कुतस्त्वा कश्मलमिदं...
कुतस्त्वा कश्मलमिदं... अर्जुनस्य शोकेन भगवतः आश्चर्यम् | |
---|---|
श्लोकसङ्ख्या | २/२ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | तं तथा कृपयाविष्टम्... |
अग्रिमश्लोकः | क्लैब्यं मा स्म गमः पार्थ... |
कुतस्त्वा कश्मलमिदम् ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अर्जुनम् असमये कापुरुषत्वं कुतः त्वयि उद्भूतम् ? इति पृच्छति । पूर्वस्मिन् श्लोके सञ्जयः धृतराष्ट्रम् उद्दिश्य श्रीकृष्णार्जुनयोः संवादस्य आरम्भम् अकरोत् । सः वदति यत्, अर्जुनं मधुसूदनः एतानि वाक्यानि अवदत् इति । एवम् अत्र भगवान् अर्जुनम् उद्दिश्य तस्य युद्धोपरामस्य निर्णयं वारयितुं प्रत्यनम् आरभते । अत्र भगवान् कथयति यत्, हे अर्जुन ! एतस्मिन् विषमे प्रसङ्गे तव मनसि कुत एष कापुरुषतापूर्णः विचारः समागतः ? एतादृशाः विचाराः श्रेष्ठपुरुषस्य मनसि कदापि नोद्भवन्ति । एते विचाराः अस्वर्गम्, अकीर्तिं च प्रापयन्ति इति ।
श्लोकः
[सम्पादयतु]श्रीभगवानुवाच -
- कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
- अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ २ ॥
पदच्छेदः
[सम्पादयतु]कुतः, त्वा, कश्मलम्, इदम्, विषमे, समुपस्थितम् । अनार्यजुष्टम्, अस्वर्ग्यम्, अकीर्तिकरम्, अर्जुन ॥
अन्वयः
[सम्पादयतु]अर्जुन ! विषमे अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् इदं कश्मलं कुतः त्वा समुपस्थितम् ?
शब्दार्थः
[सम्पादयतु]अन्वयः | विवरणम् | सरलसंस्कृतम् |
अर्जुन | अ.पुं.सम्बो.एक. | हे अर्जुन ! |
विषमे | अ.पुं.स.एक. | विपत्तिकाले |
अनार्यजुष्टम् | अ.नपुं.प्र.एक. | असाधुसेवितम् |
अस्वर्ग्यम् | अ.नपुं.प्र.एक. | स्वर्गायोग्यम् |
अकीर्तिकरम् | अ.नपुं.प्र.एक. | अयशस्करम् |
इदम् | इदम्-म.सर्व.नपुं.प्र.एक. | एतत् |
कश्मलम् | अ.नपुं.प्र.एक. | चित्तकालुष्यम् |
कुतः | अव्ययम् | कस्मात् कारणात् |
त्वा | युष्मद्-द.सर्व.पुं.द्वि.एक. | त्वाम् |
समुपस्थितम् | अ.नपुं.प्र.एक. | समागतम् । |
व्याकरणम्
[सम्पादयतु]सन्धिः
[सम्पादयतु]- कुतस्त्वा = कुतः त्वा – विसर्गसन्धिः (सकारः)
समासः
[सम्पादयतु]- अनार्यजुष्टम् = आर्यैः जुष्टम् – आर्यजुष्टम् – तृतीयतत्पुरुषः ।
- न आर्यजुष्टम् – नञ्तत्पुरुषः ।
- अस्वर्ग्यम् = न स्वर्ग्यम् – नञ्तत्पुरुषः ।
- अकीर्तिकरम् = न कीर्तिकरम् – नञ्तत्पुरुषः ।
कृदन्तः
[सम्पादयतु]- समुपस्थितम् = सम् + उप + स्था + क्त (कर्तरि)
- जुष्टम् = जुष् + क्त (कर्मणि)
तद्धितान्तः
[सम्पादयतु]- कुतः = किम् + तसिल् (कु आदेशः) । कस्मात् इत्यर्थः ।
अर्थः
[सम्पादयतु]हे अर्जुन ! क्लिष्टसमये असाधुसेवितम्, अस्वर्गफलम्, अयशस्करं च एतादृशं चित्तकालुष्यं कथं त्वां समागतम् ?
'अर्जुन' एतस्य सम्बोधनपदस्य तात्पर्यम् अस्ति यत्, त्वं स्वच्छः, निर्मलः, शुद्धान्तःकरणः असि । अतः तव स्वभावे एतादृशी कापुरुषता न भवेत् । तथापि त्वयि एषा कापुरुषता कुतः सम्प्राप्ता ?
'कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्' – भगवान् आश्चर्यं प्रकटयन् अर्जुनं कथयति यत्, सद्यः युद्धस्य प्रसङ्गे तव मनसि शूरवीरतायाः, उत्साहस्य च विचाराः आगच्छेयुः, परन्तु अस्मिन् अनुपयुक्ते समये तव मनसि कापुरुषतायाः विचाराः कुतः सम्प्राप्ताः ?
