तं तथा कृपयाविष्टम्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
तं तथा कृपयाविष्टम्...


अर्जुनकृष्णयोः संवादस्य आरम्भः
Avatars of Vishnu.jpg
श्लोकसङ्ख्या २/१
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः एवमुक्त्वार्जुनः सङ्ख्ये...
अग्रिमश्लोकः कुतस्त्वा कश्मलमिदं...

तं तथा कृपयाविष्टम् () इत्यनेन श्लोकेन सञ्जयः धृतराष्ट्रं रणाङ्गणे कृष्णार्जुनयोः संवादं श्रावयति । पूर्वस्मिन् श्लोके (अर्जुनविषादयोगः) अर्जुनः परिवारस्य जनान् मारयितुं नेच्छामि इत्युक्त्वा गाण्डिवं त्यक्त्वा रथस्य पृष्ठभागे उपाविशत् । ततः मधुसूदनः श्रीकृष्णः विषादमग्नम् अर्जुनं यत्किमपि कथयति, तत् सञ्जयः अत्र धृतराष्ट्रं श्रावयन् अस्ति । श्लोकं तु सञ्जयः वदति परन्तु सः कथयति यत्, "श्रीकृष्णः अर्जुनं वदति यत्" इति । अतः द्वितीयश्लोकात् श्रीकृष्णार्जुनयोः संवादः आरभते । अत्र सञ्जयः कथयति यत्, एतादृशेन विशादेन ग्रस्तः सः अर्जुनः विलपन् अस्ति । विलपरेतोः अश्रुपूर्णयोः नेत्रयोः दर्शनशक्तिः अपि अवरुद्धा अस्ति । तम् अर्जुनं प्रति भगवान् मधुसूदनः एवम् अवदत् इति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः

सञ्जय उवाच

तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ १ ॥

पदच्छेदः[सम्पादयतु]

तम्, तथा, कृपया, आविष्टम्, अश्रुपूर्णाकुलेक्षणम् । विषीदन्तम्, इदम्, वाक्यम्, उवाच, मधुसूदनः ॥

अन्वयः[सम्पादयतु]

मधुसूदनः तथा कृपया आविष्टम् अश्रुपूर्णाकुलेक्षणं विषीदन्तं तम् इदं वाक्यम् उवाच ।

शब्दार्थः[सम्पादयतु]

अन्वयः विवरणम् सरलसंस्कृतम्
मधुसूदनः अ.पुं.प्र.एक. श्रीकृष्णः
तथा अव्ययम् तेन प्रकारेण
कृपया आ.स्त्री.तृ.एक. दयया
आविष्टम् अ.नपुं.द्वि.एक. आक्रान्तम्
अश्रुपूर्णाकुलेक्षणम् अ.नपुं.द्वि.एक. बाष्पपूर्णनेत्रम्
विषीदन्तम् विषीदत्-त.पुं.द्वि.एक. दुःखितम्
तम् तद्-द.सर्व.पुं.द्वि.एक. तम् (अर्जुनम् )
इदम् इदम्-म.सर्व.नपुं.द्वि.एक. एतत्
वाक्यम् अ.नपुं.द्वि.एक. वचनम्
उवाच √वच् परिभाषणे-पर.कर्मणि, लिट्.प्रपु.एक. अवदत् ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. कृपयाविष्टम् = कृपया + आविष्टम् - सवर्णदीर्घसन्धिः

समासः[सम्पादयतु]

  1. अश्रुपूर्णाकुलेक्षणम् = अश्रुभिः पूर्णे अश्रुपूर्णे – तृतीयातत्पुरुषः ।
  2. अश्रुपूर्णे च आकुले च = अश्रुपूर्णाकुले – कर्मधारयः

कृदन्तः[सम्पादयतु]

  1. विषीदन्तम् = वि + सद् + शतृ (कर्तरि) तम् ।
  2. आविष्टम् = आ + विश् + क्त (कर्तरि) तम् ।
  3. मधुसूदनः = मधुं (तन्नामकं) दैत्यं सूदयति इति मधुसूदनः[१]
  4. मधु + सूद् + णिच् (स्वार्थे) + ल्यु (अन)

अर्थः[सम्पादयतु]

भगवान् श्रीकृष्णः अर्जुनस्य शोचनीयाम् अवस्थां दृष्टवान् । ततः दयया आक्रान्तं शोकं च अनुभवन्तं तं सः एवम् उक्तवान् ।

भावार्थः [२][सम्पादयतु]

