यं हि न व्यथयन्त्येते...
यं हि न व्यथयन्त्येते... तितिक्षावर्णनम् | |
---|---|
श्लोकसङ्ख्या | २/१५ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | मात्रास्पर्शास्तु कौन्तेय... |
अग्रिमश्लोकः | नासतो विद्यते भावो... |
यं हि न व्यथयन्त्येते ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्री कृष्ण: तितिक्षावर्णनं करोति । पूर्वस्मिन् श्लोके भगवान् मात्रास्पर्शायाः तितिक्षायाः विषयम् उपस्थाप्य अत्र का सा तितिक्षा ? इति वर्णयति । सः कथयति यत्, हे पुरुषश्रेष्ठ ! सुखदुःखयोः समयुक्तं धीरं मनुष्यं ते मात्रास्पर्शाः (पदार्थाः) न व्यथयन्ति, सः तु अमरः भवति इति।
श्लोकः
[सम्पादयतु]- यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
- समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ १५ ॥
पदच्छेदः
[सम्पादयतु]यम्, हि, न, व्यथयन्ति, एते, पुरुषम्, पुरुषर्षभ । समदुःखसुखम्, धीरम्, सः, अमृतत्वाय, कल्पते ॥
अन्वयः
[सम्पादयतु]पुरुषर्षभ ! एते यं समदुःखसुखं धीरं पुरुषं न व्यथयन्ति सः अमृतत्वाय कल्पते ।
शब्दार्थः
[सम्पादयतु]अन्वयः | विवरणम् | सरलसंस्कृतम् |
पुरुषर्षभ | अ.पुं.स्मबो.एक. | हे पुरुषश्रेष्ठ ! |
एते | एतद्-द.सर्व.पुं.प्र.बहु. | मात्रास्पर्शाः |
यम् | यद्-द.सर्व.पुं.द्वि.एक. | यम् |
समदुःखसुखम् | अ.पुं.द्वि.एक. | सुखं दुःखं च समं मन्यमानम् |
धीरम् | अ.पुं.द्वि.एक. | मनस्विनम् |
न | अव्ययम् | न |
व्यथयन्ति | √व्यथ भयसञ्चलनयोः-पर.कर्तरि, लट्.प्रपु.बहु. | पीडयन्ति |
सः | तद्-द.सर्व.पुं.प्र.एक. | सः जनः |
अमृतत्वाय | अ.नपुं.च.एक. | मुक्तये |
कल्पते | √कृपू सामर्थ्ये-आत्म.कर्तरि, लट्.प्रपु.एक. | योग्यः भवति । |
व्याकरणम्
[सम्पादयतु]सन्धिः
[सम्पादयतु]- व्यथयन्त्येते = व्यथयन्ति + एते - यण्सन्धिः
- सोऽमृतत्वाय = सः + अमृतत्वाय – विसर्गसन्धिः (सकारः), रुत्वम्, उकारः, गुणः, पूर्वरूपं च
समासः
[सम्पादयतु]- पुरुषर्षभः = पुरुषः ऋषभः इव – कर्मधारयः ।
- समदुःखसुखम् = सुखं च दुःखं च सुखदुःखे – द्वन्द्वः ।
- समे सुखदुःखे यस्य सः, तम् – बहुव्रीहिः ।
तद्धितान्तः
[सम्पादयतु]- अमृतत्वाय = अमृत + त्व (भावे), तस्मै । मोक्षाय इत्यर्थः ।
अर्थः
[सम्पादयतु]यः जनः सुखं दुःखं च समं मन्यते तं शीतोष्णसुखदुःखकराः विषयसम्बन्धाः किञ्चिदपि न व्यथयन्ति । सोऽयं द्वन्द्वसहिष्णुः जनः मोक्षं प्राप्तुं योग्यः भवति ।
'पुरुषर्षभ' – मनुष्यः महता परिश्रमेण परिस्थितिं परिवर्तयितुं चिन्तयति, प्रयतते च । परन्तु परिस्थितिः तु कदापि न परिवर्तते । युद्धरूपपरिस्थितेः परिवर्तनविचारं त्यक्त्वा अर्जुनः स्वकल्याणमार्गम् अचिनोत् । तस्य कल्याणमार्गस्य चयनेन एव मुष्यस्य श्रेष्ठतायाः मूल्याङ्कनं भवति ।
