अच्छेद्योऽयमदाह्योऽयम्...
अच्छेद्योऽयमदाह्योऽयम्... आत्मनः नित्यत्वम् | |
---|---|
श्लोकसङ्ख्या | २/२४ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | नैनं छिन्दन्ति शस्त्राणि... |
अग्रिमश्लोकः | अव्यक्तोऽयमचिन्त्योऽयम्... |
अच्छेद्योऽयमदाह्योऽयम् ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः आत्मनः नित्यत्वं वदति । पूर्वस्मिन् श्लोके भगवता आत्मनः नित्यतायाः उपस्थानम् आरब्धम् । अत्र तमेव विषयम् अग्रे उपस्थापयति । सः वदति यत्, सः शरीरी अच्छेद्यः अस्ति । सः न दाह्यः, क्लेद्यः, शोष्यः च । यतो हि आत्मा नित्यः, सर्वेषु परिपूर्णः, अचलः, स्थिरस्वभावयुक्तः, अनादिः च अस्ति इति ।
श्लोकः
[सम्पादयतु]- अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
- नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २४ ॥
पदच्छेदः
[सम्पादयतु]अच्छेद्यः, अयम्, अदाह्यः, अयम्, अक्लेद्यः, अशोष्यः, एव, च । नित्यः, सर्वगतः, स्थाणुः, अचलः, अयम्, सनातनः ॥
अन्वयः
[सम्पादयतु]अयम् अच्छेद्यः । अयम् अदाह्यः । अयम् अक्लेद्यः अशोष्यः एव च । अयं नित्यः सर्वगतः स्थाणुः अचलः सनातनः (च) ।
शब्दार्थः
[सम्पादयतु]अन्वयः | विवरणम् | सरलसंस्कृतम् |
अयम् | इदम्-म.सर्व.पुं.प्र.एक. | एषः आत्मा |
अच्छेद्यः | अ.पुं.प्र.एक. | छेत्तुम् अयोग्यः |
अयम् | इदम्-म.सर्व.पुं.प्र.एक. | एषः आत्मा |
अदाह्यः | अ.पुं.प्र.एक. | दग्धुम् अयोग्यः |
अक्लेद्यः | अ.पुं.प्र.एक. | क्लेदयितुम् अशक्यः |
अशोष्यः | अ.पुं.प्र.एक. | शोषयितुम् अशक्यः |
एव च | अव्ययम् | |
अयम् | इदम्-म.सर्व.पुं.प्र.एक. | एषः |
नित्यः | अ.पुं.प्र.एक. | शाश्वतः |
सर्वगतः | अ.पुं.प्र.एक. | सर्वव्यापी |
स्थाणुः | उ.पुं.प्र.एक. | स्थिरः |
अचलः | अ.पुं.प्र.एक. | कम्परहितः |
सनातनः | अ.पुं.प्र.एक. | सदावर्ती । |
व्याकरणम्
[सम्पादयतु]सन्धिः
[सम्पादयतु]- अच्छेद्योऽयम् = अच्छेद्यः + अयम् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
- अदाह्योऽयम् = अदाह्यः + अयम् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
- अक्लेद्योऽशोष्यः = अक्लेद्यः + अशोष्यः – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
- अचलोऽयम् = अचलः + अयम् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
- अशोष्य एव = अशोष्यः + एव – विसर्गसन्धिः (लोपः)
- स्थाणुरचलः = स्थाणुः + अचलः – विसर्गसन्धिः (रेफः)
समासः
[सम्पादयतु]- अच्छेद्यः = न च्छेद्यः - नञ्तत्पुरुषः ।
- अदाह्यः = न दाह्यः - नञ्तत्पुरुषः ।
- अक्लेद्यः = न क्लेद्यः - नञ्तत्पुरुषः ।