'तं तथा कृपयाविष्टम्' – अर्जुनः रथे सारथित्वेन स्थितं श्रीकृष्णम् आज्ञापयति यत्, "हे अच्युत ! रथं मे उभयोः सेनयोः मध्ये स्थापय, येनाहं विरोधपक्षस्य के योद्धारः मया सह योत्स्यन्ति इति द्रष्टुं शक्नोमि" इति । अर्थात् मत्सदृशेन शूरवीरेण सह के योद्धुं साहसं कुर्वन्तः सन्ति ? स्वकालं (मां) सम्मुखं दृष्ट्वापि के योद्धुं तत्पराः सन्ति ? एतादृशेन उत्साहेन परिपूर्णः अर्जुनः स्वपरिवारस्य जनानां मृत्योः आशङ्कायां मोहग्रसितः अभवत् । मोहग्रसितस्य शोकातुरस्य तस्य शरीरं दुर्बलम् अभवत्, तस्य मुखं शुष्कं जातं, शरीरे कम्पनम् उद्भूतं, हस्तात् धनुः अस्रंसत च । अत्र "न दैन्यं न पलायनम्" इति स्वभावयुक्तः अर्जुनः कापुरुषत्वं प्रदर्श्य व्याकुलतया सह रथस्य पृष्ठभागे अवस्थितः इति आश्चर्यभावः सञ्जयेन बहुधा रक्षितः ।

पूर्वमपि अर्जुनस्य भावान् प्रत्यक्षीकुर्वन् सञ्जयः अर्जुनस्य कृते "कृपया परयाविष्ट" इत्यस्य पदस्य उपयोगम् अकरोत् । अत्र "अश्रूपूर्णकुलेक्षणम्" इत्यनेन पदेन महतः शूरवीरस्य अर्जुनस्य मनसि अपि कौटुम्बिकः मोहः समुद्भूतः इति प्रदर्शितम् । सः मोहः अपि सामान्यः न । तेन मोहेन ग्रस्तस्य तस्य शूरवीरस्य नेत्रयोः अश्रूणि निर्गतानि । अश्रूपूर्णनेत्राभ्यां सः किमपि स्पष्टतया द्रष्टुम् असमर्थः अभवत् ।

"विषीदन्तमिदं वाक्यमुवाच मधुसूदनः" – एवं कापुरुषतायाः कारणेन शोकमग्नम् अर्जुनं मधुसूदनः एतादृशानि वचनानि अकथयत् । अत्र "विषीदन्तमुवाच" इत्युक्ते एव "इदं वाक्यम्" इत्यस्यार्थः अन्तर्भवति । यतः "उवाच" इत्यनेन क्रियापदेन एव "वाक्यम्" इत्यस्य अवबोधः जायते एव । तर्हि अत्र "वाक्यम्" इत्यस्य पदस्य भिन्नतया उपयोगस्य किं प्रयोजनम् ? अस्य प्रश्नस्य उत्तरमस्ति यत्, भगवतः वचनानि अद्भुतानि सन्ति । अर्जुनस्य मनसि धर्मस्य आवरणं धृत्वैव कर्तव्यत्यागरूपी दोषः समुद्भूतः अस्ति । तस्मिन् दोषे भगवतः एतानि वचनानि साक्षादाघातं करिष्यन्ति । भगवतः वचनानि अर्जुनस्य मनसि स्वदोषस्य अनुभूतिं कारयित्वा स्वकल्याणस्य जिज्ञासाम् उद्भावयिष्यन्ति । भगवतः गभीरवचनानि श्रुत्वैव अग्रे अर्जुनः शिष्यत्वेन श्रीकृष्णस्य सान्निध्यं स्वीकरोति [३]

सञ्जयः अस्मिन् श्लोके श्रीकृष्णस्य कृते "मधुसूदनः" इति पदम् उपायुङ्क्त । तस्य तात्पर्यम् अस्ति यत्, भगवान् श्रीकृष्णः "मधु"-आख्यस्य राक्षसस्य हन्ता अस्ति । अर्थात् दुष्टस्वभावयुक्तानां संहारकः अस्ति । अतः सः दुष्टस्वभावयुक्तानां दुर्योधनादीनां नाशं कारयिष्यति एव इति ततात्पर्यम् ।


श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
तं तथा कृपयाविष्टम्... अग्रिमः
कुतस्त्वा कश्मलमिदं...
Orange animated right arrow.gif
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. सूदनं मधुदैत्यस्य यस्मात् स मधुसूदनः – ब्रह्मवैवर्तपुराणम् - ११०
  2. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  3. गीता, अ. २, श्लो. ७

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तं_तथा_कृपयाविष्टम्...&oldid=403513" इत्यस्माद् प्रतिप्राप्तम्