'समदुःखसुखं धीरम्' – धीरमनुष्यः सुखदुःखयोः समो भवति । अन्तःकरणवृत्त्या एव सुखं, दुःखं च भिन्नं प्रतीयते । सुखदुःखोपभोगस्य कारणं पुरुषः (चेतनः) भवति । प्रकृतौ स्थितित्वाद् सः कारणं भवति [२] । यदा सः स्वरूपे स्थिरः भवति, तदा सुखदुःखोपभोगस्य कारणं न भवति । एवं स्वरूपे स्थिते सति सुखदुःखयोः स्वाभाविकतया सम एव तिष्ठति ।
'यं हि न व्यथयन्त्येते पुरुषम्' – मात्रास्पर्शाः अर्थात् प्रकृतिपदार्थाः धीरमनुष्यं व्यथितं कर्तुं न शक्नुवन्ति । प्राकृतिकपदार्थसंयोगवियोगाभ्यां यद् सुखदुःखमुत्पद्यते, तद् व्यथात्वेन परिगण्यते । परन्तु यस्य दृष्टिः समतायुक्ता अस्ति, तं प्राकृतिकपदार्थानां संयोगवियोगौ सुखिनं, दुःखिनं च कर्तुं न शक्नुतः । समबुद्धित्वाद् अनुकूलपरिस्थितौ सुखज्ञानं तु भवति, परन्तु भोगाभावद् अन्तःकरणसंस्कारः स्थायी न तिष्ठति । तथैव प्रतिकूलस्थितौ अपि दुःखबोधः तु भवति, परन्तु भोगाभावाद् अन्तःकरणसंस्कारः न दृढीभवति । एवं सुखदुःखयोः ज्ञाने सत्यपि धीरः मनुष्यः सुखी, दुःखी वा न भवति ।
'सोऽमृतत्वाय कल्पते' – तादृशः मनुष्यः अमरतायोग्यः भवति । अर्थात् सः अमरः भवति इति । किञ्च तस्यामरता तु स्वतःसिद्धा अस्ति । केवलं पदार्थसंयोगवियोगाभ्यां स्वस्मिन् विकारम् आरोपितवान् आसीत्, स एव तस्य दोषः आसीत् ।
मर्मः
[सम्पादयतु]मनुष्ययोनेः उद्देश्यं सुखदुःखोपभोगः न, अपि तु परमशान्तिः अस्ति । तस्याः परमशान्तेः प्राप्त्युत्तरं किमपि प्राप्तव्यं नावशिष्यते [३] । यदि वस्तु-व्यक्ति-परिस्थितीत्यादीनाम् आनुकूल्ये उत तासां सम्भावनायां सत्यां मनुष्यस्य अन्तःकरणे अनुकूलवस्तूनि प्रति कामना, लोलुपता वा उद्भवति, तर्हि सः मनुष्यः अनुकूलतायाः सदुपयोगं कर्तुं न पारयति । यतः सः वस्त्वादीनाम् आनुकूल्यस्योपभोगे एव सम्पूर्णं सामर्थ्यम् अपव्ययीकरोति । तथैव यदि वस्त्वादीनाम् उपभोगे उद्भूतायां प्रतिकूलपरिस्थित्याम् अपि आशङ्का, उद्वेगः वा उत्पद्यते, तर्हि मनुष्यः प्रतिकूलतायाः सदुपयोगं कर्तुं न शक्नोति । यतो हि वस्त्वादीनां प्रातिकूल्यस्योपभोगे एव निबद्धो भूत्वा मनुष्यः दुःखी भवति ।
यदि वस्त्वादिभ्यः आनुकूल्ये प्राप्ते तेषामुपभोगं कुर्वन् सुविधादिषु वृद्धिं कुर्मः, तर्हि तद् अनुकूलतायाः उपभोगः मन्यते । परन्तु निर्वाहबुद्धिः भूत्वा उपलब्धवस्तूनाम् अभावग्रस्तेषु वितरणं अनुकूलपरिस्थितेः सदुपयोगः उच्यते । प्रतिकूलतायाः उपयोगः कथम् ? इति प्रश्नः भवति । तर्हि उत्तरम् अस्ति यत्, सुखेच्छा एव दुःखकारणम् । यदि मनुष्यः अनुकूलपरिस्थत्याः इच्छां त्यक्त्वा सुखेच्छां त्यजति, तर्हि प्रतिकूलपरिस्थितौ दुःखं नानुभूवति । यथा कश्चन रोगी ओषधित्वेन तिक्तातितिक्तं द्रव्यं स्वीकरोति, तथापि सः दुःखी न भवति । प्रत्युत अनया ओषध्या मे रोगोपशमनं भविष्यति इति विचिन्त्य सः हर्षितो भवति । एवं मनुष्यः पीडाम् अपि हर्षेण सहते । एवमेव सुखेच्छायाः त्यागं कृत्वा दुःखेषु सत्स्वपि प्रसन्नतापूर्वकं जीवनं यापयति चेत्, मनुष्यः प्रतिकूलतायाः उपयोगं कर्तुं प्रभवति ।