- अशोष्यः = न शोष्यः – नञ्तत्पुरुषः ।
- अचलः = न चलः – नञ्तत्पुरुषः ।
- सर्वगतः = सर्वं गतः – द्वितीयातत्पुरुषः ।
कृदन्तः
[सम्पादयतु]- छेद्यः = छिद् + ण्यत् (कर्मणि) एवम् दह्-दाह्यः, क्लिद्-क्लेद्यः, शुष्-शोष्यः इति बोध्यम् ।
- गतः = गम्लृ + क्त (कर्तरि)
अर्थः
[सम्पादयतु]अयम् आत्मा शस्त्रेण केनापि छेत्तुम् अशक्यः । अग्निना भस्मीकर्तुम् अपि न शक्यः । अस्य जलादिना क्लेदनम् आतपादिना शोषणं वा न शक्यम् । अयं सर्वदा भवति । सर्वत्रापि भवति । अयं निश्चलः स्थिरः सनातनश्च वर्तते ।
भाष्यार्थः
[सम्पादयतु]'अच्छेद्योऽयम्' - किमर्थं शस्त्रादीनि शरीरिणि विकारम् उत्पादयितुम् असमर्थानि ? इति एतस्मिन् श्लोके वदति 'अच्छेद्योऽयम्' इति । शस्त्राणि शरीरिणं छेत्तुं न शक्नुवन्ति । अत्र एवं नास्ति यच्छस्त्राभावः अस्ति उत प्रहारकः अप्रशिक्षितः अस्ति इति । प्रत्युत छेदनक्रिया शरीरं प्रवेष्टुमेव न शक्नोति, अतः छेदनम् अशक्यम् । शस्त्रं विहाय मन्त्रतन्त्रादिना, शापेन वा अन्यरीत्यापि शरीरिणः छेदनप्रक्रिया असम्भवा । यथा याज्ञवल्क्यस्य प्रश्नानाम् उत्तरदाने असमर्थे सति शापत्वाद् शाकल्यस्य शिरश्छेदः जातः आसीत्, तथा शरीरेण सह तु शक्यं, परन्तु शरीरिणा सह न । दही तु सर्वथा अच्छेद्यः ।
'अदाह्योऽयम्' – एषः शरीरी अदाह्यः अस्ति । यतो हि तस्मिन् ज्वलनशीलता एव नास्ति । अग्निः, मन्त्रादयः अपि देहं दग्ध्वा भस्मीकर्तुं न शक्नुवन्ति । यथा दमयन्त्याः शापबलेन व्याधः अग्निं विना दग्ध्वा भस्मीभूतः अभवत्, तथा देहिना सह असम्भवम् । 'अक्लेद्यः' – देही अयम् अक्लेद्यः अर्थात् तस्मिन् क्लेदनपात्रता नास्ति । यथा श्रूयते यद् 'मालकोश'रागस्य प्रभावाद् शिला अपि द्रवीभवति, चन्द्रमसं दृष्ट्वा चन्द्रकान्तमणिः आर्द्रीभवति इति । परन्तु सः आत्मा रागादिभ्यः, जलाद् वा स्निग्धः न भवति । 'अशोष्यः' – देही अशोष्यः भवति अर्थात् वायुना तस्य शोषणं न शक्यते । यथा अगस्त्यर्षिः समुद्रम् अशोषयत् इति शृण्मः, तथा अत्र आत्मना सह न भवति । 'एव च' – अर्जुनः आप्तजननाशभयाद् शोकमग्नः आसीत् । अतः 'एव च' इत्यस्य पदस्य शरीरिणः अच्छेद्यताम्, अदाह्यताम्, अक्लेद्यताम्, अशोष्यतां च उपस्थाप्य उपयोगं भगवान् करोति । क्रियाप्रवेशाभाद् स शरीरी शोकयोग्यः न इत्येव तात्पर्यम् ।
