देहिनोऽस्मिन्यथा देहे...
देहिनोऽस्मिन्यथा देहे... शोकस्य अयोग्यत्वम् | |
---|---|
श्लोकसङ्ख्या | २/१३ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | न त्वेवाहं जातु नासं... |
अग्रिमश्लोकः | मात्रास्पर्शास्तु कौन्तेय... |
देहिनोऽस्मिन्यथा देहे ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः शोकः सर्वथा अयोग्यः इति बोधयति । पूर्वस्मिन् श्लोकेऽपि भगवान् सदसतोः पदार्थयोः कृते शोकः अनुचितः इति अकथयत् । अत्र तमेव विषयम् अग्रे वदति । पूर्वस्मिन् श्लोके, श्लोकेऽस्मिन् च भगवान् आत्मनः नित्यतां, निर्विकारतां च बोधयति । सः वदति यत्, देहधारिणः मनुष्यदेहेऽस्मिन् यथा बाल्यं, यौवनं, वार्धक्यं च भवति, तथैव अन्यशरीरस्य प्राप्तिः भवति । एतस्मिन् विषये धीमन्तः मनुष्याः न मुह्यन्ति ।
श्लोकः
[सम्पादयतु]- देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
- तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ १३ ॥
पदच्छेदः
[सम्पादयतु]देहिनः, अस्मिन्, यथा, देहे, कौमारम्, यौवनम्, जरा । तथा, देहान्तरप्राप्तिः, धीरः, तत्र, न, मुह्यति ॥
अन्वयः
[सम्पादयतु]देहिनः अस्मिन् देहे यथा कौमारं यौवनं जरा (च) तथा देहान्तरप्राप्तिः । तत्र धीरः न मुह्यति ।
शब्दार्थः
[सम्पादयतु]अन्वयः | विवरणम् | सरलसंस्कृतम् |
अस्मिन् | इदम्-म.सर्व.पुं.स.एक. | एतस्मिन् |
देहे | अ.पुं.स.एक. | शरीरे |
कौमारम् | अ.नपुं.प्र.एक. | बाल्यम् |
यौवनम् | अ.नपुं.प्र.एक. | तारुण्यम् |
जरा | आ.स्त्री.प्र.एक. | वृद्धत्वम् |
तथा | अव्ययम् | तेन प्राकारेण |
देहान्तरप्राप्तिः | इ.स्त्री.प्र.एक. | अन्यशरीरलाभः |
धीरः | अ.पुं.प्र.एक. | पण्डितः |
तत्र | अव्ययम् | तस्मिन् विषये |
न | अव्ययम् | न |
मुह्यति | √मुह वैचित्ये-पर.कर्तरि, लट्.प्रपु.एक. | शोचति । |
व्याकरणम्
[सम्पादयतु]सन्धिः
[सम्पादयतु]- देहिनोऽस्मिन् = देहिनः + अस्मिन् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
- देहान्तरप्राप्तिर्धीरस्तत्र = देहान्तरप्राप्तिः + धीरः – विसर्गसन्धिः (रेफः)
- देहान्तरप्राप्तिर्धीरः + तत्र – विसर्गसन्धिः (सकारः)
तद्धितान्तः
[सम्पादयतु]- देहिनः = देह + इनि (मतुबर्थे) तस्य । देहः अस्य अस्मिन् वा अस्ति इति ।
- कौमारम् = कुमार + अण् (भावे) । कुमारस्य भावः इत्यर्थः ।
- यौवनम् = युवन् + अण् (भावे) । यूनः भावः इत्यर्थः
अर्थः
[सम्पादयतु]आत्मनः कौमारं यौवनं जरा चेत्येवम् अवस्थाः यथा भवन्ति तथा देहान्तरप्राप्तिः अपि भवति । अतः विवेकी तस्मिन् मोहं न गच्छति ।
'देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा' – देहधारिणां शरीरे बाल्य-यौवन-जराः भवन्ति । तात्पर्यम् अस्ति यत्, शरीरे कदापि निश्चिता काचित् अवस्था न तिष्ठति । सा अवस्था निरन्तरं परिवर्तनशीला भवति । अत्र "देहधारिणां शरीरे" इत्यस्य कथनस्य तात्पर्यम् अस्ति यत्, शरीरी भिन्नः अस्ति, शरीरं च भिन्नम् । शरीरी दृष्टा अस्ति, शरीरं च दृश्यम् । अतः शरीरे बाल्याद्यवस्थानुगुणं यत् परिवर्तनं भवति, तत् परिवर्तनं शरीरिणि न भवति ।
'तथा देहान्तरप्राप्तिः' – यथा शरीरादीनां कौमार्यादयः अवस्थाः भवन्ति, तथैव देहान्तरस्यापि अर्थात् अन्यस्य शरीरस्यापि भवति । यथा स्थूलशरीरं बाल्यात् युवा, युवतः वृद्धं भवति, तदा तेन परिवर्तनेन कोऽपि शोकः न भवति । तथैव शरीरिणः एकस्मात् शरीरात् अपरशरीरगमनं भवति । अतः तस्मिन् विषये शोकः न करणीयः । यथा स्थूलशरीरस्य कौमार्याद्यवस्थाः भवन्ति, तथैव सूक्ष्मकारणशरीरयोः अपि देहान्तरस्य प्राप्तिः भवति । अर्थात् यथा कौमार्याद्यवस्थाः स्थूलशरीरस्य अवस्थाः सन्ति, तथैव देहान्तरप्राप्तिः (मृत्योत्तरम् अन्यशरीरधारणम्) सूक्ष्मकारणशरीरयोः अवस्था अस्ति ।
स्थूलशरीरे परिवर्तिते सति कौमार्याद्यवस्थाः भवन्ति इति तु स्थूलदृष्टिः अस्ति । सूक्ष्मदृष्ट्या पश्यामः चेत्, अवस्थानुगुणं स्थूलशरीरेऽपि परिवर्तनं भवति । बाल्यावस्थायाः शरीरं युवावस्थायां नासीत् । वास्तविके जीवने एकमपि क्षणं न भवति, यस्मिन् स्थूलशरीरे परिवर्तनं न भवति । तथैव सूक्ष्मकारणशरीरयोः अपि प्रतिक्षणं परिवर्तनं भवति । तत् परिवर्तनं देहान्तररूपेण स्पष्टतया द्रष्टुं शक्नुमः । देहान्तरस्य प्राप्त्योत्तरं तु स्थूलशरीरस्य त्यागः भवति । परन्तु मुक्तेः पूर्वं सूक्ष्मकारणशरीरयोः त्यागः न भवति । यावता मुक्तिः न भवति, तावता सूक्ष्मकारणशरीरयोः सम्बन्धः निरन्तरं चलति ।
अत्र चिन्तनीयम् अस्ति यत्, स्थूलशरीरस्य तु ज्ञानम् अस्माकं पार्श्वे अस्ति, परन्तु सूक्ष्मकारणशरीरयोः ज्ञानं नास्ति । अतः सूक्ष्मकारणशरीरयोः ज्ञानाभावे तयोः शरीरयोः जातस्य परिवर्तनस्य ज्ञानं कथं भवितुम् अर्हति ? उत्तरम् अस्ति यत्, यथा स्थूलशरीरस्य ज्ञानं शरीरावस्थानुगुणं भवति, तथैव सूक्ष्मकारणशरीरयोः अवस्थानुगुणं तयोः ज्ञानं भवति । स्थूलशरीरस्य "जागृतावस्था", सूक्ष्मशरीरस्य "स्वप्नावस्था", कारणशरीरस्य "सुषुप्त्यवस्था" च मन्यते ।
मनुष्यः स्वप्नकाले बाल्यावस्थायां, युवावस्थायां, वृद्धावस्थायां च स्वं क्रमेण बालकत्वेन, युवत्वेन, वृद्धत्वेन च पश्यति । तेन सिद्ध्यति यत्, स्थूलशरीरेण सह सूक्ष्मशरीरस्यापि परिवर्तनं जायते इति । तथैव सुषुप्त्यवस्था बाल्यकाले अधिका, युवावस्थायां स्वल्पा, वृद्धावस्थायां अतिस्वल्पा च भवति । एवं कारणशरीरस्यापि परिवर्तनं सिद्ध्यति ।