यदि मनुष्यः सुखदुःखयोः उपयोगं कुर्वन् भवति, तर्हि भविष्येऽपि सः भोगयोनिषु पतति । यतो हि मनुष्यः सुखदुःखे उपभुनक्ति, असमसुखदुःखी भवति चेत्, सः कदापि मुक्तिपात्रः न भवति । भगवान् उक्तवान् यत्, सांसारिकपदार्थादयः अनुकूलप्रतिकूलफलदाः, अनित्याः च सन्ति । तेषामुपभोगेन मनुष्यः केवलं स्वभावं मलिनीकरोति । परन्तु यदि मनुष्यः सुखदुःखयोः उपभोगम् अकृत्वा, तयोः सदुपयोगं करोति, तर्हि आनन्दपदं प्राप्स्यति इति [४] ।
शीतोष्णादीन्सहतः किं स्यादिति श्रृणु-यं हीति।
यं हि पुरुषं समे दुःखसुखे यस्य तं समदुःखसुखं सुखदुःखप्राप्तौ हर्षविषादरहितं धीरं धीमन्तं न व्यथयन्ति न चालयन्ति नित्यात्मदर्शनात् एते यथोक्ताः शीतोष्णादयः सः नित्यात्मस्वरूपदर्शननिष्ठो द्वन्द्वसहिष्णुः अमृतत्वाय अमृतभावाय मोक्षायेत्यर्थः कल्पते समर्थो भवति।।
भाष्यार्थः
[सम्पादयतु]सुखदुःखं समत्वेन (सुखदुःखयोः प्राप्त्योः हर्षविषादरहितत्वं समत्वम्) यः स्वीकरोति, तादृशं धीरं बुद्धिमन्तं पुरुषम् उपर्युक्ताः शीतोष्णादयः व्यथितं कर्तुं न शक्नुवन्ति । अर्थात् नित्यात्मदर्शनाद् विचलितं कर्तुं न प्रभवन्तीति । सः नित्यात्मदर्शननिष्ठः, शीतोष्णादिद्वन्दसाहकः पुरुषः मृत्य्वतीतः भवति । अर्थात् मोक्षसमर्थः भवति इति ।
रामानुजभाष्यम्
[सम्पादयतु]तत्क्षान्तिं किमर्था ? इत्यत आह—यं हि इति ।
यं पुरुषं धैर्ययुक्तम् अवर्जनीयदुःखं सुखवन्मन्यमानम् अमृतत्वसाधनतया स्ववर्णोचितं युद्धादिकर्म अनभिसंहितफलं कुर्वाणं तदन्तर्गताः शस्त्रपातादिमृढुक्रूरस्पर्शा न व्यथयन्ति स एव अमृतत्वं साधयति न त्वादृशो दुःखासहिष्णुः इत्यर्थः।
भाष्यार्थः
[सम्पादयतु]अनिवार्यदुःखं सुखवद् मन्यमानं, तं दुःखं मोक्षसाधनं मन्यमानं, फलाभिसन्धिरहितं सन्तं स्ववर्णोचितयुद्धादिकार्यं क्रियमाणं, धैर्यवन्तं पुरुषं युद्धादिकर्मानुष्ठानकाले कोमलकठोरस्पर्शाः व्यथितं कर्तुं न प्रभवन्ति । उक्तः अव्यथितः पुरुष एव अमृतत्वं (मोक्षं) प्राप्तुं शक्नोति । अर्थात् त्वत्सदृशः दुःखासाहकः मोक्षं प्राप्तुं न शक्नोति । आत्मनां नित्यत्वाद् एतद् सर्वं सोढव्यम् इत्येव तव कर्तव्यम् अस्ति इति ।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये यं हि न व्यथयन्त्येते... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च