सामग्री पर जाएँ

एषा ब्राह्मी स्थितिः पार्थ...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
एषा ब्राह्मी स्थितिः पार्थ...


ब्राह्मीस्थितेः महिमा
श्लोकसङ्ख्या २/७२
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः विहाय कामान्यः सर्वान्...
अग्रिमश्लोकः ज्यायसी चेत्कर्मणस्ते...

एषा ब्राह्मी स्थितिः पार्थ () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः कामनादिरहितस्य साधकस्य स्थितिः कीदृशी भवेत् इति वर्णयति । पूर्वस्मिन् श्लोके कामनादीनां त्यागे सति शान्तिप्राप्तिः भवति इत्युक्त्वा अत्र कामनादिरहितस्य साधकस्य स्थितिवर्णनं करोति । भगवान् कथयति यत्, हे पृथानन्दन ! एषा ब्राह्मी स्थितिः अस्ति । ब्राह्मीस्थितिप्राप्तः साधकः कदापि मोहितः न भवति । एषा स्थितिः यदि अनन्तकालेषु अपि सिद्ध्यति, तर्हि निर्वाणब्रह्मणः (शान्तेः) प्राप्तिः भवति इति ।

श्लोकः

[सम्पादयतु]
गीतोपदेशः
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ ७२ ॥

पदच्छेदः

[सम्पादयतु]

एषा, ब्राह्मी, स्थितिः, पार्थ, न, एनाम्, प्राप्य, विमुह्यति । स्थित्वा, अस्याम्, अन्तकाले, अपि, ब्रह्मनिर्वाणम्, ऋच्छति ॥

अन्वयः

[सम्पादयतु]

पार्थ ! एषा ब्राह्मी स्थितिः । एनां प्राप्य न विमुह्यति । अन्तकाले अपि अस्यां स्थित्वा ब्रह्मनिर्वाणम् ऋच्छति ।

शब्दार्थः

[सम्पादयतु]
अन्वयः विवरणम् सरलसंस्कृतम्
पार्थ अ.पुं.सम्बो.एक. अर्जुन !
एषा एतद्-द.सर्व.स्त्री.प्र.एक. इयम्
ब्राह्मी ई.स्त्री.प्र.एक. परमात्मसम्बन्धिनी
स्थितिः इ.स्त्री.प्र.एक. निष्ठा
एनाम् एतद्-द.सर्व.स्त्री.द्वि.एक. एताम्
प्राप्य ल्यबन्तम् अव्ययम् लब्ध्वा
न विमुह्यति वि+√मुह् वैचित्ये-पर.कर्तरि, लट्.प्रपु.एक. मोही न भवति
अन्तकाले अ.पुं.प्र.एक. मरणसमये
अपि अव्ययम् अपि
अस्याम् इदम्-म.सर्व.स्त्री.स.एक. एतस्याम्
स्थित्वा क्त्वान्तम् अव्ययम् वर्तित्वा
ब्रह्मनिर्वाणम् अ.नपुं.द्वि.एक. ब्रह्मनिर्वाणम्
ऋच्छति √ऋ गतिप्रापणयोः-पर.कर्तरि, लट्.प्रपु.एक. लभते ।

व्याकरणम्

[सम्पादयतु]

सन्धिः

[सम्पादयतु]
  1. नैनाम् = न + एनाम् - वृद्धिसन्धिः
  2. स्थित्वास्याम् = स्थित्वा + अस्याम् – सवर्णदीर्घसन्धिः
  3. अन्तकालेऽपि = अन्तकाले + अपि – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
  1. ब्रह्मनिर्वाणम् = ब्रह्मणि निर्वाणम् – सप्तमीतत्पुरुषः ।
  2. अन्तकाले = अन्तस्य कालः, तस्मिन् – षष्ठीतत्पुरुषः ।

कृदन्तः

[सम्पादयतु]
  1. स्थितिः = स्था + क्तिन् (भावे)
  2. प्राप्य = प्र + आप् + ल्यप्
  3. स्थित्वा = स्था – क्त्वा

हे पार्थ ! इयं ब्राह्मी स्थितिः इति उच्यते । एनां स्थितिं यः प्राप्नोति सः कदापि मोहवशः न भवति । अन्तकाले अपि अस्यां स्थितौ स्थित्वा सः ब्रह्मानन्दं प्राप्नोति ।

