तस्माद्यस्य महाबाहो...
तस्माद्यस्य महाबाहो... इन्द्रियनिगृहीतस्य बुद्धिः प्रतिष्ठिता | |
---|---|
श्लोकसङ्ख्या | २/६८ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | इन्द्रियाणां हि चरतां... |
अग्रिमश्लोकः | या निशा सर्वभूतानां... |
तस्माद्यस्य महाबाहो ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः युक्तपुरुषस्य बुद्धिस्थिरतां वर्णयति । पूर्वस्मिन् श्लोके भगवान् अयुक्तस्य मनुष्यस्य बुद्धिः कथम् अस्थिरा भवति इत्यस्य वर्णनम् अकरोत् । अत्र युक्तस्य पुरुषस्य बुद्धिः कथं स्थिरा भवति इति कथयति ।
श्लोकः
[सम्पादयतु]- तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।
- इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ६८ ॥
पदच्छेदः
[सम्पादयतु]तस्मात्, यस्य, महाबाहो, निगृहीतानि, सर्वशः । इन्द्रियाणि, इन्द्रियार्थेभ्यः, तस्य, प्रज्ञा, प्रतिष्ठिता ॥
अन्वयः
[सम्पादयतु]महाबाहो ! तस्मात् यस्य इन्द्रियाणि इन्द्रियार्थेभ्यः सर्वशः निगृहीतानि तस्य प्रज्ञा प्रतिष्ठिता (भवति) ।
शब्दार्थः
[सम्पादयतु]अन्वयः विवरणम् सरलसंस्कृतम् महाबाहो उ.पुं.सम्बो.एक. हे अर्जुन ! तस्मात् तद्-द.सर्व.नपुं.पं.एक. ततः यस्य यद्-द.सर्व.पुं.ष.एक. यस्य पुरुषस्य इन्द्रियाणि अ.नपुं.प्र.बहु. चक्षुरादीनि इन्द्रियार्थेभ्यः अ.पुं.पं.बहु. रूपादिविषयेभ्यः सर्वशः अव्ययम् सर्वथा निगृहीतानि अ.नपुं.प्र.बहु. नियन्त्रितानि तस्य तद्-द.सर्व.पुं.ष.एक. तस्य पुरुषस्य प्रज्ञा आ.स्त्री.प्र.एक. बुद्धिः प्रतिष्ठिता आ.स्त्री.प्र.एक. अतिस्थिरा ।
व्याकरणम्
[सम्पादयतु]सन्धिः
[सम्पादयतु]- तस्माद्यस्य = तस्मात् + यस्य – जश्त्वसन्धिः
- इन्द्रियाणीन्द्रियार्थेभ्यः = इन्द्रियाणि + इन्द्रियार्थेभ्यः - सवर्णदीर्घसन्धिः
- इन्द्रियार्थेभ्यस्तस्य = इन्द्रियार्थेभ्यः + तस्य – विसर्गसन्धिः (सकारः)
- युक्तो यया = युक्तः + यया – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः
कृदन्तः
[सम्पादयतु]- निगृहीतानि = नि + ग्रह् + क्त (कर्मणि)
अर्थः
[सम्पादयतु]हे महाबाहो अर्जुन ! तस्मात् त्वं जानीहि यत् यस्य इन्द्रियाणि रूपरसादिभ्यः इन्द्रियार्थेभ्यः सर्वशः निगृहीतानि भवन्ति तस्य प्रज्ञा प्रतिष्ठिता भवति ।
अतः हे महाबाहो ! यस्य मनुष्यस्य इन्द्रियाणि इन्द्रियविषयेभ्यः सर्वथा निगृहीतानि (वशीकृतानि) सन्ति, तस्य बुद्धिः स्थिरा अस्ति । अत्र इन्द्रियाणां वशीकरणस्य यः विषयः षष्टतमात् श्लोकात् आरब्धः आसीत्, तस्य विषयस्य "तस्मात्" इत्यनेन शब्देन उपसंहारं करोति । एवम् उपसंहारं कुर्वन् भगवान् वदति यत्, यस्य मनः, इन्द्रियाणि च संसारात् आसक्तानि न सन्ति, तस्य बुद्धिः प्रतिष्ठिता अस्ति इति ।
