराग्यपञ्चकम् कौपीनपञ्चकम् धन्याष्टकम्। |
03 | उपदेशपराणि | चर्पटपञ्जरी, द्वादशपञ्जरी, गुर्वष्टकम्, अनात्मश्रीविगर्हणम्। |
04 | स्तुतिपराणि | |
05 | वेदान्तपराणि | |
06 | संमिश्राणि |
3 उत्पलदेव:। काश्मीरीय: शैवाचार्य:।शिवस्तोत्ररत्नावली रचिता यस्यां 21 स्तोत्राणि सन्ति।
4 जगद्धरभट्ट:। शैवाचार्य:। स्तुतिकुसुमाजली रचिता यस्यां 31 स्तोत्राणि सन्ति। 1425श्लोका: सन्ति।
5 पुष्पदन्त: । शिवमहिम्न: स्तोत्रं रचितम्। लोकप्रियम् इदं स्तोत्रम्।कव्यं तथा तत्वज्ञानम् इति एतयो: मेल: अत्र विद्यते।
6 बुधकौशिक:। अयं ऋषि:। रामरक्षास्तोत्रम् अनेन विरचितम्।तत्र स्तुति: ध्यानं तथा कवचम् अस्ति।
7 कुलशेखर:।- मुकुन्दमालास्तोत्रम्। 34 पद्यानि।
8 यामुनाचार्य:। - आळवन्दारस्तोत्रम् अनेन कृतम्। तवामृतस्यन्दिनि पादपङ्कजे निवेशितात्मा कथमन्यदिच्छति। स्थितेऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरसं समीहते ॥
9 जगन्नाथ:। - करुणालहरी, गङ्गालहरी, अमृतलहरी तथा लक्ष्मीलहरी इति एतानि स्तोत्राणि अनेन कृतानि।विभूषितानङ्गरिपूत्तमाङ्गा, सद्य:कृतानेकजनार्तिभङ्गा। मनोहरोत्तुङ्गचलत्तरङ्गा गङ्गा ममाङ्गान्यमलीकरोतु॥ - गङ्गालहरी
जैनस्तोत्राणि
[सम्पादयतु]जैनमुनीनां षट्क्रियासु चतुर्विंशतिस्तव: अन्यतरा क्रिया।ते ईश्वरं न मन्यन्ते।तेषां स्तोत्राणि तीर्थङ्करविषयकाणि सन्ति। द्वे प्रमुखे जैनस्तोत्रे -
- 1 भक्तामरस्तोत्रम् - मानतुङ्गाचार्य:
- 2 कल्याणमन्दिरस्तोत्रम् - सिद्धसेनदिवाकर:
बौद्धस्तोत्राणि
[सम्पादयतु]1 लोकेश्वरशतकम्-वज्रदत्त:।(बुद्धस्य रूपगुणा: श्रेष्ठत्वं च वर्णितम्।बाण-मयूरकृतयो: स्तोत्रयो: अनुकरणं स्पष्टम्। )
2 आर्यातारास्रग्धरास्तोत्रम्।- सर्वज्ञमिश्र:
3 भक्तिशतकम्- कविभारति:।(हिन्दुधर्मगतभक्तिकल्पनाया: अत्र स्वीकार: दृश्यते।)
हिन्दुस्तोत्राणामनुकरणं बौद्धस्तोत्रेषु दृश्यते।बौद्धमते ईश्वर: कश्चिद् न स्वीकृत:।तथापि महायान-पन्थे स्तोत्राणि विद्यन्ते। बुद्धस्य फलपुष्पै: अर्चनेन अपि निर्वाणप्राप्ति: भवति इति महायानपन्थस्य मतम्।अत: तत्र स्तोत्राणां कृते अवसर: अस्ति।स्तोत्रेषु अवलोकितेश्वर: देव:, तारा देवी। नागार्जुन: वस्तुत: शून्यवादी बौद्ध:। तथापि तस्य स्तोत्रेषु आस्तिक्यवाद: दृश्यते।
काव्यशास्त्रदृष्या स्तोत्राणि त्रिधा -
- १ तिरस्कृतकाव्यतत्वानि स्तोत्राणि