आश्चर्यं द्विधा भवति । प्रप्रथमं तु स्वस्य अज्ञानवशात्, द्वितीयम् अन्यस्मै पूर्वसूचनां दातुञ्च । भगवान् अत्र अर्जुनाय पूर्वसूचनां दातुमेव आश्चर्यं प्रकटयति, येन अर्जुनस्य ध्यानं कर्तव्यं प्रति आकृष्टं स्यात् ।
'कुतः' इत्यस्य पदस्य तात्पर्यम् अस्ति यत्, एतस्याः कापुरुषतायाः विचारः तव नास्ति, अपि तु आगन्तुकः विचारः अस्ति, यः दीर्घकालं यावत् न स्थास्यति इति ।
'समुपस्थितम्' – इत्यस्य पदस्य तात्पर्यम् अस्ति यत्, एतस्याः कापुरुषतायाः प्रभावः न केवलं तव वचनेषु अस्ति, अपि तु तव क्रियायाम् अपि अस्ति । एवं सा तव व्यक्तित्वे पूर्णतया आक्रमणम् अकरोत्, येन त्वं धनुष्काण्डं त्यक्त्वा स्थितोऽसि ।
'अनार्यजुष्टम्' – इत्यस्य पदस्य तात्पर्यम् अस्ति यत्, ज्ञानी श्रेष्ठः मनुष्यः एतादृशान् विचारान् न करोति । स स्वकल्याणस्य उद्देश्यं पश्यति । अतः श्लोकस्यास्य उत्तरार्धे भगवान् प्रप्रथमम् एतस्य पदस्य उपयोगं कृत्वा अस्थाने कापुरुषतापूर्णविचारान् श्रेष्ठपुरुषाः न कुर्वन्ति इति सङ्केतयति । यतः सा कापुरुषता स्वकल्याणस्य मार्गम् अवरुणद्धि । श्रेष्ठपुरुषाः प्रवृत्तौ, निवृत्तौ च स्वकल्याणस्यैवोद्देश्यं साधयितुं प्रयतन्ते । तेषु स्वकर्तव्यं प्रति कापुरुषत्वं न जायते । परिस्थित्यनुगुणं यत् कर्तव्यं श्रेष्ठजनानां सम्मुखं समायाति, तत् कल्याणप्राप्तेः उद्देशस्य साधनत्वेनैव ते पश्यन्ति । ते तत् कार्यम् उत्साहेन सह तत्परतापूर्वकं साङ्गोपाङ्गं कुर्वन्ति । ते तव सदृशं कापुरुषत्वं प्रदर्श्य कर्तव्यकर्मभ्यः न उपरमन्ति । अतः युद्धरूपिणः प्राप्तकर्तव्यात् उपरतिः ते कल्याणकरः नास्ति ।
'अस्वर्ग्यम्' – कल्याणस्य विषये अविचिन्त्यापि सांसारिकसुखं प्रति जागृतः भवति चेदपि, संसारात् स्वर्गलोकः उच्चः अस्ति । परन्तु ते कापुरुषतैषा स्वर्गलोकस्य सुखम् अपि अपक्रक्ष्यति । अर्थात् युद्धात् उपरतित्वात् स्वर्ग्यसुखात् त्वं वञ्चितः भविष्यसि ।
'अकीर्तिकरम्' – यदि स्वर्गप्राप्तिः ते लक्ष्यं नास्ति, तर्ह्यपि सत्पुरुषः जगति कीर्तिं प्राप्तुं कर्माणि करोति । परन्तु ते एषा कापुरुषता इह लोकेऽपि कीर्तिदा (यश) नास्ति, अपि तु अपकीर्तिदा अस्ति । अतः ते कापुरुषतायाः उद्भव एव अयोग्यः अस्ति ।
त्रिधा मनुष्याः भवन्ति । १. विचारशीलाः, २. पुण्यात्मनः, ३. साधारणाः । विचारशीलाः केवलं स्वकल्याणमेवेच्छन्ति । तेषां ध्येयः, उद्देश्यं च केवलं कल्याणमेव भवति । पुण्यात्मनः शुभकर्मभिः स्वर्गं प्राप्तुम् इच्छन्ति । अतः तेषाम् उद्देश्यं स्वर्गप्राप्तिः भवति । साधारणमनुष्याः संसारमेव पश्यन्ति । अतः ते संसारे स्वकीर्तिम् इच्छन्ति । अतः तेषां ध्येयः कीर्तिः भवति । उक्तानि त्रीणि पदानि (अस्वर्ग्यम्, अकीर्तिकरम्, अनार्यजुष्टम्) उयुज्य भगवान् अर्जुनं सावधानं करोति यत्, युद्धनिवृत्तेः ते विचार एषः क्रमेण विचारशीलस्य, पुण्यात्मनः, साधारणस्य च मनुष्यस्य ध्येयान् साधयितुम् अपि अशक्तः अस्ति । अतः मोहग्रस्तः तव एषः निर्णयः अतीव तुच्छः अस्ति । एषः निर्णयः त्वं नरकं प्रति नेष्यति इति ।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये कुतस्त्वा कश्मलमिदं... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]- ↑ गीतामञ्जरी, गीताप्रेस
अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च