अत्र 'सर्वशः' इत्यस्य शब्दस्य तात्पर्यम् अस्ति यत्, सांसारिकप्रवृत्तिषु उत एकान्तचिन्तने कस्याञ्चित् अवस्थायाम् अपि तस्य मनुष्यस्य इन्दियाणि भोगेषु उत विषयेषु प्रवृत्तानि न भवन्ति । व्यवहारकाले अनेके विषयाः तस्य सम्मुखम् उपस्थिताः भवन्ति, परन्तु सः विचलितः न भवति । तस्य मनः अपि इन्द्रियैः सह युक्तं सत् बुद्धिं विचलितां कर्तुं न प्रभवति । यथा पर्वतं कोऽपि चालयितुं न सम्भवति, तथैव तस्य बुद्धिः दृढा भवति । तां बुद्धिं कोऽपि विचालयतुं न शक्नोति । किञ्च तस्य मनसि विषयाणां महत्त्वं नास्ति ।
'निगृहीतानि' – इत्यस्य तात्पर्यम् अस्ति यत्, इन्द्रियाणि विषयेभ्यः पूर्णतया विमुखीनि भवन्ति । अर्थात् विषयेषु इन्द्रियाणां किञ्चिदपि रागः, आसक्तिः, आकर्षणं च नावशिष्यते । यथा सर्पस्य दन्ते निष्काषिते सति तस्मिन् विषं न भवति, तथैव इन्द्रियाणां रागद्वेषेभ्यः मुक्तिः विषयुक्तदन्तेभ्यः मुक्तिवत् अस्ति । यथा विषदन्ते गते सति यद्यपि सर्पः दंशति, तथापि तस्य प्रभावः न भवति, तथैव इन्द्रियाणां रागद्वेषरहिते सति साधकस्य पतनं न भवति ।
एतस्य सम्पूर्णस्य श्लोकस्य तात्पर्यम् अस्ति यत्, साधकेन दृढतया स्वपरमात्मप्राप्तेः लक्ष्यं प्राप्तुं सङ्कल्पः करणीयः । भोगः, सङ्ग्रहः च न मे लक्ष्यम् इति तेन साधकेन सावधानतया चिन्तनीयम् । एवं यदि सावधानतया सङ्कल्पं नैरन्तर्येण पालयति, तर्हि तस्य साधकस्य बुद्धिः स्थिरा भवति ।
यततो हि इत्युपन्यस्तस्यार्थस्य अनेकधा उपपत्तिमुक्त्वा तं चार्थमुपपाद्य उपसंहरति -
इन्द्रियाणां प्रवृत्तौ दोष उपपादितो यस्मात् तस्मात् यस्य यतेः हे महाबाहो निगृहीतानि सर्वशः सर्वप्रकारैः मानसादिभेदैः इन्द्रियाणि इन्द्रियार्थेभ्यः शब्दादिभ्यः तस्य प्रज्ञा प्रतिष्ठिता ।।
भाष्यार्थः
[सम्पादयतु]'यततो ह्यपि' इत्यनेन श्लोकेन प्रतिपादितस्य अर्थस्य अनेकधा उपपत्तिं प्रदर्श्य तम् अभिप्रायं साधयितुं अत्र उपसंहारं करोति –
यतः इन्द्रियाणां प्रवृत्तौ दोषः सिद्धः अस्ति, अतः हे महाबाहो ! यस्य साधकस्य इन्द्रियाणि विषयेभ्यः सर्वथा अर्थात् मानसिकादिभेदेभ्यः निगृहीतानि सन्ति, तस्य बुद्धिः प्रतिष्ठिता अस्ति ।
तस्माद् उक्तेन प्रकारेण शुभाश्रये मयि निविष्टमनसो यस्य इन्द्रियाणि इन्द्रियार्थेभ्यः सर्वशो निगृहीतानि तस्य एव आत्मनि प्रज्ञा प्रतिष्ठिता भवति।
भाष्यार्थः
[सम्पादयतु]अत एव पूर्वोक्तेन विधिना शुभाश्रयरूपिणि मयि (परमेश्वरे) सँल्लग्नमनस्कस्य यस्य पुरुषस्य इन्द्रियाणि इन्द्रियविषयेभ्यः सर्वथा निगृहीतानि सन्ति, तस्य बुद्धिः आत्मनि स्थिरा भवति ।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये तस्माद्यस्य महाबाहो... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]- ↑ साधकसंजीवनी, स्वामी रामसुखः, गीताप्रेस
- ↑ श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
- ↑ रामानुजभाष्यम्
अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च