सामग्री पर जाएँ

ध्यायतो विषयान्पुंसः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ध्यायतो विषयान्पुंसः...


अधःपतनस्य कारणानि
श्लोकसङ्ख्या २/६२
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः तानि सर्वाणि संयम्य...
अग्रिमश्लोकः क्रोधाद्भवति सम्मोहः...
विशेषम् विषयस्य ऐक्यत्वात् अग्रिमश्लोके मिलित्वा अस्य पठनं भवति ।

ध्यायतो विषयान्पुंसः () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अधःपतनस्य कारणानि निरूपयति । पूर्वस्मिन् श्लोके जितेन्द्रियपुरुषस्य प्रशंसां कुर्वन् भगवत्परायणतायाः आज्ञाम् अकरोत् । अत्र विषयासक्तेषु मनुष्येषु अवगुणोत्पत्तिं, तैः अवगुणैः अधःपतनं च वदति ।

श्लोकः

[सम्पादयतु]
गीतोपदेशः
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ॥
सङ्गात्सञ्जायते कामः कामात् क्रोधोऽभिजायते ॥ ६२ ॥

पदच्छेदः

[सम्पादयतु]

ध्यायतः, विषयान्, पुंसः, सङ्गः, तेषु, उपजायते ॥ सङ्गात्, सञ्जायते, कामः, कामात्, क्रोधः, अभिजायते ॥

अन्वयः

[सम्पादयतु]

विषयान् ध्यायतः पुंसः तेषु सङ्गः उपजायते, सङ्गात् कामः सञ्जायते, कामात् क्रोधः अभिजायते ।

शब्दार्थः

[सम्पादयतु]
अन्वयः विवरणम् सरलसंस्कृतम्
विषयान् अ.पुं.द्वि.बहु. इन्द्रियविषयान्
ध्यायतः ध्यायत्-त.पुं.ष.एक. चिन्तयतः
पुंसः पुंस्-स.पुं.ष.एक. पुरुषस्य
तेषु तद्-द.सर्व.पुं.स.बहु. तेषु विषयेषु
सङ्गः अ.पुं.प्र.एक. आसक्तिः
उपजायते उप+√जनी प्रादुर्भावे-आत्म.-कर्तरि, लट्.प्रपु.एक उवति
सङ्गात् अ.पुं.पं.एक. आसक्तेः
कामः अ.पुं.प्र.एक. वाञ्छा
सञ्जायते सं+√जनी प्रादुर्भावे-आत्म.-कर्तरि, लट्.प्रपु.एक निष्पद्यते
कामात् अ.पुं.पं.एक. वाञ्छायाः
क्रोधः अ.पुं.प्र.एक. रोषः
अभिजायते अभि+√जनी प्रादुर्भावे-आत्म.-कर्तरि, लट्.प्रपु.एक सम्भवति

व्याकरणम्

[सम्पादयतु]

सन्धिः

[सम्पादयतु]
  1. ध्यायतो विषयान् = ध्यायतः + विषयान् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः
  2. सङ्गस्तेषु = सङ्गः + तेषु – विसर्गसन्धिः (सकारः)
  3. तेषूपजायते = तेषु + उपजायते – सरवर्णदीर्घसन्धिः
  4. क्रोधोऽभिजायते ¬= क्रोधः + अभिजायते – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च ।

कृदन्तः

[सम्पादयतु]

ध्यायतः = ध्यै + शतृ (कर्तरि)

शब्दादिविषयान् आलोचयतः पुरुषस्य तेषु आसक्तिः उपजायते । तस्याः आसक्तेः तृष्णा सञ्जायते । यदि सा तृष्णा प्रतिहता भवति तर्हि क्रोधः अभिजायते ।

भावार्थः []

[सम्पादयतु]

'ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते' - विषयाणां चिन्तनं कुर्वतः मनुष्यस्य तेषु विषयेषु आसक्तिः (रागः) सञ्जायते । आसक्तित्वात् कामना उत्पद्यते । कामनया क्रोधः उद्भवति । भवगत्परायणतायाः अभावे, भगवतः अचिन्तने च विषयाणामेव चिन्तनं भवति । यतः जीवनस्य एकस्मिन् भागे परमात्मा, अपरे भागे च संसारः अस्ति । यदा साधकः परमात्मनः आश्रयं त्यजति, तदा सः संसारम् आश्रित्य संसारस्य चिन्तनम् एव करोति । यतः संसारं विहाय अन्यः कोऽपि विषयः तस्य सम्मुखं न आयाति । एवं संसारस्य चिन्तनं कुर्वतः मनुष्यस्य तेषु विषयेषु आसक्तिः (रागः) उद्भवति । आसक्तेः फलस्वरूपं मनुष्यः तेषां विषयाणाम् अधिकाधिकं सेवनं करोति । विषयाणां चिन्तनं मानसिकं भवेत् उत शारीरिकं परन्तु तेभ्यः सुखमुत्पद्यते । तेन सुखेन विषयेषु प्रीतिर्भवति । तया प्रीत्या मनुष्यः पौनःपुन्येन विषयाणां चिन्तनं कुर्वन्नेव भवति । एवं जाते सति मनुष्यः विषयाणाम् उपभोगं कुर्यात् उत न परन्तु विषयेषु तस्य रागः तु सुदृढीभवति ।

'सङ्गात्सञ्जायते कामः' – विषयेषु रागे सति सः मनुष्यः भोगान् प्राप्तुं कामनाम् आरभते । एवं तस्य मनसि विभिन्नानां वस्तूनां, व्यक्तीनां, परिस्थितीनां च कृते भोगभावना उद्भवति ।

'कामात्क्रोधोऽभिजायते' – कामनानुसारम् अनुकूलपदार्थानां प्राप्तिः 'लोभं' जनयति । अपरत्र स्वकामनायाः पूर्तेः सम्भावनायां सत्यां कश्चन तां सम्भावनां नाशयन् अस्ति इति ज्ञाते सति क्रोधो जायते ।

कामनापूर्तेः मार्गे विक्षेपत्वात् क्रोधः स्वतः समुद्भवत्येव । जातिः, कुलम्, आश्रमः, गुणः, योग्यता इत्यादयः मयि सन्ति इत्यस्य अहङ्कारेणापि स्वयं सम्माननस्य अधिकारी इति कामना भवति । तस्यां कामनायां कयाचित् व्यक्त्या विघ्नः उत्पाद्यते चेत्, तस्यै क्रोधः जागर्ति । 'कामना' रजोगुणस्य, 'सम्मोहः' तमोगुणस्य, 'क्रोधः' तमोगुणरजोगुणयोः मध्यस्थस्य च प्रवृत्तिः अस्ति ।

यस्मिन् कस्मिन्नपि विषये क्रोधः समुद्भवति चेत्, तस्य क्रोधस्य मूले रागः अवश्यमेव भवति । नीतिविरुद्धं कार्यं कुर्वाणस्य दर्शनेन तस्मात् क्रोधः भवति चेत्, नीतौ रागः अस्ति । अपमाननं कुर्वाणस्य दर्शनेन क्रोधः भवति चेत्, सम्मानने रागः अस्ति । दोषारोपकस्य दर्शनेन क्रोधः जायते चेत्, निर्दोषतायां रागः सिद्ध्यति ।

सर्वेषाम् इष्टविषयाणां विशेषताः, आकर्षणगुणाः च भवन्ति । विषयेभ्य एव विषयेच्छा न भवति, परन्तु तेषु एषणायां सत्यां तेषां विषयाणाम् इच्छा भवति । अस्मिन् श्लोके, अग्रिमश्लोके च याः व्यक्तयः प्रत्यगात्मनः ध्यानम् अकृत्वा विषयाणाम् इच्छां कुर्वन्ति, विषयाणां विशेषतायाः ध्यानं कुर्वन्ति, तासां व्यक्तीनां पतनस्य कारणानि सन्ति ।

शाङ्करभाष्यम् []

[सम्पादयतु]

