सामग्री पर जाएँ

विहाय कामान्यः सर्वान्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
विहाय कामान्यः सर्वान्...


शान्तिप्राप्तिः
श्लोकसङ्ख्या २/७१
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः आपूर्यमाणमचल...
अग्रिमश्लोकः एषा ब्राह्मी स्थितिः पार्थ...

विहाय कामान्यः सर्वान् () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः कामनादीनां त्यागस्य फलं शान्तिप्राप्तिः इति कथयति । पूर्वस्मिन् श्लोके कामनात्यागिनः शान्तिं प्राप्नुवन्ति, न तु कामिनः इत्युक्त्वा अत्र कामनायाः, ममतायाः, अहङ्कारस्य च त्यागिनः एव शान्तिं प्राप्नुवन्ति इति कथयति । भगवान् कथयति यत्, यः मनुष्यः सर्वासां कामनानां त्यागं कृत्वा निर्ममः, निरहङ्कारः, निःस्पृहः च भूत्वा विचरति, सः शान्तिं प्राप्नोति इति । चतुःपञ्चाशे श्लोके अर्जुनस्य चतुर्थः प्रश्नः आसीत् यत, स्थितप्रज्ञः कथं व्रजति इति भगवान् तस्य प्रश्नस्य उपसंहारम् अनेन श्लोकेन करोति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
विहाय कामान्यः सर्वान्पुमांश्चलति निःस्पृहः ।
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥ ७१ ॥

पदच्छेदः[सम्पादयतु]

विहाय, कामान्, यः, सर्वान्, पुमान्, चलति, निःस्पृहः । निर्ममः, निरहङ्कारः, सः, शान्तिम्, अधिगच्छति ॥

अन्वयः[सम्पादयतु]

यः पुमान् सर्वान् कामान् विहाय निःस्पृहः निर्ममः निरहङ्कारः चलति सः शान्तिम् अधिगच्छति ।

शब्दार्थः[सम्पादयतु]

अन्वयः विवरणम् सरलसंस्कृतम्
यः यद्-द.सर्व.पुं.प्र.एक. यः
पुमान् पुंस्-स.पुं.प्र.एक. पुरुषः
सर्वान् अ.सर्व.पुं.द्वि.बहु. अखिलान्
कामान् अ.पुं.द्वि.बहु अभिलाषान्
विहाय अव्ययम् त्यक्त्वा
निःस्पृहः अ.पुंं.प्र.एक. निराशः
निर्ममः अ.पुं.प्र.एक. ममताशून्यः
निरहङ्कारः अ.पुं.प्र.एक. अहम्भावरहितः
चलति √चल् कम्पने-पर.कर्तरि, लट्.प्रपु.एक. वर्तते
सः तद्-द.पुं.प्र.एक. सः पुमान्
शान्तिम् इ.स्त्री.द्वि.एक. सुखम्
अधिगच्छति अधि+√गम्लृ गतौ-पर.कर्तरि, लट्.प्रपु.एक. प्राप्नोति ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. पुमांश्चलति = पुमान् + चलति – रुत्वम्, अनुस्वारागमः, विसर्गः, सकारः, श्चुत्वं च
  2. निर्ममो निरहङ्कारः = निर्ममः + निरहङ्कारः – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः
  3. स शान्तिम् = सः + शान्तिम् = विसर्गसन्धिः (लोपः)

समासः[सम्पादयतु]

  1. निःस्पृहः = निर्गता स्पृहा यस्मात् सः – बहुव्रीहिः ।
  2. निर्ममः – निर्गतः ममः यस्मात् सः – बहुव्रीहिः ।
  3. निरहङ्कारः = निर्गतः अहङ्कारः यस्मात् सः – बहुव्रीहिः ।

अर्थः[सम्पादयतु]

यः पुरुषः सर्वान् अपि कामान् परित्यजति, निःस्पृहः निर्ममः निरहङ्कारः च भवति सः निश्चयेन शान्तिं प्राप्नोति ।

भावार्थः [१][सम्पादयतु]

'विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः' – अप्राप्तवस्तुनः इच्छा एव कामना उच्यते । स्थितप्रज्ञः महापुरुषः सर्वासाम् इच्छानां त्यागं करोति । कामनानां त्योगे कृते सत्यपि शरीरनिर्वाहाय स्थल-काल-वस्तु-व्यक्ति-पदार्थानादीनाम् आवश्यता भवति । अर्थात् जीवननिर्वहणाय प्राप्तवस्त्वादीनाम् आवश्यकता एव स्पृहा उच्यते । स्थितप्रज्ञपुरुषः स्पृहायाः अपि त्यागं करोति । यतः यस्य लक्ष्यस्य प्राप्त्यै देहः प्राप्तः अस्ति, तस्य परमात्मतत्त्वस्य प्राप्तिः अभवत् । अतः शरीरस्य स्थित्याः, अस्थित्याः वा चिन्तनम् अकृत्वा शरीरनिर्वाहस्य आवश्यकतायाः अपि त्यागं कृत्वा स्थितप्रज्ञः निःस्पृहः भवति ।

