हतो वा प्राप्स्यसि स्वर्गं...
हतो वा प्राप्स्यसि स्वर्गं... स्वधर्मे जयः उत पराजयः लाभकरः | |
---|---|
श्लोकसङ्ख्या | २/३७ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | अवाच्यवादांश्च... |
अग्रिमश्लोकः | सुखदुःखे समे कृत्वा... |
हतो वा प्राप्स्यसि स्वर्गम् ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः स्वधर्मे जयः उत पराजयः लाभकरः भवति इति बोधयति । पूर्वस्मिन् श्लोके युद्धोपरामे सति शत्रवः किं करिष्यन्ति इति उक्त्वा अत्र युद्धे पराजयः उत जयः भवति, परन्तु ते लाभः अस्ति इति वदति । सः कथयति यद्, यदि त्वं युद्धे हतः, तर्हि स्वर्गं प्राप्स्यसि । यदि त्वं युद्धे विजितः, तर्ह्यपि राज्योपभोगं करिष्यसि । अतः हे कुन्तीनन्दन ! त्वं युद्धस्य निश्चयं कृत्वा उत्तिष्ठ इति ।
श्लोकः
[सम्पादयतु]- हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
- तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ ३७ ॥
पदच्छेदः
[सम्पादयतु]हतः, वा, प्राप्स्यसि, स्वर्गम्, जित्वा, वा, भोक्ष्यसे, महीम् । तस्मात्, उत्तिष्ठ, कौन्तेय, युद्धाय कृतनिश्चयः ॥
अन्वयः
[सम्पादयतु]कौन्तेय ! हतः वा स्वर्गं प्राप्स्यसि । जित्वा वा (स्थितः) महीं भोक्ष्यसे । तस्मात् युद्धाय कृतनिश्चयः उत्तिष्ठ ।
शब्दार्थः
[सम्पादयतु]अन्वयः | विवरणम् | सरलसंस्कृतम् |
कौन्तेय | अ.पुं.सम्बो.एक. | अर्जुन ! |
हतः | अ.पुं.प्र.एक. | मारितः वा |
वा | अव्ययम् | |
स्वर्गम् | अ.नपुं.द्वि.एक. | स्वर्गलोकम् |
प्राप्स्यसि | प्र+आप्लृ व्याप्तौ-पर.कर्तरि, लृट्.मपु.एक. | लप्स्यसे |
जित्वा | क्त्वान्तम् अव्ययम् | पराजित्य |
वा | अव्ययम् | वा (स्थितः) |
महीम् | ई.स्त्री.द्वि.एक. | भूमिम् |
भोक्ष्यसे | √भुज पालनाभ्यव्यवहारयोः-आत्म.कर्तरि, लृट्.मपु.एक. | अनुभविष्यसि |
तस्मात् | तद्-द.सर्व.पुं.पं.एक. | अतः |
युद्धाय | अ.नपुं.च.एक. | योद्धुम् |
कृतनिश्चयः | अ.पुं.प्र.एक. | निश्चयं कृत्वा |
उत्तिष्ठ | उद+√स्था अवस्थाने-पर.कर्तरि, लोट्.मपु.एक. | सन्नद्धो भव । |
व्याकरणम्
[सम्पादयतु]सन्धिः
[सम्पादयतु]- हतो वा = हेतः वा – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः
- तस्मादुत्तिष्ठ = तस्मात् + उत्तिष्ठ – जश्त्वसन्धिः
समासः
[सम्पादयतु]- कृतनिश्चयः = कृतः निश्चयः येन, सः – बहुव्रीहिः ।
कृदन्तः
[सम्पादयतु]- जित्वा = जि + क्त्वा
अर्थः
[सम्पादयतु]हे कुन्तीपुत्र ! युद्धे त्वं यदि म्रियसे तर्हि चिन्ता न कर्तव्या । यतः तेन त्वं स्वर्गं प्राप्स्यसि । अथ जयं प्राप्स्यसि तदा तु भूम्याः आधिपत्यं तव भविष्यति । उभयथापि तव श्रेयः एव भविष्यति । तस्मात् युद्धं करिष्यामि एव इति निश्चयं कृत्वा तदर्थं सन्नद्धो भव ।
'हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्' – पुरा अर्जुनः अवदत् यद्, वयं युद्धे जेष्यामः उत मरिष्यामः इति [२] । अर्जुनस्य तस्य सन्देहस्य प्रत्युत्तरं यच्छन् भगवान् अत्र युद्धस्य लाभं वदति । सः कथयति यद्, यदि युद्धे कर्णादिभिः त्वं मरिष्यसि, तर्हि त्वं स्वर्गं गमिष्यसि । यदि युद्धे त्वं जेष्यसि, तर्हि राज्यम् उपभोक्ष्यते । एवम् उभयतः लाभः अस्ति । तात्पर्यम् अस्ति यद्, युद्धे कृते उभयतः तव लाभः अस्ति, परन्तु यद्धे अकृते सर्वत्र ते हानिः । अतः त्वया युद्धं करणीयम् इति ।
'तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः' – अस्याध्यायस्य आरम्भे भगवान् अर्जुनाय युद्धं कर्तुम् आज्ञापयत् [३] । परन्तु अर्जुनस्य युद्धोपरामस्य विचारः अस्ति । अतः अर्जुनस्य मनसि सन्देहः उद्भूतः यद्, युद्धं योग्यम् उत न इति । अतः अत्र भगवान् तस्य सन्देहं नाशयितुं स्पष्टतया वदति यद्, युद्धस्य निश्चयं कृत्वा सर्वान् सन्देहान् त्यज इति ।
युद्धे पुनः क्रियमाणे कर्णादिभिः -
हतो वा प्राप्स्यसि स्वर्गम् हतः सन् स्वर्गं प्राप्स्यसि। जित्वा वा कर्णादीन् शूरान् भोक्ष्यसे महीम् । उभयथापि तव लाभ एवेत्यभिप्रायः। यत एवं तस्मात् उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः जेष्यामि शत्रून् मरिष्यामि वा इति निश्चयं कृत्वेत्यर्थः।।
भाष्यार्थः
[सम्पादयतु]पक्षान्तरे कर्णादिभिः वीरैः सह युद्धे कृते सति –
अथवा यदि त्वं युद्धे तैः मरिष्यसि, तर्हि स्वर्गं प्राप्स्यसि । अथवा कर्णादिवीरान् जित्वा त्वं पृथिव्याः राज्यं प्राप्स्यसि । तात्पर्यम् अस्ति यद्, युद्धे जयपराजयोः ते लाभः अस्ति इति । एवम् अस्ति अतः हे कौन्तेय ! युद्धाय कृतनिश्चयः भूत्वा उत्तिष्ठ । अर्थात् अहं शत्रुषु विषयं प्राप्स्यामि उत मरिष्यामि इति निश्चयं कृत्वा उत्तिष्ठ इति ।
अतः शूरस्य आत्मना परेषां हननम् आत्मनो वा परैः हननम् उभयम् अपि श्रेयसे भवति इति आह -
धर्मयुद्धे परैः हतः चेत् तत एव परमनिःश्रेयसं प्राप्स्यसि परान् वा हत्वा अकण्टकं राज्यं भोक्ष्यसे। अनभिसंहितफलस्य युद्धाख्यस्य धर्मस्य परमनिःश्रेयसोपायत्वात् तत् च परमनिःश्रेयसं प्राप्स्यसि। तस्माद् युद्धाय उद्योगः परमपुरुषार्थलक्षणमोक्षसाधनम् इति निश्चित्य तदर्थम् उत्तिष्ठ। कुन्तीपुत्रस्य तव एतद् एव युक्तम् इत्यभिप्रायः।
भाष्यार्थः
[सम्पादयतु]अतः वीरेभ्यः स्वेन अन्यस्य वधम् अन्येन वा स्वस्य वधम् एव वरम् इत्येव कल्याणप्रदम् इति कथयति –
धर्मयुद्धे त्वं यदि अन्यैः हतः, तर्हि परमकल्याणं प्राप्स्यसि । अपरत्र सर्वान् मारयित्वा निष्कण्टकं राज्यम् उपभोक्ष्यसे । तथा च फलाभिसन्धिरहितं युद्धकर्म परमकल्याणस्य प्राप्तेः उपायः अस्ति । अतः त्वमपि तत् परमकल्याणं प्राप्स्यसि । अतः युद्धाय उद्योगः परमपुरुषार्थरूपिणः मोक्षस्य साधनम् अस्ति । मनसि एतादृशं निश्चयं कृत्वा युद्धाय उत्तिष्ठ । 'कौन्तेय' इत्यनेन सम्बोधनेन अत्र भवता सङ्केतितं यद्, तुभ्यं कुन्तीपुत्राय एतदेव उचितम् अस्ति इति ।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये हतो वा प्राप्स्यसि स्वर्गं... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च