भावार्थः []

[सम्पादयतु]

'एषा ब्राह्मी स्थितिः पार्थ' – एषा ब्राह्मी स्थितिः अस्ति अर्थात् ब्रह्मप्राप्तस्य मनुष्यस्य स्थितिः । अहङ्काररहिते सति यदा व्यक्तित्वं नष्टं भवति, तदा सा स्थितिः स्वतः एव सिद्ध्यति । किञ्च संसारेण सह सम्बन्धे सति एव व्यक्तित्वम् आसीत् । तस्य सम्बन्धस्य विच्छेदे सति योगिनः व्यक्तिगतस्थितिः विनश्यति ।

'एषा' इति पदेन निकटतायाः बोधः भवति । अतः तेन पदेन अग्रिमश्लोकस्य 'विहाय कामान्', 'निःस्पृहः', 'निर्ममः', 'निरहङ्कारः' इत्येतेषां पदानाम् अपि निर्देशनं भवति । मोहकलिलं, श्रुतिविप्रतिपत्तिं च तव बुद्धिः यदा लङ्घयिष्यति, तदा त्वं योगमवाप्स्यसि इति भगवतः मुखात् श्रुत्वा अर्जुनस्य मनसि अहङ्काररहितस्य मनुष्यस्य स्थितिविषये जिज्ञासा अभवत् । अतः अर्जुनः स्थितप्रज्ञस्य विषये चतुरः प्रश्नान् अपृच्छत् । सर्वेषां प्रश्नानाम् उत्तरं दत्त्वा अत्र भगवान् तस्य स्थितप्रज्ञस्य ब्राह्मीस्थितिं वर्णयति । अस्य तात्पर्यम् अस्ति यत्, सा स्थितिः व्यक्तिगता स्थितिः न, अपि तु तस्यां स्थित्यां व्यक्तित्वस्य एव नाशः भवति । ततः नित्ययोगः प्राप्यते । तस्मिन् योगे एकमेव तत्त्वं भवति । एनं विषयं प्रति ध्यानम् आक्रष्टुमेव अत्र 'पार्थ' इति सम्बोधनम् ।

'नैनां प्राप्य विमुह्यति' – यावत् पर्यन्तं शरीरे अहङ्कारः अवशिष्यते, तावत् पर्यन्तं मोहाय अवसरः अपि । परन्तु यदा अहङ्कारस्य सर्वथा अभावे सति ब्रह्मणि स्वस्थितिः अनुभूयते, तदा व्यक्तित्वखण्डनत्वात् पुनः कदापि मोहः न बाधते । सत्यासत्ययोः ज्ञानाभाव एव मोहः । तात्पर्यम् अस्ति यत्, स्वस्य सत्स्थितिम् अज्ञात्वा असता सह आत्मनः ऐक्यकल्पनम् एव मोहः । यदा साधकः असन्तम् अवगच्छति, तदा तस्य सम्बन्धः तस्मात् विच्छिनत्ति । असतः ज्ञानोत्तरम् असतः निवृत्तिः जायते । यतः असतः स्वतन्त्रा सत्ता नास्ति । सता एव असतः सत्ता अस्ति । असतः ज्ञाने सत्यपि यदि असन्निवृत्तिः न भवति, तर्हि वास्तव्येन असतः ज्ञानं नाभवत् इति ज्ञातव्यम् । किञ्च मनसि असतः सत्ता विद्यते । असतः सम्बन्धे विच्छिन्ने सति वास्तव्येन सतः अनुभवः जायते । तस्याः स्थित्याः अनुभवोत्तरं कदापि मोहः न बाधते []