बाल्यावस्थायां, युवावस्थायां च निद्रोत्तरं यथा उल्लासः अनुभूयते, तथैव वृद्धावस्थायां निद्रोत्तरं न भवति । अर्थात् वृद्धावस्थायां बाल्ययुवावस्थावत् विश्रामो न प्राप्यते । एवं कारणशरीरस्य परिवर्तनं भवति । यः देवपशुपक्षीत्यादीनां शरीरे अस्ति, सः शरीरे देहाध्यासत्वात् "अहमेषः" इति अनुभवति । अर्थात् सूक्ष्मशरीरस्य परिवर्तनं जातम् अस्ति । तथैव कारणशरीरे स्वभावः भवति । सः स्वभावः स्थूलदृष्ट्या मनुष्यस्य प्रकृतिः इति प्रसिद्धः । सा प्रकृतिः देवपश्वादिनां भिन्ना भिन्ना भवति । एवं कारणशरीरस्यापि परिवर्तनं भवति ।
यदि शरीरिणि परिवर्तनम् अभविष्यत्, तर्हि अवस्थानुगुणं "स एवाहम्" [२] इति ज्ञानम् अभविष्यत् । परन्तु अवस्थासु परिवर्तने सत्यपि "बाल्ययुवावस्थयोः यः अहम् आसम्, स एवाहम्" इति ज्ञानं भवति । तेन सिद्ध्यति यत्, शरीरिणि परिवर्तनं न जातम् इति । अत्र शङ्का भवति यत्, यदा स्थूलशरीरस्य अवस्थाः परिवर्तन्ते, तदा परिवर्तनस्य ज्ञानं भवति । परन्तु शरीरान्तरप्राप्तौ सति पूर्वशरीरस्य ज्ञानं किमर्थं न भवति ? इति । पूर्वशरीरस्य ज्ञानाभावस्य कारणम् अस्ति यत्, मृत्योः, जन्मनः च काले अतीव कष्टं भवति । तस्य कष्टस्य कारणेन पूर्वजन्मनः सर्वाः स्मृतयः नष्टाः भवन्ति । यथा पक्षाघाते, वार्धक्याधिक्ये च सति बुद्धौ पूर्ववत् ज्ञानं न भवति, तथैव मृत्योः समये, जन्मनः समये च अतीव भीषणे आघाते सति पूर्वजन्मनः ज्ञानं न भवति [३] । परन्तु यस्य मरणे तावान् भीषणः आघातः न भवति, तस्य बुद्धौ पूर्वजन्मनः स्मृतिः अवशिष्यते । यः मनुष्यः सहसा मृत्युं प्राप्य सहसा कुत्रचित् जन्म धरते, तस्य पूर्वजन्माभ्यासः उत संस्काराः किञ्चित् कालं यावत् अभ्यग्राः (fresh) भवन्ति । तस्मात् कारणात् सः मनुष्यः पूर्वजन्मनः ज्ञानाभ्यासयुक्तः सन् जन्म प्राप्नोति । अतः सः जातिस्मरः उच्यते । ततः सः यथा यथा वृद्धिङ्गच्छति, तथा तथा स्वप्नसदृशी पूर्वतनी स्मृतिः नष्टा भवति । [४] ।
अत्र चिन्तनीयः विषयः अस्ति यत्, यथा अवस्थान्तरप्राप्तौ ज्ञानं भवति, तथैव देहान्तरप्राप्तौ न भवति । परन्तु "अहमस्मि" इति स्वसत्तायाः ज्ञानं तु सर्वदा भवति । यथा सुषुप्त्यवस्थायां स्वस्य किञ्चित् मात्रम् अपि ज्ञानं न भवति, परन्तु जागृते सति मनुष्यः कथयति यत्, "अहं तु सुषुप्त्यवस्थायाम् आसम् । अहं किमपि ज्ञातुं न शक्तवान्" इति । अत्र किमपि ज्ञातुं न शक्तवान् इत्यस्य