- २ पुरस्कृतकाव्यतत्वानि स्तोत्राणि
- ३ चित्रकाव्यानि स्तोत्राणि
१ तिरस्कृतकाव्यतत्वानि स्तोत्राणि- 1 नामावली - विष्णुसहस्रनाम। 2 वैराग्यपराणि- वैराग्यपञ्चकम् 3 तत्वज्ञानपराणि- 4 लीलागुणादिवर्णनपराणि5 उपदेशपराणि- चर्पटपञ्जरी,
चित्रकाव्यानि- वर्णमालास्तोत्रम् ,रामकृष्णविलोमकाव्यम्।
पुरस्कृतकाव्यतत्वानि- 1 अलङ्कारप्रधानानि 2 भक्तिरसप्रधानानि
भक्तिरसप्रधानानि पुन: त्रिधा -
१ दास्यभक्तिरसप्रधानानि- रामरक्षा , शिवमहिम्न:
२ वात्सल्यभक्तिरसप्रधानानि- देव्यपराधक्षमापनम्
३ माधुर्यभक्तिरसप्रधानानि - गीतगोविन्दम्।
नामावलीस्तोत्राणि - कस्य चिद् देवस्य बहूनि प्रसिद्धानि अप्रसिद्धानि च नामानि पद्यबद्धानि सन्ति।एतेभ्य: नामभ्य: तस्य देवस्य गुण-कर्मादिकमपि सूचितं भवति।यथा दशरथात्मज: इत्युक्ते रामस्य पितृप्रेम सूचितं भवति।विश्वामित्रप्रिय: इति रामस्य नाम तस्य आदर्शशिष्यत्वं सूचयति।रावणारि: इति नाम्ना रामस्य रावणेन सह जातम् अभूतपूर्वं युद्धं स्मर्यते।तस्मान्नामावलिरूपाणि स्तोत्राणि परम्परया गुणवर्णनपराणि भवन्ति।
गुणलीलावर्णनपराणि स्तोत्राणि - भगवत: गुणलीलासङ्कीर्तनेन तस्मिन् प्रीति: वर्धते।
2 वैराग्यपराणि तत्वज्ञानपराणि उपदेशपराणि स्तोत्राणि । स्तोत्रे वस्तुत: काचिद् देवता स्तूयते।वैराग्यादिपरेषु स्तोत्रेषु न कापि देवता स्तुता तथापि रूढ्या तेषां स्तोत्रसंज्ञा प्राप्ता।
पुरस्कृतकाव्यतत्वानि स्तोत्राणि
इयम् अपरा परम्परा स्तोत्रवाङ्मयस्य। तिरस्कृतकाव्यतत्वानि स्तोत्राणि प्रायश: अभिधया देवता: स्तुवन्ति। पुरस्कृतकाव्यतत्वानि स्तोत्राणि नानाविधानां काव्यतत्वानाम् आश्रयेण देवता: स्तुवन्ति।अत: एतानि स्तोत्राणि रुचिरतराणि भवन्ति।
अलङ्कारप्रधानानि स्तोत्राणि -अलङ्कारशब्देन अत्र रसभिन्नतत्वानां ग्रहणं कार्यम्।पण्डितराज-जगन्नाथकृता गङ्गालहरी एतस्य निदर्शनम्।
भक्तिरसप्रधानानि स्तोत्राणि -यदा वैष्णवमतस्य प्रभाव: वर्धित:, तदा भक्तिरसप्रधानानि स्तोत्राणि रचितानि।अद्वैतमते अपि भक्ति: स्वीकृता। अत: तत्र अपि स्तोत्ररचना दृश्यते तथापि भक्तिपरस्तोत्राणां परिपोष: तु वैष्णवसम्प्रदायेषु जात:।तदा एव भक्तिरस: रसगणनायां स्थानं लेभे।तस्य एव भक्तिरसस्य सूक्ष्मभेदा: रूपगोस्वामि-जीवगोस्वामि-मधुसूदनसरस्वतीप्रभृतिभि: आचार्यै: विशदीकृता:।भक्तिरसस्य आविष्काराय स्तोत्रसदृशम् अन्यद् माध्यमं किमिव स्यात् ?