'स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति' – एतत् मनुष्यशरीरं केवलं परमात्मप्राप्त्यै एव प्राप्तम् अस्ति । अतः ईश्वरः अवसरं ददाति यत्, साधरणतमः, पापितमः चापि यदि अन्तकाले स्वस्थितिं परमात्मनि पश्यति अर्थात् जडपदार्थैः स्वसम्बन्धं विच्छिनत्ति, तर्हि सोऽपि निर्वाणं ब्रह्म प्राप्तुं शक्नोति । सः जन्ममृत्य्वोः चक्रात् मोक्ष्यते । अग्रेऽपि भगवान् एतादृशं वचनं वक्ष्यति यत्, अधिभूतम्, अधिदैवम्, अधियज्ञं च एकः भगवान् एवास्ति इति प्रयाणकालेऽपि मां जानाति, सः मां प्राप्नोति इति [] । ततः भगवान् एतादृशं वचनं पुनरुपस्थापयति यत्, अन्तकाले मे स्मरणं कुर्वन् प्राणेषु त्यागेषु सत्सु सः जीवः मां प्राप्नोति । तत्र न कोऽपि सन्देहः इति []

श्लोकेस्मिन् भगवान् ब्रह्मीस्थितेः वर्णनं कुर्वन् तस्याः स्थितेः महिमानं करोति । ब्राह्मीस्थित्यां यदि अन्तकालेऽपि कोऽपि स्थितः भवति, तर्हि सः ब्रह्मपदं प्राप्नोति । यथा समबुद्धेः विषये भगवान् अवदत् यत्, स्वल्पमपि अनुष्ठानं महतात् भयात् रक्षति इति [], तथैव अत्रापि अन्तकाले प्राप्तब्राह्मीस्थितिः मनुष्यः निर्वाणं प्राप्नोति । तस्याः स्थितेः अनुभवाय जडपदार्थनां रागत्यागः अनिवार्यः । यतः तस्यै स्थित्यै जडपदार्थरागः एव बाधकः । तं रागम् अन्तकाले अपि त्यजति मनुष्यः, तर्हि तां स्वतःसिद्धां वास्तविकस्थितिम् अनुभवति सः ।

अत्र शङ्का भवति यत्, यः अनुभवः आजीवनं नाभवत्, सः अन्तकाले कथं भवेदिति ? अर्थात् स्वस्थावस्थायां साधकस्य बुद्धिः विचारशक्तियुक्ता, सावधाना च भवेत् । तस्यां स्थित्यां ब्राह्मीस्थित्यनुभवाय अवकाशः अस्ति, परन्तु अन्तावस्थायां तु साधकस्य बुद्धिः शिथिला भवेत् । तस्यां स्थित्यां प्राणनिर्गमनकाले असमर्था, असावधाना च तस्य बुद्धिः ब्राह्मीस्थित्याः अनुभवं कथं कर्तुं शक्नुयात् ? इति ।

अस्य समाधानम् अस्ति यत्, मृत्युकाले यदा प्राणाः निर्गच्छन्ति, तदा शरीरादिभ्यः स्वतस्सम्बन्धः विच्छिनत्ति । यदि तस्मिन् सः स्वतःसिद्धतत्त्वं प्रति लक्ष्यं कुर्यात्, तर्हि सः सहजतया तां ब्राह्मीस्थितिम् अनुभूयात् । यतः निर्विकल्पावस्थायाः प्राप्त्यै बुद्धि-विवेकादीनाम् आवश्यकता भवति । परन्तु अवस्थातीततत्त्वस्य प्राप्त्यै तु केवलं लक्ष्यस्य आवश्यकता भवति । तल्लक्ष्यं अभ्यासेन, शुभसंस्कारैः, भगवतः उत गुरोः अहैतुक्या कृपया वा सिद्ध्येत् । परन्तु लक्ष्यसिद्ध्युत्तरं लक्ष्यस्य प्राप्तिः निश्चयेन स्वतः भवति । निर्विकल्पावस्थायाः प्राप्त्यै अभ्यास-विचार-निदिध्यासनादीनाम् आवश्यकता भवति, परन्तु निर्विकल्पबोधिकायाः अवस्थातीतायाः ब्राह्मीस्थित्याः प्राप्त्यै बुद्धिः अनुपयुक्ता सिद्ध्यति । तस्यां स्थित्यां बुद्धिः कार्यं न करोति । यतः निर्विकल्पावस्थायां बोधः करणनिरपेक्षः अस्ति अर्थात् तस्यां स्थित्यां करणस्य किञ्चिदपि अपेक्षा न भवति । तस्यै स्थित्यै करणात् सम्बन्धविच्छेदः एव कारणं भवति ।