ज्ञानं तु अस्त्येव । निद्रायाः पूर्वं यः आसम्, स एव जागृते सति अस्मि इति सत्तायाः अखण्डं ज्ञानं तु निरन्तरं भवति । स्वसत्तायाः अभावं कदापि कोऽपि नानुभवति । शरीरधारिणः सत्तायाः सद्भावः अखण्डतया तिष्ठति, तस्मिन् काले एव मुक्तिः भवति । एवं सः मुक्तावस्थायां तिष्ठति । जीवनमुक्तावस्थायां, शरीरान्तरावस्थायां च ज्ञानं तु न भवति, परन्तु "अहं त्रिभिः शरीरैः भिन्नः" इति ज्ञानं तु भवत्येव ।
'धीरस्तत्र न मुह्यति' – सदसतोः ज्ञाता एव धीरः । तादृशः धीरः मनुष्यः विषयेषु कदापि न मुह्यति । सः कदापि सन्देही न भवति । सः धीरः मनुष्यः देहान्तरप्राप्तिं करोति इति नास्ति । उच्चनीचयोनिषु जन्मनः कारणं गुणसङ्गः अस्ति । गुणेभ्यः सम्बन्धविच्छेदे सति धीरः मनुष्यः देहान्तरप्राप्तिं कर्तुं न शक्नोति । "तत्र" इत्यस्य पदस्यार्थः "देहान्तरप्राप्तिविषये" इति न भवति, अपि तु "देहदेहिनोः विषये" इति भवति । तात्पर्यम् अस्ति यत्, शरीरं किं ? शरीरी कः ? परिवर्तनशीलः कः ? अपरिवर्तनशीलः कः ? अनित्यः कः ? नित्यः कः ? असद् किम् ? सत् किम् ? विकारी कः ? अविकारी कः ? इत्येतेषु विषयेषु सः धीरः मोहितः न भवति । देहदेहिनोः भेदं सः सर्वथा अवगच्छति । एतस्मिन् विषये कदापि तस्मिन् मोहः नोत्पद्यते । स्वस्य अखण्डतायाः ज्ञानं तस्मिन् दृढं भवति ।
तत्रा कथमिव नित्य आत्मेति दृष्टन्तमाह -देहिन इति ।
देहः अस्य अस्तीति देही तस्य देहिनो देहवतः आत्मनः अस्मिन् वर्तमाने देहे यथा येन प्रकारेण कौमारं कुमारभावो बाल्यावस्था यौवनं यूनो भावो मध्यमावस्था जरा वयोहानिः जीर्णावस्था इत्येताः तिस्रः अवस्थाः अन्योन्यविलक्षणाः। तासां प्रथमावस्थानाशे न नाशः द्वितीयावस्थोपजने न उपजन नम् आत्मनः। किं तर्हि अविक्रियस्यैव द्वितीयतृतीयावस्थाप्राप्तिः आत्मनो दृष्टा। तथा तद्वदेव देहात् अन्यो देहो देहान्तरम् तस्य प्राप्तिः देहान्तरप्राप्तिः अविक्रियस्यैव आत्मनः इत्यर्थः। धीरो धीमान् तत्र एवं सति न मुह्यति न मोहमापद्यते।।
यद्यपि आत्मविनाशनिमित्तो मोहो न संभवति नित्य आत्मा इति विजानतः तथापि शीतोष्णसुखदुःखप्राप्तिनिमित्तो मोहो लौकिको दृश्यते सुखवियोगनिमित्तो मोहः दुःखसंयोगनिमित्तश्च शोकः। इत्येतदर्जुनस्य वचनमाशङ्क्य भगवानाह -
भाष्यार्थः
[सम्पादयतु]देहः अस्य अस्ति इति देही, तस्य देहिनः (आत्मनः) एतस्मिन् वर्तमाने शरीरे बाल्यादयः परस्परविलक्षणाः अवस्थाः भवन्ति । तासु अवस्थासु एकस्याः अवस्थायाः नाशे सति आत्मा नश्यति । अपरस्याः अवस्थायाः उत्पत्तौ आत्मा न जायते । तर्हि किं भवति ? चेत्, यथा निर्विकारी आत्मा एव द्वितीयां, तृतीयां च अवस्थां प्राप्नोति इति आभासः भवति, तथैव निर्विकारी आत्मा देहान्तरं प्राप्नोति । एतत् ज्ञानं प्राप्य धीरपुरुषः मोहितः न भवति ।