सः स्थितप्रज्ञः जीवननिर्वाहस्य वस्तूनां सेवनं नैव करोति इति निःस्पृहतायाः अर्थः न भवति । सः निर्वाहोपयोगिनां वस्तूनां सेवनं करोति, पथ्यकुपथ्ययोः विवेकम् अपि करोति । अर्थात् अग्रे साधनावस्थायां शरीरादीनां यः व्यवहारः आसीत्, स एव व्यवहारः स्थितप्रज्ञावस्थायाम् अपि भवति । परन्तु जीवितः भवामि चेत् उचितम्, जीवननिर्वाहोपयोगिनी वस्तूनि सातत्येन प्राप्नोमि चेत् उचितम् इत्यादयः इच्छाः तस्य अन्तःकरणे न भवन्ति ।

प्रजहाति यदा कामान्सर्वान् [२] इत्यनेन श्लोकेन कामनात्यागस्य यः उल्लेखः कृतः, स एवोल्लेखः 'विहाय कामान्यः सर्वान्' इत्यनेन श्लोकेन क्रियते । अस्य तात्पर्यं भवति यत्, कर्मयोगे सर्वासां कामनानां त्यागम् अकृत्वा कोऽपि स्थितप्रज्ञः भवितुं नार्हति । यतः कामनात्वादेव संसारेण सह सम्बन्धः अस्ति । कामनानां सर्वथा त्यागे सति संसारेण सह सम्बन्ध एव न सम्भवति ।

'निर्ममः' – स्थितप्रज्ञमहापुरुषः ममतायाः सर्वथा त्यागं करोति । एतानि वस्तूनि मम इति भावः येषु मनुष्येषु भवति, सः भावः मिथ्या अस्ति । तानि सर्वाणि वस्तूनि मनुष्येण संसारात् स्वीकृतानि । अतः तानि वस्तूनि तस्य न भवन्ति । प्राप्तवस्तूनि स्वस्य सन्ति इति मान्यता एव भ्रमः । तं भ्रमं दूरीकर्तुं स्थितप्रज्ञः वस्तु-व्यक्ति-पदार्थ-शरीर-इन्द्रियादीनां ममतां त्यक्त्वा ममतारहितः भवति ।

'निरहङ्कारः' – अहमेव शरीरम् इति शरीरेण सह तादात्म्यम् एव अहङ्कारः अस्ति । स्थितप्रज्ञे सः अहङ्कारः नावशिष्यते । शरीर-इन्द्रिय-मन-बुद्धीत्यादयः कस्मिँश्चित् प्रकाशे सन्ति इति भानं भवति । तथा च 'अहम्'भावः अपि तस्मिन् प्रकाशे अस्ति इति भानं भवति । एवं प्रकाशस्य दृष्ट्यां शरीर-इन्द्रिय-मन-बुद्धि-अहङ्कारादयः दृश्यम् अस्ति । सः स्थितप्रज्ञः दृष्टा दृश्यात् भिन्नः भवति इति नियमम् अनुभवति । सः अनुभवः स्थितप्रज्ञं निरहङ्कारिणं करोति ।

'स शान्तिमधिगच्छति' – स्थितप्रज्ञः शान्तिं प्राप्नोति । कामना, स्पृहा, ममता, अहङ्कारः इत्यादिभ्यः रहितः स्थितप्रज्ञः शान्तिं प्राप्नोति एवं नास्ति, अपि तु मनुष्यमात्रः शान्तः, स्वतःसिद्धश्च भवति । केवलम् आद्यन्तयुक्तानां वस्तूनाम् उपभोगस्य कामनात्वात् एव सः अशान्तः भवति । तैः वस्तुभिः सह उत्पन्नः ममत्वसम्बन्धः एव अशान्तिं जनयति । यदा संसारस्य कामना-स्पृहा-ममता-अहङ्कारदिभ्यः मनुष्यः सर्वथा मुक्तः भवति, तदा सः स्वतःसिद्धां शान्तिम् अनुभवति ।

मर्मः[सम्पादयतु]

श्लोकेऽस्मिन् कामना-स्पृहा-ममता-अहङ्कारेषु अहङ्कारः एव मुख्यः अस्ति । यतो हि अहङ्कारस्य निषेधमात्रेण सर्वेषां निषेधो भवति । अर्थात् यदि 'अहम्'भावस्य अभावः भविष्यति, तर्हि 'ममत्व'स्यापि अभावः स्वतः एव भविष्यति । एवं कामनाः कः करिष्यति ? किमर्थञ्च करिष्यति ?