"अन्तकालेऽपि" इत्यत्र कृतस्य "अपि"-प्रयोगस्य तात्पर्यम् अस्ति यत्, अन्तकालात् पूर्वं यदि एतां स्थितिं प्राप्नुयात्, तर्हि सः जीवन्मुक्तः भवति । परन्तु यदि साधकः अन्तकालेऽपि इमां स्थितिं प्राप्नुयात्, तर्हि जीवनमुक्तस्य स्थितिवत् सोऽपि तत्कालं मुक्तः भवति । तस्यै स्थित्यै अभ्यासः, ध्यानं, समाधिः इत्यादीनां किञ्चिदपि आवश्यकता न भवति ।

अत्र कर्मयोगिभ्यः भगवान् 'ब्रह्मनिर्वाणम्' इति पदं प्रयुक्तवान् । तस्य तात्पर्यम् अस्ति यत्, यथा साङ्ख्ययोगी निर्वाणब्रह्मणः प्राप्तिं करोति [], तथैव कर्मयोगी निर्वाणब्रह्मणः प्राप्तिं करोति । साङ्ख्ययोगी यत् स्थानं प्राप्नोति, तत् स्थानं कर्मयोगी अपि प्राप्नोति इति ।

जडः, चेतनः च पदार्थौ स्तः । प्राणिनां स्वरूपं चेतनम् अस्ति । परन्तु तस्य सङ्गः जडेन सह अस्ति । जडं प्रति आकर्षणम् एव तस्य पतनमार्गं प्रति धावनं परिगण्यते । एवं जडं प्रति आकर्षणं पतनं प्रति, चिन्मयं प्रति आकर्षणञ्च उत्थानं प्रति प्राणिनं नयति । जडं प्रति अग्रेसरः प्राणी मोहप्रधानः, परमात्मतत्त्वं प्रति अग्रेसरः प्राणी विवेकप्रधानश्च भवति । प्रत्येकयोः मोहविवेकयोः द्वौ विभागौ स्तः ।

१. अहन्ताममतायुक्तः मोहः, कामनायुक्तः मोहश्च ।

२. सदसतोः विवेकः, कर्तव्याकर्तव्ययोः विवेकश्च ।

प्राप्तवस्तुशरीरादीनाम् अहन्ता, ममता च अहन्ताममतायुक्तः मोहः उच्यते । अप्राप्यवस्तुघटनापरिस्थित्यादीनां कामना एव कामनायुक्तः मोहः उच्यते । शरीरी, शरीरं च भिन्नम् । शरीरी सत्, शरीरम् असत्, शरीरी चेतनः, शरीरं जडम् इति विवेकः सदसतयोः विवेकः अस्ति । कः धर्मः, कः अधर्मः, किं कर्तव्यं, किं न कर्तव्यम् इति कर्तव्याकर्तव्यविवेकः अस्ति ।

प्रथमे अध्याये अर्जुनोऽपि द्विविधाभ्यां मोहाभ्यां ग्रस्तः आसीत् । ययोः प्राणिमात्रं मोहितम् अस्ति । अहन्तायाः, ममतायाः च कारणेन क्रमेण "वयं दोषज्ञातारः धर्मात्मानः स्मः", "एते मे कुटुम्बकाः मरिष्यन्ति" इति अहन्ताममतायुक्तः मोहः जातः । अहं पापी न भवेयं, नरकं न गच्छेयं, पितॄणां पतनं न भवेत् इत्यादिः कामनायुक्तः मोहः जातः । उक्तान् सर्वान् मोहान् अपाकर्तुं भगवान् द्वितीयेऽध्याये द्विविधं विवेकम् अदर्शयत् । शरीरिशरीरयोः, सदसतोः च विवेकः [], कर्तव्याकर्तव्ययोः विवेकश्च []

शरीरिशरीरयोः विवेकं दर्शयितुं भगवान् अथयत् यत्, त्वम्, एते राजानश्च पूर्वं नासन्, पश्चाच्च न भविष्यन्ति इति नास्ति । अर्थात् वयं सर्वे पूर्वम् अपि आस्म, पश्चादपि भविष्यामः इति । एतानि शरीराणि पूर्वं नासन्, भविष्यत्काले चापि न भविष्यन्ति । यथा शरीरे कुमारयुववृद्धावस्थाः परिवर्तन्ते, तथैव मनुष्यः पुरातनवस्त्राणि त्यक्त्वा नवीनानि वस्त्राणि धरते । एषः अचलः नियमः अस्ति । तत्र चिन्तायाः, शोकस्य च स्थानेव कुत्र ?