अथेदानीं पराभविष्यतः सर्वानर्थमूलमिदमुच्यते - ध्यायत इति ।

ध्यायतः  चिन्तयतः  विषयान्  शब्दादीन् विषयविशेषान् आलोचयतः  पुंसः  पुरुषस्य सङ्गः  आसक्तिः प्रीतिः  तेषु  विषयेषु  उपजायते  उत्पद्यते।  सङ्गात्  प्रीतेः संजायते  समुत्पद्यते  कामः  तृष्णा।  कामात्  कुतश्चित् प्रतिहतात्  क्रोधः अभिजायते।।

भाष्यार्थः

[सम्पादयतु]

पूर्वश्लोकोत्तरम् अधुना पतनाभिमुखिपुरुषस्य समस्तानि अनर्थकारणानि उपस्थापयति –

विषयाणां ध्यानं कुर्वतः पुरुषस्य अर्थात् शब्दादिविषयणां भेदादीनां पौनःपुन्येन आलोचकस्य तेषु विषयेषु आसक्तिः उद्भवति । आसक्त्या कामना सञ्जायते । कामनायाः अर्थात् केनचित् कारणेन विच्छिन्नेच्छायाः क्रोधः समुद्भवति ।

रामानुजभाष्यम् []

[सम्पादयतु]

एवं मयि अनिवेश्य मनः स्वयत्नगौरवेण इन्द्रियजये प्रवृत्तो विनष्टो भवति इत्याह -

अनिरस्तविषयानुरागस्य हि मयि अनिवेशतिमनस इन्द्रियाणि संयम्य अवस्थितस्य अपि अनादिपापवासनया विषयध्यानम् अवर्जनीयं स्यात्।  ध्यायतो विषयान् पुंसः  पुनरपि  सङ्गः  अतिप्रवृद्धो जायते।  सङ्गात् संजायते कामः।  कामो नाम सङ्गस्य विपाकदशा। पुरुषो यां दशाम् आपन्नो विषयान् अभुक्त्वा स्थातुं न शक्नोति स कामः।  कामात् क्रोधः अभिजायते।  कामे वर्तमाने विषये च असन्निहिते सन्निहितान् पुरुषान् प्रति एभिः अस्मदिष्टं विहतम् इति क्रोधो भवति।

भाष्यार्थः

[सम्पादयतु]

एवं मयि (परमेश्वरे) मनः अनिवेश्य यः स्वप्रयत्नबलेन इन्द्रियेषु विजयं प्राप्तुं प्रयतते, सः नश्यति इति कथयति –

येन विषयासक्तेः नाशः न कृतः, येन च मयि मनः न निवेशितं, सः सर्वं त्यक्त्वा इन्द्रियसंयमाय एव प्रयतमानः भवेच्चेदपि अनादिपाप-वासनादि कारणेन तेन विषयचिन्तनम् अनिवार्यं भवति । विषयाणां चिन्तनं कर्तुः मनुष्यस्य तेषु विषयेषु आसक्तिः अत्यधिका वर्धते । आसक्त्या कामना उत्पद्यते । आसक्तेः परिपक्वावस्था एव ''कामः'' इति । यस्यां दशायां स्थित्वा मनुष्यः विषयाणां भोगम् अकृत्वा स्थातुं न शक्नोति, सा अवस्था एव 'कामः' इति । तस्माद् कामात् क्रोधः उत्पद्यते । कामः भवेद्, ततः कामनानुसारं विषयाणां प्राप्तिः न भवेच्चेद् तस्मिन् समये समीपस्थात् जनात् क्रोधः भवति । एतैः जनैः मे अभीष्टविषयः नाशितः इति क्रोधः भवति ।

श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
तानि सर्वाणि संयम्य...
ध्यायतो विषयान्पुंसः... अग्रिमः
क्रोधाद्भवति सम्मोहः...
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः

[सम्पादयतु]

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

उद्धरणम्

[सम्पादयतु]
  1. સાધકસંજીવની, ગીતાપ્રેસ
  2. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  3. रामानुजभाष्यम्

अधिकवाचनाय

[सम्पादयतु]