एषा तेऽभिहिता साङ्ख्ये...
एषा तेऽभिहिता साङ्ख्ये... समतायाः महिमा | |
---|---|
श्लोकसङ्ख्या | २/३९ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | सुखदुःखे समे कृत्वा... |
अग्रिमश्लोकः | नेहाभिक्रमनाशोऽस्ति... |
एषा तेऽभिहिता साङ्ख्ये ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः समतायाः महिमानं वदति । पूर्वस्मिन् श्लोके भगवान् यस्याः समतायाः उपस्थापनम् अकरोत्, तस्याः समतायाः महिमानम् एतस्मिन् श्लोके, अग्रिमे श्लोके च करोति । सः कथयति यत्, हे पार्थ ! एषा समबुद्धिः साङ्ख्ययोग्या उक्ता, अधुना तु तां कर्मयोगानुगुणं शृणु । कर्मयोगसन्दर्भे समबुद्धियुक्तः त्वं कर्मबन्धनस्य त्यागं करिष्यसि इति ।
श्लोकः
[सम्पादयतु]- एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु ।
- बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ ३९ ॥
पदच्छेदः
[सम्पादयतु]एषा, ते, अभिहिता, साङ्ख्ये, बुद्धिः, योगे, तु, इमाम्, शृणु । बुद्ध्या, युक्तः, यया, पार्थ, कर्मबन्धम्, प्रहास्यसि ॥
अन्वयः
[सम्पादयतु]पार्थ ! एषा बुद्धिः ते साङ्ख्ये अभिहिता । योगे इमां शृणु, यया बुद्ध्या युक्तः कर्मबन्धं प्रहास्यसि ।
शब्दार्थः
[सम्पादयतु]अन्वयः | विवरणम् | सरलसंस्कृतम् |
पार्थ | अ.पुं.स्मबो.एक. | अर्जुन ! |
एषा | एतत्-त,स्त्री.प्र.एक. | इयम् |
बुद्धिः | इ.स्त्री.प्र.एक. | मतिः |
ते | युष्मद्-द.सर्व.पुं.ष.एक. | भवतः |
साङ्ख्ये | अ.नपुं.स.एक. | ब्रह्मरूपे तत्त्वे |
अभिहिता | आ.स्त्री.प्र.एक. | निरूपिता |
(अस्याः) योगे | अ.पुं.स.एक. | अस्याः कर्मयोगे तु |
इमाम् | इदम्-म.सर्व.स्त्री.द्वि.एक. | एतां बुद्धिम् |
शृणु | √शृ श्रवणे-पर.कर्तरि, लोट्.मपु.एक. | आकर्णय |
यया | यत्-त.सर्व.स्त्री.तृ.एक. | यया |
बुद्ध्या | इ.स्त्री.तृ.एक. | धिया |
युक्तः | अ.पुं.प्र.एक. | सहितः |
कर्मबन्धम् | अ.पुंं.द्वि.एक. | कर्मरूपबन्धनम् |
प्रहास्यसि | प्र+ओहाक् त्यागे-पर.कर्तरि, लृट्.मपु.एक. | त्यक्ष्यसि । |
व्याकरणम्
[सम्पादयतु]सन्धिः
[सम्पादयतु]- तेऽभिहिता = ते + अभिहिता - पूर्वरूपसन्धिः
- बुद्धिर्योगे = बुद्धिः + योगे – विसर्गसन्धिः (रेफः)
- त्विमाम् = तु + इमाम् – यण्सन्धिः
- युक्तो यया = युक्तः + यया – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः
समासः
[सम्पादयतु]- कर्मबन्धनम् = कर्म एव बन्धः, तम् - कर्मधारयः
कृदन्तः
[सम्पादयतु]- अभिहिता = अभि + धा + क्त (कर्मणि)
- युक्तः = युजिर् + क्त (कर्तरि)
अर्थः