यदि "निरहङ्कारः" इत्युक्ते सति कामनादीनां त्यागः अपि अन्तर्भवति, तर्हि कामनादीनां वर्णनस्य कोऽर्थः ? इत्यस्य प्रश्नस्य उत्तरम् अस्ति यत्, कामना, स्पृहा, ममता, अहन्ता इत्येतासु कामना एव स्थूला अस्ति । कामनायाः सूक्ष्मा स्पृहा, स्पृहायाः सूक्ष्मा ममता, ममतायाः सूक्ष्मा अहन्ता च । अतः संसारबन्धनत्यागाय प्रप्रथमं कामनायाः त्यागः भवति । ततः अन्यासां तिसृणां त्यागे सुगमता भवति । कामनया किमपि न लभ्यते । यत्प्राप्यम् अस्ति, तदेव मनुष्यः प्राप्नोति । अतः कामनायाः त्यागः करणीयः । कामनायाः त्यागे सत्यपि स्पृहा तु भवत्येव । शरीरनिर्वाहस्य आवश्यकता एव स्पृहा उच्यते । तस्याः स्पृहायाः त्यागः मनुष्यस्य हस्ते नास्ति अर्थात् स्पृहायाः पूर्तौ अपि वयं न स्वतन्त्राः । यद् भविष्यति, तत्तु भविष्यत्येव । तर्हि स्पृहायाः को लाभः ? अतः शरीराय अन्नं, जलं, वस्त्रम् इत्यादीनाम् आशात्यागेन स्पृहानाशः भवति । कामनास्पृहयोः त्यागोत्तरं प्राप्तवस्तुषु, शरीरादिषु च ममता अवशिष्यते । ममतायां सत्यां वस्त्वादीनि सुरक्षितानि भवन्ति, ममतायाः अभावे वस्त्वादीनि नष्टानि भवन्ति चेति न कोऽपि नियमः । एवं प्राप्यवस्तुषु ममतया अपि किमपि प्रयोजनं न सिद्ध्यति । एवं क्रमेण कामनायाः, स्पृहायाः, ममतायाः च त्यागेन अहन्तायाः त्यागः सुगमः भवति । परन्तु कामनादीनां त्यागात् पूर्वमेव अहन्तायाः त्यागः दुष्करः । अतः साधकः कामनादीनां तिसृणां त्यागं कुर्यात्, ततः अहन्तायाः त्यागः सुकरः भवति ।

कामनादीनां त्यागोपायाः[सम्पादयतु]

१. कर्मयोगानुगुणम् - 'मम किमपि नास्ति' यतः वस्तुनि, व्यक्तौ, परिस्थितौ, घटनायाम्, अवस्थायां च मे स्वतन्त्राधिकारः न । यदि मम किमपि नास्ति, तर्हि अहं किमपि नेच्छामि । यतः यदि शरीरं मे अस्ति, तर्हि अन्नादीनां मह्यम् आवश्यकता भवति । शरीरस्य ममत्वे व्यपगते मह्यं किमपि नावश्यकम् । एवम् "अहम्" अपि नश्यति । यतः कस्मिंश्चित् वस्तुनि मेऽधिकारः अस्ति इति भाव एव अहन्तां जनयति । ममेत्यनेन सम्बोद्ध्यमानं सर्वं संसारात् अभिन्नम् अस्ति । अतः शरीरादिभिः किमपि करणीयं चेत् संसारहितकार्याणि एव करणीयानि । यतो हि "अहं किमपि नेच्छामि" इत्यनेन "अहम्" इत्यस्य एकदेशीयत्वं स्वतः नष्टं भवति । एवं कर्मयोगी कामनादिभ्यः मुक्तः भवति ।

२. साङ्ख्ययोगानुगुणम् - "अहम् अस्मि" इत्यनेन प्राणिषु स्वरूपस्य स्वतःसिद्धायाः सत्तायाः ज्ञानं भवति । तत्र "अहं" तु प्रकृतेः अंशः अस्ति । "अस्मि" इति सत्ता अस्ति । अत्र "अस्मि" इत्यस्य वास्तविकाधारः "अहम्" अस्ति । यदि "अहम्" एव नावशिष्यते, तर्हि "अस्मि" इत्यस्य अवस्थितिः एव न कल्प्यते । "अहम् अस्मि", "त्वम् असि", "सः अस्ति", "एषः अस्ति" एतेषां चतुर्णां व्यक्तिस्थलकालत्वात् भिन्नता दृश्यते । यदि व्यक्तिस्थलकालानाम् आधारेण न चिन्तयामः, तर्हि केवलं "सत्ता" एव अवशिष्यते । तस्यां सत्तायां स्थितिः एव साङ्ख्ययोगिनः कामनादिरहितान् करोति ।