रामानुजभाष्यम्
[सम्पादयतु]एकस्मिन् देहे वर्तमानस्य देहिनः कौमारावस्थां विहाय यौवनाद्यवस्थाप्राप्तौ आत्मन स्थिरबुद्ध्या यथा आत्मा नष्ट इति न शोचति देहाद् देहान्तर प्राप्तौ अपि तथा एव स्थिर आत्मा इति बुद्धिमान् न शोचति। अत आत्मनां नित्यत्वाद् आत्मानो न शोकस्थानम्।
एतावद् अत्र कर्तव्यम् आत्मनां नित्यानाम् एव अनादिकर्मवश्यतया तत्तत्कर्मोचितदेहसंस्पृष्टानां तैरेव देहैः बन्धनिवृत्तये शास्त्रीयं स्ववर्णोचितं युद्धादिकम् अनभिसंहितफलं कर्म कुर्वताम् अवर्जनीयतया इन्द्रियैः इन्द्रियार्थस्पर्शाः शीतोष्णादिप्रयुक्तसुखदुःखदा भवन्ति ते तु यावच्छास्त्रीयकर्मसमाप्ति क्षन्तव्या इति।
भाष्यार्थः
[सम्पादयतु]एकस्मिन् शरीरे विद्यमानः जीवात्मा यदा कुमारावस्थां त्यक्त्वा यौवनाद्यवस्थां प्राप्नोति, तदा आत्मा (पूर्वं यथा आसीत्, तथैव तिष्ठति) स्थिरः भवति । एतत् ज्ञानं यस्य पार्श्वे अस्ति, तादृशः मनुष्यः मोहितः सन् "आत्मा नष्टः" इति शोकं न करोति । तथैव एकस्मात् शरीरात् अपरं शरीरं प्रति गतः आत्मा अपि स्थिरः भवति इति ज्ञाता न शोकङ्गच्छति । आत्मा नित्यः अत एव शोकस्य विषयः नास्ति ।
जीवात्मनि नित्ये सत्यपि अनादिजन्मनां कर्मणाम् अधीने अस्ति । अतः कर्मणाम् अनुसारं शरीरसम्बन्धः अस्ति । तस्य तावदेव कर्तव्यम् अस्ति यत्, सः बन्धननिवृत्त्यै शरीरैः स्ववर्णोचितं कर्म फलाभिलाषी अभूत्वा कुर्वन् भवेत् । एवञ्च इन्द्रियजनितानि, विषयसंयोगजनितानि च यानि शीतोष्णादिजनितानि सुखदुःखानि सन्ति, तानि अनिवार्यत्वेन स्वीकृत्य स्ववर्णोचितकर्मणः परिसमाप्तिपर्यन्तं सहनं कुर्यात् ।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये देहिनोऽस्मिन्यथा देहे... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]- ↑ श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
- ↑ एतत् ज्ञानं शास्त्रेषु प्रत्यभिज्ञा इति प्रसिद्धम् । उक्तं च -
तत्तेदन्तावगाहि ज्ञानं प्रत्यभिज्ञा - ↑ म्रियते रुदतां स्वानामुरुवेदनयास्तधीः, श्रीमद्भागवत्महापुराणम्, ३/३०/१८
- ↑ ये मृताः सहसा जायन्ते सहसा पूनः ।
तेषां पौराणिकोऽभ्यासः कञ्चित् कालां हि तिष्ठति ।।
तस्माज्जातिस्मरा लोके जायन्ते बोधसंयुताः ।
तेषां विवर्धतां संज्ञा स्वप्नवत् सा प्रणश्यति ।। महाभारतम्, अनुशासनपर्व, १४५ - ↑ श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च