दास्यभक्तिरसप्रधानानि स्तोत्राणि -एषु देव: स्वामी भक्त: तस्य दास: इति भावनया स्तोत्रं गीयते।यथा श्रीरामचन्द्रचरणौ मनसा स्मरामि...।
वात्सल्यभक्तिरसप्रधानानि स्तोत्राणि -देव: माता अथवा पिता इति चिन्त्यते। भक्त: आत्मानं तस्य अपत्यं मत्वा स्तोत्रं गायति।यथा पृथिव्यां पुत्रास्ते ...।
माधुर्यभक्तिरसप्रधानानि स्तोत्राणि -देव: पति: , भक्त: तस्य पत्नी प्रेयसी वा इति भावना अत्र क्रियते। एतेषु स्तोत्रेषु बहुधा कृष्ण: एव देव: स्तूयते। क्वचिद् एव शिव:, विष्णु; अथवा बुद्ध: अत्र देवता भवति।माधुर्यस्तोत्राणां मूलाधार: श्रीमद्भागवतम्।तत्र वर्णिता रासक्रीडा भक्तकविभि: वस्तुत्वेन स्वीकृता। तद् वस्तु स्वप्रतिभया सुशोभिता।माधुर्यभक्तिरसस्य सामग्री एवम्-
स्थायिभाव: - ईश्वरविषये रति:
आश्रय: - भगवद्भक्ता:।
आलम्बन-विभाव: - परमेश्वर: तस्य अवतारा: च।
उद्दीपनविभाव: - भगवत्सौन्दर्यम्।दीनरक्षा। विराट्स्वरूपम्। कीर्तनम्। देवालय:।
अनुभाव: - औत्सुक्यम् अश्रुपात:।
सञ्चारिभाव: - मरणवर्जिता: हर्ष-औत्सुक्य-निर्वेदादय: भावा:।
स्तोत्राणां काव्यदृष्ट्या समीक्षणस्य औचित्यम् ।- भक्त-सहृदययो: अयं विवादविषय:।सहृदयाणां मते स्तोत्राणाम् अपि काव्यशास्त्रदृष्ट्या समीक्षा कर्तव्या।अन्यथा गीतगोविन्दसदृशेषु काव्येषु विद्यमानं सौन्दर्यं दुर्लक्षितं स्यात्।भक्ता: भक्तिशास्त्रमनुसृत्य कामम् एतेषां भिन्नरीत्य समीक्षां कुर्यु:। न तत्र अस्माकं कोपि आक्षेप:।काव्यदृष्ट्या समीक्षा अस्माभि:काव्यशास्त्रज्ञै: करणीय एव।
भक्तानां मते स्तोत्रमार्गेण ईश्वरविषयिणी प्रीति: वर्धनीया।तद् एव साध्यम्। तद् यएन स्तोत्रेण भवति तद् उत्तमं स्तोत्रम्।अत: एव यत्र न कश्चिद् गूढार्थ:, यत्र प्रतिपादनं सरलम् अभिधाप्रधानं तदेव स्तोत्रं लोकेषु प्रथते, प्रतिदिनं गृहे गृहे मुखे मुखे च वर्तते। काव्यशास्त्रदृष्ट्या उत्तमम् अपि गीतगोविन्दं न प्रतिदिनं पठ्यते। प्रत्युत काव्यशास्त्रदृष्ट्या नीरसं काव्यतत्वशून्यं विष्णुसहस्रनाम अन्तकाले अपि पठ्यते, मुमूर्षवे श्राव्यते च।