[सम्पादयतु]हे अर्जुन ! परमार्थवस्तुनि विषये एषः मार्गः तुभ्यम् उक्तः अस्ति । तत्प्राप्त्युपाये योगे तु ऊर्ध्वम् उपायं सूचयिष्यामि । यदि तां बुद्धिम् आश्रयसे तर्हि कर्मबन्धात् मुक्तो भवितुम् अर्हसि ।
'एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु' – अत्र 'तु' इत्यस्य पदस्य सम्बन्धविद्च्छेदाय उपयोगः कृतः । अर्थाद्, पूर्वं साङ्ख्ययोगस्य चर्चायाम् एषः विषयः तु उक्तः एव । अधुना कर्मयोगानुगुणं शृणु । अत्र 'एषा' इत्यस्य पदस्य पूर्वश्लोके वर्णितां समबुद्धिं प्रति लक्ष्यम् । तस्याः समबुद्धेः वर्णनं पूर्वं साङ्ख्ययोगे [२] कृतमस्ति । देहदेहिनोः विवेके सति समतायां सत्यां स्वतःसिद्धायाः आत्मस्थितेः अनुभवः भवति । किञ्च देहे रागः एव विषमतां जनयति । एतादृशं वर्णनं साङ्ख्ययोगवर्णनावसरे तु कृतम् अस्ति । अधुना तामेव समबुद्धिं कर्मयोगानुगुणं शृणु । 'इमाम्' इत्यस्य पदस्य उपयोगः किमर्थं चेद्, इतः परं एतस्याः समबुद्धेः कर्मयोगसन्दर्भे वर्णनं भविष्यति । सा समबुद्धिः कर्मयोगद्वारा कथं सुलभ्या ? तस्याः स्वरूपं किम् ? तस्याः महत्त्वं किम् इत्यादिषु विषयेषु भगवान् अर्जुनं श्रोतुम् आज्ञापयति ।
'बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि' – अर्जुनस्य मनसि युद्धे कृते पापं भविष्यति इति भयम् आसीत् [३] । परन्तु भगवतः कथनानुसारं कर्मसु विषमबुद्धिः (रागद्वेषौ) एव पापकारणं भवति इति । समबुद्धित्वाद् पापं न कदापि भवति । यथा अखिले संसारे पापपुण्ययोः अनेकाः क्रियाः भवन्ति, परन्तु तासां क्रियाणां प्रभावः अस्मासु न भवति । किञ्च तत्र अस्माकं समबुद्धिः अस्ति । अर्थाद् तत्र पक्षपातः, आग्रहः, रागद्वेषौ च न सन्ति । तथैव समबुद्धियुक्तो भविष्यसि चेद्, तुभ्यमपि एतानि कर्माणि बन्धनकारकाणि न भविष्यन्ति । कर्मयोगिनः लोकसङ्ग्रहार्थं सर्वाणि कर्माणि कुर्वन्ति [४] । लोकसङ्ग्रहाय कर्मणि कृते सति अर्थात् निःस्वार्थभावेन लोकमर्यादायै कर्म क्रियते चेद्, समताप्राप्तिः सुगमा भवति । समताप्राप्त्युत्तरं कर्मयोगी कर्मबन्धनेभ्यः सुगमतापूर्वकं मुक्तः भवति ।
द्वितीयाध्याये येषां विषयाणाम् उपस्थापनम् अभवत्, तेषु किञ्चित् क्रमभङ्गः दृश्यते इति केचन वदन्ति । ते उदाहरणं यच्छति यद्, 'एषा तेऽभिहता साङ्ख्ये' इत्याख्यः एषः श्लोकः एकत्रिंशो अभविष्यच्चेद् क्रमभङ्गः नाभविष्यत् । एकादशात् श्लोकाद् त्रिंशश्लोकपर्यन्तं साङ्ख्ययोगानुगुणं निष्ठा (समता) उक्ता । ततः कर्मयोगानुगुणं निष्ठायाः वर्णनम् उचितं भवेत् । एवम् एकत्रिंशाद् अष्टत्रिंशपर्यन्तं ये श्लोकाः सन्ति, ते विषयेन सह असङ्गताः इति प्रतीयते । परन्तु तथा नास्ति । किञ्च कर्मयोगानुगुणं समतायाः