कर्तव्याकर्तव्ययोः विवेकं दर्शयितुं भगवान् क्षत्रियाय युद्धात् महान् न कोऽपि धर्मः इत्युक्तवान् । अनायासेन प्राप्तं युद्धं स्वर्गप्राप्तेः सहजमार्गः अस्ति । त्वं युद्धरूपिणः धर्मस्य आचरणं न करिष्यसि, तर्हि त्वं पापी भविष्यसि । यदि त्वं जयपराजयं, लाभहानिं, सुखुदुःखं च समं मत्वा योत्स्यसि, तर्हि त्वं पापी न भविष्यसि । तव कर्तव्यकर्मणि एवाधिकारः अस्ति, न तु फले । कर्मफलस्य इच्छायुक्तः मा भव तथा च अकर्मासक्तः अपि मा भव । अतः सिद्ध्यसिद्ध्योः समानत्वं दृष्ट्वा समतापूर्वकं कार्यं कुरु । यतः समता एव योगः अस्ति । यः मनुष्यः समबुद्धिः सन् कार्यं करोति, सः जीवितावस्थायाम् अपि पुण्यपापेभ्यः विमुक्तः भवति । यदा ते बुद्धिः मोहरूपिणं कलिलं, श्रुतिविप्रतिपत्तिं च लङ्घयिष्यति तदा त्वं योगं प्राप्स्यसि ।

शाङ्करभाष्यम् []

[सम्पादयतु]

सैषा ज्ञाननिष्ठा स्तूयते - एषा ब्रह्मीति ।

एषा  यथोक्ता  ब्राह्मी  ब्रह्मणि भवा इयं  स्थितिः  सर्वं कर्म संन्यस्य ब्रह्मरूपेणैव अवस्थानम् इत्येतत्। हे  पार्थ न एनां  स्थितिं  प्राप्य  लब्ध्वा न  विमुह्यति  न मोहं प्राप्नोति।  स्थित्वा अस्यां  स्थितौ ब्राह्म्यां यथोक्तायां  अन्तकालेऽपि  अन्त्ये वयस्यपि  ब्रह्मनिर्वाणं  ब्रह्मनिर्वृतिं मोक्षम्  ऋच्छति  गच्छति। किमु वक्तव्यं ब्रह्मचर्यादेव संन्यस्य यावज्जीवं यो ब्रह्मण्येव अवतिष्ठते स ब्रह्मनिर्वाणमृच्छति इति ।।

 इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये द्वितीयोऽध्यायः।।

भाष्यार्थः

[सम्पादयतु]

अथ तस्याः उपर्युक्तायाः ज्ञाननिष्ठायाः स्तुतिः क्रियते –

एषा उपर्युक्ता अवस्था ब्राह्मी अर्थात् ब्रह्मस्थितिः अस्ति । एतस्य तातत्पर्यम् अस्ति यत्, सर्वकर्मणां सन्न्यासं कृत्वा केवलं ब्रह्मणि स्थितिः भवेत् इति । हे पार्थ ! एतां स्थितिं प्राप्य मनुष्यः पुनः कदापि मोहितः न भवति । यदि अन्तकालेऽपि उपर्युक्तायां ब्राह्मीस्थितौ अवस्थितः भूत्वा मनुष्यः ब्रह्मणि विलीनः भवति अर्थात् मोक्षं प्राप्नोति, तर्हि यः ब्रह्मचर्याश्रमादेव सन्न्यासं गृहीत्वा आजीवनं ब्रह्मणि स्थितः भवति, तस्य ब्रह्मनिर्वाणप्राप्त्यै तु किं वक्तव्यम् ?