'नित्यः' – एषः देही नित्यनिरन्तरं भवति । कदाचिदपि सः नासीत्, कदाचिच्च न भविष्यति इति नास्ति । परन्तु सः सर्वदापि यथास्थितिः भवति । संसारोऽयम् अनित्यः । सः क्षणं यवाद्पि स्थिरं न तिष्ठति । परन्तु यस्मिन् किञ्चिन्मात्रम् अपि परिवर्तनं भवति तं सर्वदा विद्यमानं देहिनं प्रति लक्षयितुम् अत्र 'नित्यः' इत्यस्य प्रयोगः । 'सर्वगतः' – एषः देही सर्वदा यथा आसीत्, तथैव तिष्ठति । तर्हि सः कस्मिंश्चित् स्थले निवसति खलु ? उत्तरम् अस्ति यत्, एषः देही स्थलं, व्यक्तिः, शरीरम् इत्यादिषु सर्वत्र समानरूपेण विद्यमानः वर्तते इति । दृश्ये, श्रव्ये, पठने, अवगमने च यत्किमपि प्राकृतिकं वस्तु अस्ति, तत्र सर्वत्र यत्परिपूर्णं तत्त्वम् अस्ति, तल्लक्षयितुं 'सर्वगतः' इत्यस्य पदस्योपयोगः । 'अचलः' – यदि एषः सर्वगतः अस्ति, तर्हि कस्माच्चन स्थानात् आगच्छति वा ? तर्हि कथयति देही स्थिरस्वभावी अस्ति इति । अर्थात्, कदाचिद् अत्र, कदाचित्तत्र इति तस्मिन् क्रिया नास्ति । संसारे वस्तु-व्यक्ति-पदार्थादयः सर्वेऽपि चलायमानाः । तेषु वस्तु-व्यक्ति-पदार्थादिषु यः स्वरूपाद् कदापि चलायमानः (विचलितः) न भवति, तं देहिनम् अभिलक्षयितुम् 'अचलः' इत्यस्य प्रयोगः ।
'स्थाणुः' – सः देही नित्यः, सर्वगतः, अचलश्च इति वरम् । परन्तु यथा वृक्षे भवति, तथा तस्मिन् देहिनि कम्पनं तु भवेदेव खलु ? चेदुक्तं स्थाणुः इति । अर्थात् तस्मिन् कम्पनक्रियायाः अपि अभावः अस्ति इति । प्रकृत्या, प्रकृत्याः कार्यैः च संसारे प्रत्येकस्मिन् क्षणे क्रियाफलतवेन परिवर्तनं भवति । एवं परिवर्तनशीले संसारे यः क्रियारहितः, परिवर्तनरहितः, स्थायिस्वभावी च तिष्ठति, तं प्रति लक्षयितुम् अत्र 'स्थाणुः' इति पदम् । 'सनातनः' – देहिनः नित्यादि तु वरं परन्तु तस्य जन्म तु कदाचित् जातं स्याद् ? इति प्रश्ने सति उत्तरम् अस्ति यद्, सः अनादिकालाद् सर्वदा अस्ति । सः कस्मिंश्चित् समये नासीत्, कस्मिंश्चित् समये न भविष्यति इति नास्ति । अतः सः सनातनः इति । सर्वेऽपि प्राकृतिकपदार्थाः अन्तारम्भयुक्ताः । ते पूर्वं नासन्, पश्चाच्च न भविष्यन्ति । परन्तु यः न तु उत्पद्यते, न च नश्यति, यः पूर्वम् अपि आसीत्, पश्चाच्च भविष्यति, तं देहिनम् अभिलक्षयितुं 'सनातनः' इति । उपर्युक्तेषु पञ्चविशेषणेषु मुख्यतात्पर्यम् अस्ति यत्, शरीरेण सह तादात्म्ये सत्यपि अर्थात् शरीरिशरीरिणोः विवेकाभावे सत्यपि शरीरी सर्वदा एकरूपः भवति इति ।
यस्मात् अन्योन्यनाशहेतुभूतानि एनमात्मानं नाशयितुं नोत्सहन्ते अस्यादीनि तस्मात् नित्यः। नित्यत्वात् सर्वगतः। सर्वगतत्वात् स्थाणुः इव स्थिर इत्येतत्। स्थिरत्वात् अचलः अयम् आत्मा। अतः सनातनः चिरंतनः न कारणात्कुतश्चित् निष्पन्नः अभिनव इत्यर्थः।।