ज्ञानं प्राप्तव्यं चेत्, कर्तव्याकर्तव्ययोः ज्ञानम् आवश्यकम् । अर्जुनाय युद्धं कर्तव्यम् आसीत्, युद्धत्यागः अकर्तव्यश्च । अतः भगवान् कर्तव्याकर्तव्ययोः वर्णनं कुर्वन् एकत्रिंशाद् अष्टत्रिंशपर्यन्तान् श्लोकान् कर्मयोगसन्दर्भे समतावर्णनात् प्राग् अवदत् । तात्पर्यम् अस्ति यद्, एकादशात् त्रिंशं श्लोकं यावत् वर्णिते विषये किमपि परिवर्तनं न शक्यते । सदसतोः ज्ञानेन समतां प्रतिपादयता तयोः तत्त्वयोः वास्तविकं स्वरूपं वर्णितम् । ततः एकत्रिंशाद् अष्टत्रिंशं यावत् ये श्लोकाः सन्ति, तेषु कर्तव्याकर्तव्ययोः चर्चां कृत्वा एतस्माच्छ्लोकात् कर्म कुर्वन् सिद्धौ, असिद्धौ, फलप्राप्तौ, फलाप्राप्तौ च समतायाः वर्णनम् आरभते ।
शोकमोहापनयनाय लौकिको न्यायः स्वधर्ममपि चावेक्ष्य इत्याद्यैः श्लोकैरुक्तः न तु तात्पर्येण। परमार्थदर्शनमिह प्रकृतम्। तच्चोक्तमुपसंह्रियते एषा तेऽभिहिता (गीता 2.39) इति शास्त्रविषयविभागप्रदर्शनाय। इह हि प्रदर्शिते पुनः शास्त्रविषयविभागे उपरिष्टात् ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् इति निष्ठाद्वयविषयं शास्त्रं सुखं प्रवर्तिष्यते श्रोतारश्च विषयविभागेन सुखं ग्रहीष्यन्ति इत्यत आह -
एषा ते तुभ्यम् अभिहिता उक्ता सांख्ये परमार्थवस्तुविवेकविषये बुद्धिः ज्ञानं साक्षात् शोकमोहादिसंसारहेतुदोषनिवृत्तिकारणम्। योगे तु तत्प्राप्त्युपाये निःसङ्गतया द्वन्द्वप्रहाणपूर्वकम् ईश्वराराधनार्थे कर्मयोगे कर्मानुष्ठाने समाधियोगे च इमाम् अनन्तरमेवोच्यमानां बुद्धिं शृणु । तां च बुद्धिं स्तौति प्ररोचनार्थम् बुद्धया यया योगविषयया युक्तः हे पार्थ कर्मबन्धं कर्मैव धर्माधर्माख्यो बन्धः कर्मबन्धः तं प्रहास्यसि ईश्वरप्रसादनिमित्तज्ञानप्राप्त्यैव इत्यभिप्रायः।।
भाष्यार्थः
[सम्पादयतु]'स्वधर्ममपि चावेक्ष्य' – इत्यादिभिः श्लोकैः शोकः, मोहश्च दूरीकर्तुं लौकिकन्यायः उक्तः, परन्तु पारमार्थिकदृष्टा नोक्तः । अत्र परमार्थदर्शनस्य प्रकरणत्वाद् अधुना शास्त्रविषयस्य विभागं प्रदर्शयितुम् 'एषा तेऽभिहिता' इत्यनेन श्लोकेन तस्य परमार्थदर्शनस्य उपसंहारं करोति । यतो हि अत्र शास्त्रस्य विषयस्य विभागे प्रदर्शिते सति अग्रे 'ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्' इत्यादिना या द्विधा निष्ठोपस्थापकं शास्त्रम् अस्ति, तद् सुखपूर्वकम् अवगम्यं भविष्यति । श्रोतारः अपि विशेषविभागपूर्वकम् अनायासेन तां ग्रहीतुं शक्ष्यन्ति । अतः वदति –