३. भक्तियोगानुगुणम् – यत् "अहं", "मम" चास्ति, तत् सर्वम् ईश्वरस्य अस्ति । यतः ममाधिकारस्य एकम् अपि वस्तु नास्ति । परन्तु ईश्वरस्य तेषु वस्तुषु पूर्णाधिकारः । सः ईश्वरः वस्तु यथा, यत्र च स्थापयितुम् इच्छति, तथैव तत्रैव च तत् वस्तु भवति । अत एतत् सर्वम् ईश्वरस्यैवास्ति । मम पार्श्वे याः शरीरेन्द्रियमनोबुद्ध्यादयः सन्ति, ताः सर्वाः ईश्वरस्यैव । अहमपि तस्य । एतादृशः भावयुक्तः भक्तियोगी कामनादिरहितः भवति ।

शाङ्करभाष्यम् [३][सम्पादयतु]

यस्मादेवं तस्मात् -

विहाय  परित्यज्य  कामान् यः  संन्यासी  पुमान् सर्वान्  अशेषतः कात्स्न्र्येन  चरति  जीवनमात्रचेष्टाशेषः पर्यटतीत्यर्थः।  निःस्पृहः  शरीरजीवनमात्रेऽपि निर्गता स्पृहा यस्य सः निःस्पृहः सन्  निर्ममः  शरीरजीवनमात्राक्षिप्तपरिग्रहेऽपि ममेदम् इत्यभिनिवेशवर्जितः  निरहंकारः  विद्यावत्त्वादिनिमित्तात्मसंभावनारहितः इत्येतत्।  सः  एवंभूतः स्थितप्रज्ञः ब्रह्मवित्  शान्तिं  सर्वसंसारदुःखोपरमलक्षणां निर्वाणाख्याम्  अधिगच्छति  प्राप्नोति ब्रह्मभूतो भवति इत्यर्थः ।।

भाष्यार्थः[सम्पादयतु]

यः सन्न्यासी पुरुषः सर्वाः कामानाः, भोगान् च त्यक्त्वा अशेषतः अर्थात् जीवननिर्वहणाय एव चेष्टमानः विचरति, यः स्पृहारहितः अर्थात्, शरीरे, जीवने च यस्य लालसा नास्ति, यः ममतारहितः अस्ति अर्थात् शरीराय, जीवननिर्वाहाय च उपयोगिवस्तुषु अपि यस्य ममत्वं नास्ति, यः अहङ्काररहितः अस्ति अर्थात् विद्वत्तादिभ्यः उत्पद्यमानः आत्माभिमानः अपि यस्मिन् नास्ति, तादृशः स्थितप्रज्ञः, ब्रह्मवेत्ता, ज्ञानी संसारस्य सर्वदुःखेभ्यः निवृत्तः सन् मोक्ष-नामकं परमशान्तिपदं प्राप्नोति अर्थात् सः ब्रह्मरूपः भवति इति ।

रामानुजभाष्यम् [४][सम्पादयतु]

काम्यन्ते इति कामाः शब्दादयो विषयाः।  यः पुमान्  शब्दादीन्  सर्वान्  विषयान्  विहाय  तत्र  निःस्पृहः  ममतारहितश्च अनात्मनि देहे आत्माभिमानरहितः  चरति स  आत्मानं दृष्ट्वा  शान्तिम् अधिगच्छति।

भाष्यार्थः[सम्पादयतु]

येषां कामनाः भवन्ति, तेषां नाम कामः इति [५] व्युत्पत्त्यनुसारं शब्दादिविषयाः अर्थाद् भोगाः कामः इति । यः पुरुषः शब्दादिभ्यः सर्वेभ्यः विषयेभ्यः मुक्तः सन् तेषु निःस्पृहः, ममतारहितः, अनात्मशरीरे आत्माभिमानरहितश्च भूत्वा आचरणं करोति, सः आत्मनः साक्षात्कारं कृत्वा शान्तिं प्राप्नोति ।

श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
आपूर्यमाणमचल...
विहाय कामान्यः सर्वान्... अग्रिमः
एषा ब्राह्मी स्थितिः पार्थ...
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीता, अ. २, श्लो. ५५
  3. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  4. रामानुजभाष्यम्
  5. गीता, अ. २, श्लो. ५५

अधिकवाचनाय[सम्पादयतु]