नैतेषां श्लोकानां पौनरुक्त्यं चोदनीयम् यतः एकेनैव श्लोकेन आत्मनः नित्यत्वमविक्रियत्वं चोक्तम् न जायते म्रियते वा इत्यादिना। तत्र यदेव आत्मविषयं किञ्चिदुच्यते तत् एतस्मात् श्लोकार्थात् न अतिरिच्यते किञ्चिच्छब्दतः पुनरुक्तम् किञ्चिदर्थतः इति। दुबोर्धत्वात् आत्मवस्तुनः पुनः पुनः प्रसङ्गमापाद्य शब्दान्तरेण तदेव वस्तु निरूपयति भगवान् वासुदेवः कथं नु नाम संसारिणामसंसारित्वबुद्धिगोचरतामापन्नं सत् अव्यक्तं तत्त्वं संसारनिवृत्तये स्यात् इति।।
भाष्यार्थः
[सम्पादयतु]एवम् अस्ति, तस्माद् कारणात् –
एषः आत्मा न छेद्यः, दाह्यः, क्लेद्यः, शोष्यः च अस्ति । परस्परं नाशात्मकानि पञ्चभूतानि आत्मनः नाशं कर्तुं न शक्नुवन्ति । अतः सः नित्यः अस्ति । नित्यत्वाद् सः आत्मा सर्वगतः अस्ति । सर्वव्यापित्वाद् सः स्थाणुः अस्ति । अर्थाद् स्थिरः । स्थिरत्वाद् सः आत्मा अचलः अस्ति । अचलत्वादेव सः आत्मा सनातनः अर्थाद् केनापि कारणेन नूतनतया नोद्भूतः अस्ति, सः पुरातनः एवास्ति इति । एतेषु श्लोकेषु पुनरुक्तेः आरोपणं न करणीयम् । किञ्च 'न जायते म्रियते वा' इत्यनेन श्लोकेन एव आत्मनः नित्यतायाः, निर्विकारितायाः उपस्थापनम् अभवत् । पुनः आत्मनः विषये यत्किमपि उक्तं तत् एतस्मात् श्लोकाद् अतिरिक्तं नास्ति । कुत्रचिद् शब्दैः पुनरुक्तिः अस्ति, कुत्रचिद् अर्थैः । परन्तु आत्मत्त्वम् अतीव दुर्बोधम् अस्ति । अतः पौनःपुन्येन प्रसङ्गम् उपस्थाप्य शब्दान्तरैः भगवान् वासुदेवः तस्य तत्त्वस्य निरूपणं करोति । तद् अव्यक्तं तत्त्वं येन केन प्रकारेण संसारिणः पुरुषस्य बुद्धिगोचरं भवेद्, येन तस्य संसारनिवृत्तेः कारणं भवेत् ।
रामानुजभाष्यम्
[सम्पादयतु]शस्त्राग्न्यम्बुवायवः छेदनदहनक्लेदनशोषणानि आत्मानं प्रति कर्तुं न शक्नुवन्ति। सर्वगतत्वाद् आत्मनः सर्वतत्त्वव्यापकस्वभावतया सर्वेभ्यः तत्त्वेभ्यः सूक्ष्मत्वात् अस्य तैः व्याप्त्यनर्हत्वाद् व्याप्यकर्तव्यत्वात् च छेदनदहनक्लेदनशोषणानाम्। अत आत्मा नित्यः स्थाणुः अचलः अयं सनातनः स्थिरस्वभावः अप्रकम्प्यः पुरातनः च।
भाष्यार्थः
[सम्पादयतु]शस्त्राग्निजलवायवः तम् आत्मानं छेदन-दहन-क्लेदन-शोषणानि कर्तुं न प्रभवन्ति । किञ्च आत्मा सर्वव्यापी अस्ति । एवं सर्वेषु तत्त्वेषु व्यापकतया विद्यमानत्वाद् सः आत्मा सर्वेभ्यः तत्त्वेभ्यः सूक्ष्मः अस्ति । उक्तानि तत्त्वानि तम् आत्मानं व्याप्तुं शक्नुवन्ति । छेदनं, दहनं, क्लेदनं, शोषणं च तस्माद् आत्मनि व्याप्ते सत्येव कर्तुं प्रभवन्ति । अत एव एषः आत्मा नित्यः, स्थाणुः, अचलः, सनातनः च अर्थाद् स्थिरस्वभावी, पुरातनः च अस्ति ।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये अच्छेद्योऽयमदाह्योऽयम्... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]- ↑ श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च