अहं साङ्ख्ययोगसन्दर्भे अर्थात् परमार्थवस्तूनाम् अभिज्ञाविषये बुद्धिम् अर्थात् ज्ञानम् उक्तवान् । तज्ज्ञानं ये संसारहेतवः अर्थात् शोक-मोहादयः दोषाः सन्ति, तेषां निवृत्तेः साक्षात्कारणम् अस्ति । तस्य ज्ञानस्य प्राप्तेः उपायत्वेन कर्मयोगसन्दर्भे अर्थात् आसक्तिरहिते सति सुखदुःखादीनां द्वन्द्वानां त्यागपूर्वकम् ईश्वराधनाय कृतस्य कर्मणः कर्मयोगसन्दर्भे, समाधियोगसन्दर्भे च तां बुद्धिं (ज्ञानं) वदामि इति । तां बुद्धिं शृणु – रुच्युत्पादनाय तस्याः बुद्धेः स्तुतिः क्रियते – हे अर्जुन ! ईश्वरकृपया प्राप्तेन ज्ञानेन योगविषयकबुद्ध्या युक्तः त्वं धर्माधर्मनामकं कर्मरूपं बन्धनं नंक्ष्यसि इत्यभिप्रायः ।
एवम् आत्मयाथात्म्यज्ञानम् उपदिश्य तत्पूर्वकं मोक्षसाधनभूतं कर्मयोगं वक्तुम् आरभते -
संख्या बुद्धिः बुद्ध्यावधारणीयम् आत्मतत्त्वं सांख्यम्। ज्ञातव्ये आत्मतत्त्वे तज्ज्ञानाय या बुद्धिः अभिधेया न त्वेवाहम् (गीता 2।12) इत्यारभ्यतस्मात् सर्वाणि भूतानि (गीता 2।30) इत्यन्तेन सा एषा अभिहिता।
आत्मज्ञानपूर्वकमोक्षसाधनभूतकर्मानुष्ठाने यो बुद्धियोगो वक्तव्यः स इह योगशब्देन उच्यतेदूरेण ह्यवरं कर्म बुद्धियोगात् (गीता 2।49) इति हि वक्ष्यते। तत्र योगे या बुद्धिः वक्तव्या ताम् इमाम् अभिधीयमानां श्रृणु यया बुद्ध्या युक्तः कर्मबन्धं प्रहास्यसि। कर्मणा बन्धः संसारबन्ध इत्यर्थः।
भाष्यार्थः
[सम्पादयतु]बुद्धेः अपरं नाम सङ्ख्या अस्ति, अतः बुद्धेः धारकस्य आत्मतत्त्वस्य नाम साङ्ख्यम् इति । ज्ञातव्यस्य आत्मतत्त्वस्य विषये ज्ञातुं या बुद्धिः आवश्यकी, तस्याः विषये न त्वेवाहम् इत्यस्माद् आरभ्य 'तस्मात् सर्वाणि भूतानि' इत्येतं श्लोकपर्यन्तम् उक्तम् अस्ति । इतः आत्मज्ञानसहिताय मोक्षसाधनभूताय कर्मानुष्ठानाय यः बुद्धियोगः उच्यमानः अस्ति, सः अत्र योगः इत्यनेन शब्देन उच्यते । यतो हि अग्रे गत्वा वक्ष्यते यद्, 'दूरेण ह्यवरं कर्म बुद्धियोगाद् धनञ्जय ' तस्मिन् योगविषये या बुद्धिः वक्तव्या अस्ति, यया बुद्ध्या युक्तः सन् त्वं कर्मबन्धनस्य नाशं कर्तुं शक्ष्यसि, तां बुद्धिं त्वं शृणु । कर्मभिः जातानां बन्धनानां नाम एव 'कर्मबन्ध' इति । अतः कर्मबन्धनस्य अर्थः संसारबन्धनम् अस्ति ।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये एषा तेऽभिहिता साङ्ख्ये... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]- ↑ श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
- ↑ गीता, अ. २, श्लो. ११-३०
- ↑ गीता, अ. १, श्लो. ३६, ४५
- ↑ लोकसङ्ग्रमेवापि सम्पश्यन्कृतमर्हसि, गीता, अ. ३, श्लो. २०
- ↑ श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
- ↑ रामानुजभाष्यम्
अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च