रामानुजभाष्यम् [१०]

[सम्पादयतु]

एषा  नित्यात्मज्ञानपूर्विका असङ्गकर्मणि  स्थितिः  स्थितधीलक्षणा  ब्राह्मी  ब्रह्मप्रापिका। ईदृशीं कर्मस्थितिं  प्राप्य न विमुह्यति  न पुनः संसारम् आप्नोति।  अस्यां  स्थित्याम् अन्तिमे अपि वयसि  स्थित्वा ब्रह्म निर्वाणम् ऋच्छति  निर्वाणमयं ब्रह्म गच्छति सुखैकतानम् आत्मानम् आप्नोति इत्यर्थः।

एवम् आत्मयाथात्म्यं युद्धाख्यस्य च कर्मणः तत्प्राप्तिसाधनताम् अजानतः शरीरात्मज्ञानेन मोहितस्य तेन च मोहेन युद्धात् निवृत्तस्य तन्मोहशान्तये नित्यात्मविषया सांख्यबुद्धिः तत्पूर्विका च असङ्गकर्मानुष्ठानरूपकर्मयोगविषया बुद्धिः स्थितप्रज्ञतायोगसाधनभूता द्वितीयेऽध्याये प्रोक्ता। तदुक्तम् नित्यात्मासङ्गकर्मेहागोचरा सांख्ययोगधीः। द्वितीये स्थितधीलक्ष्या प्रोक्ता तन्मोहशान्तये।। (गीतार्थसंग्रहे 6) इति।

भाष्यार्थः

[सम्पादयतु]

नित्यात्मनः ज्ञानात् युक्तायाः, आसक्तिरहितकर्मसु विद्यमानायाः एतस्याः स्थिरबुद्धेः साधनरूपा स्थितिः ब्राह्मी इति । ब्राह्मी अर्थाद् ब्रह्मप्राप्तेः स्थितिः । एवं कर्मस्थितिं प्राप्य पुरुषः पुनः मोहितः न भवति । अर्थाद् पुनः संसारसागरे न निमज्जति । अन्तिमावस्थायाम् अर्थाद् मरणावस्थायाम् अपि एतस्यां स्थितौ स्थिरो भूत्वा मनुष्यः निर्वाणं प्राप्तुं शक्नोति । अर्थात् शान्तिमयं सुखैकतानं ब्रह्मतत्त्वं लभते ।

एवं द्वितीये अध्याये आत्मनः यथार्थस्वरूपम्, आत्मतत्त्वस्य साधनत्वेन युद्धकर्म अस्ति इति विषयं यः न जानाति, तस्य शरीरमेव आत्मत्वेन स्वीकृत्य मोहितं, मोहाद् युद्धविरतम् अर्जुनं प्रति तस्य मोहं नाशयितुं भगवान् नित्यात्मविषयस्य साङ्ख्यबुद्धिम् अवदत् । साङ्ख्यबुद्धेः विवेचनेन सह भगवान् साङ्ख्यबुद्धिसहितां आसक्तिरहितां कर्मानुष्ठारूपिणीं कर्मयोगविषयिणीं बुद्धिम् अपि अवदत् । अर्थाद् स्थितप्रज्ञतारूपिणः योगस्य साधनरूपिण्याः बुद्धिम् अवर्णयत् । उक्तं च तद् – तस्य अर्जुनस्य मोहस्य शान्त्यै नित्यात्मज्ञानविषयिणीं साङ्ख्यबुद्धिम्, आसक्तिरहितकर्मानुष्ठानविषयिणीं योगबुद्धिं च भगवान् अकथयत् । ययोः साध्यं 'स्थितप्रज्ञता' अस्ति [११] इति ।

श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
विहाय कामान्यः सर्वान्...
एषा ब्राह्मी स्थितिः पार्थ... अग्रिमः
ज्यायसी चेत्कर्मणस्ते...
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः

[सम्पादयतु]

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

उद्धरणम्

[सम्पादयतु]
  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीता, अ. ४, श्लो. ३५
  3. गीता, अ. ७, श्लो. ३०
  4. गीता, अ. ८, श्लो. ५
  5. गीता, अ. २, श्लो. ४०
  6. गीता, अ. ५, श्लो. २४-२६
  7. गीता, अ. २, श्लो. ११-३०
  8. गीता, अ. २, श्लो. ३१-५३
  9. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  10. रामानुजभाष्यम्
  11. गीता, अ. ४, श्लो. ३५

अधिकवाचनाय

[सम्पादयतु]